प्रथमोऽध्याय: प्रथमा वल्ली (१.१.१-२९ / १.१-२९)
Approaching the teaching beyond death
♬
❚❚
KathU.1.1.1 (1.1).
उ॒शन् ह॑ वै वा॒ज-श्र॑वसः स॒र्व-वे॑दसं ददौ। त॒स्य ह॒ नचि॑केता नाम पु॒त्र आ॑स।
उशन् ह वै – (The Upaniṣad says) Once upon a time, desiring (heavenly results), वाज-श्रवसः सर्व-वेदसं ददौ – Vāja-śravasa gave away all his (earthly) wealth (in the Viśva-jit sacrifice). तस्य ह नचिकेता नाम पुत्रः आस – He had a son named Naciketas.
♬
❚❚
KathU.1.1.2 (1.2).
तग्ँ॒ ह कु॒मारग्ँ सन्तं द॒क्षिणासु नी॒यमानासु श्र॒द्धावि॑वेश सो॒ऽमन्यत।
दक्षिणासु नीयमानासु – When the dakṣiṇās (gifts to sacrifice participants) were being taken away, तं ह कुमारं सन्तं श्रद्धा आविवेश – faith overpowered the son (Naciketas), who was just a boy. सः अमन्यत – He thought (thus).
♬
❚❚
पी॒तोद॑का ज॒ग्ध-तृ॑णा दु॒ग्ध-दो॑हा निर्-इ॒न्द्रियाः।
अ॒न॒न्दा॒ नाम॒ ते लो॒कास् तान् स॒ गच्छ॑ति ता॒ दद॑त्॥KathU.1.1.3 (1.3)॥
● पीत-उदकाः – (Naciketas thought) Which (cows for the last time) have drunk water, जग्ध-तृणाः – eaten grass
○ दुग्ध-दोहाः – (and) given milk, निर्-इन्द्रियाः – (and) are powerless (to calve),
● अ-नन्दाः नाम – joyless indeed ते लोकाः – are those worlds
○ तान् सः गच्छति ताः ददत् – one goes to who is giving such (dakṣiṇās).
♬
❚❚
स॒ होवाच पि॒तरं तत क॒स्मै मां दास्यसीति।
द्वि॒तीयं तृ॒तीयं तग्ँ हो॑वाच। मृ॒त्यवे॑ त्वा ददामीति॥KathU.1.1.4 (1.4)॥
● सः ह उवाच पितरम् – The boy said to his father
○ ‘तत, कस्मै मां दास्यसि’ इति – “O father, to whom will you give me (as dakṣiṇā)?
● द्वितीयं तृतीयम् – (When the father did not bother to answer, the boy asked) twice, thrice. तं ह उवाच – (Annoyed, the father impulsively) said to him,
○ ‘मृत्यवे त्वा ददामि’ इति – “I give you to Lord Death.”
♬
❚❚
ब॒हूनाम् ए॑मि प्रथमो ब॒हूनाम् ए॑मि मध्यमः।
किग्ँ॒स्विद् यमस्य॑ क॒र्त॒व्यं॒ य॒न् मया᳚द्य क॒रिष्य॑ति॥KathU.1.1.5 (1.5)॥
● बहूनां प्रथमः एमि – (Naciketas thought) Among many (students), I am first.
○ बहूनां मध्यमः एमि – Among many (others), I am middling.
● किं-स्विद् यमस्य कर्तव्यम् – What could (I) do for Lord Death
○ यद् मया अद्य करिष्यति – which (father) will accomplish by (giving) me now?
♬
❚❚
अ॒नुप॑श्य य॑था पू॒र्वे॒ प्र॒तिप॑श्य त॒थाप॑रे।
स॒स्यम् इव मर्त्यः॑ पच्य॒ते॒ स॒स्यम् इवाजा॑यते॒ पुनः॑॥KathU.1.1.6 (1.6)॥
● अनुपश्य यथा पूर्वे – (Naciketas implores his father to keep his word in gifting the boy as dakṣiṇā.) See how the forefathers (kept to their sacred word),
○ प्रतिपश्य तथा अपरे – Look around at how the others (keep their word).
● सस्यम् इव – Like a plant मर्त्यः पच्यते – a mortal perishes (but truth never dies),
○ सस्यम् इव आजायते पुनः – like a plant one is born again (from the seed of one’s deeds and words).
♬
❚❚
वैश्वा-नरः प्रवि॑शत्य् अ॒तिथि॑र् ब्राह्म॒णो गृ॑हान्।
तस्यै॑ताग्ँ शा॒न्तिं कु॑र्वन्ति ह॒र वै॑वस्व॒तोद॑कम्॥KathU.1.1.7 (1.7)॥
● वैश्वा-नरः प्रविशति अ-तिथिः – (Story jumps to Lord Death returning to His palace and finding Naciketas waiting for Him.) The Lord of Fire enters as a guest,
○ ब्राह्मणः गृहान् – this (thirsty) brāhmaṇa (boy) to the house.
● तस्य एतां शान्तिं कुर्वन्ति – (Hosts) make this peace offering to that one (the guest).
○ वैवस्वत उदकं हर – O Lord Death (Vaivasvata), fetch water.
♬
❚❚
आ॒शा-प्र॑तीक्षे स॒ङ्गतग्ँ॑ सू-नृतां चे॒ष्टा-पू॑र्ते पु॒त्र-प॒शूग्ँश् च॑ सर्वान्।
ए॒तद् वृ॑ङ्क्ते पुरु॑षस्याल्प॑-मेध॒सो॒ य॒स्यान॑श्नन् व॒सति॑ ब्राह्म॒णो गृ॑हे॥KathU.1.1.8 (1.8)॥
● आशा-प्रतीक्षे – Hopes and expectations, सङ्गतं – (the good merit of) ennobling company, सू-नृताम् – noble speech,
○ च इष्टा-पूर्ते – rituals, social service, पुत्र-पशून् च सर्वान् – children and cattle (wealth), all
● एतद् वृङ्क्ते – this he (indirectly) plucks away (to an extent) पुरुषस्य अल्प-मेधसः – from the neglectful person (the host, because of the negligence) यस्य – (in) whose
○ अन्-अश्नन् वसति ब्राह्मणः गृहे – house a brāhmaṇa (guest) stays without eating.
♬
❚❚
ति॒स्रो रात्रीर् यद् अवा॑त्सीर् गृ॒हे॒ मे॒ऽन॒श्नन् ब्र॑ह्मन्न् अ॒तिथि॑र् नमस्यः।
नम॑स् तेऽस्तु ब्रह्मन् स्वस्ति मे॑ऽस्तु त॒स्मात् प्रति॑ त्रीन् व॒रान् वृ॑णीष्व॥KathU.1.1.9 (1.9)॥
● तिस्रः रात्रीः यद् अवात्सीः गृहे – (Lord Death said) Since you have stayed three nights in the house
○ मे अन्-अश्नन्, ब्रह्मन् – of mine without eating, O brahman, अ-तिथिः नमस्यः – as an honorable guest,
● नमस् ते अस्तु – let (my) salutations be unto you. ब्रह्मन् – O brahman, सु-अस्ति मे अस्तु – let well-being be unto me.
○ तस्मात् – Therefore, प्रति त्रीन् वरान् वृणीष्व – for (the three nights) choose three boons.
♬
❚❚
शा॒न्त-स॑ङ्कल्पः सु॒-मना॑ यथा स्याद् वी॒त-म॑न्युर् गौ॒तमो॑ माभि मृत्यो।
त्व॒त्-प्रसृ॑ष्टं मा॒भिव॑देत् प्र॒ती॒त॒ ए॒तत् त्र॑याणां प्र॒थमं॑ वरं वृणे॥KathU.1.1.10 (1.10)॥
● शान्त-सङ्कल्पः, सु-मनाः, यथा स्यात् – (Naciketas said) May father be in this way (while I'm away) free from anxiety (and) pleased,
○ वीत-मन्युः गौतमः मा अभि – (and) may (my father) Gautama (Vāja-śravasa) be without anger towards me, मृत्यो – O Lord Death (Mṛtyu),
● त्वद्-प्रसृष्टं – Having been sent back from You (once my duties are complete here) मा अभिवदेत् प्रतीतः – may (father) greet me having (easily) recognized me (not aged or as a ghost).
○ एतद् त्रयाणां प्रथमं वरं वृणे – This is the first boon I choose among the three (for my father).
♬
❚❚
य॒था पु॑रस्ताद् भ॒विता॑ प्रतीत औ॒द्दाल॑किर् आरुणिर् म॒त्-प्रसृ॑ष्टः।
सु॒खग्ँ रात्रीः श॒यिता॑ वीत-मन्युस् त्वां द॒दृशि॑वान् मृ॒त्यु-मु॑खात् प्रमुक्तम्॥KathU.1.1.11 (1.11)॥
● यथा पुरस्तात् भविता – (Lord Death said) He will be as before प्रतीतः – having recognised (you).
○ औद्दालकिः आरुणिः – (your father) Auddālaki, the son of Aruna मद्-प्रसृष्टः – relieved by Me
● सुखं रात्रीः शयिता वीत-मन्युः – will sleep happily during the nights without anger,
○ त्वां ददृशिवान् मृत्यु-मुखात् प्रमुक्तम् – having seen you released from the jaws of death.
♬
❚❚
स्व॒र्गे लो॒के न भ॑यं किञ्चनास्ति न त॑त्र त्वं न ज॒रया॑ बिभेति।
उ॒भे ती॒र्त्वाशना॑यापिपासे शो॒काति॒गो मोद॑ते स्व॒र्ग-लो॑के॥KathU.1.1.12 (1.12)॥
● स्वर्गे लोके न भयं किञ्चन अस्ति – (Next Naciketas said) In heaven there is not the least fear.
○ न तत्र त्वं – You (Death) are not there, न जरया बिभेति – nor fear from ageing.
● उभे तीर्त्वा अशनाया-पिपासे – Transcending both hunger and thirst,
○ शोक-अतिगः – (and) gone beyond sorrow, मोदते स्वर्ग-लोके – one rejoices in heaven.
♬
❚❚
स त्व॒म् अग्निग्ँ स्वर्ग्य॑म् अ॒ध्येषि॑ मृत्यो प्रब्रू॑हि त्वग्ँ श्रद्दधा॒नाय॑ मह्यम्।
स्व॒र्ग-लोका अ॒मृत॑त्वं भजन्त एत॑द् द्विती॒येन वृ॒णे व॑रेण॥KathU.1.1.13 (1.13)॥
● सः त्वं स्वर्ग्यम् अग्निं अध्येषि – The (Veda) Fire (ritual) as a means to heaven you (have studied and) know (by which you have attained a high post here), मृत्यो – O Lord Death.
○ प्रब्रूहि त्वं श्रद्दधानाय मह्यं – Please teach (what You know) to me who has faith (in You and the scriptures).
● स्वर्ग-लोकाः अ-मृतत्वं भजन्ते – The people in heaven enjoy (a relative high degree of) immortality.
○ एतद् द्वितीयेन वृणे वरेण – I choose this as the second boon (for the people).
♬
❚❚
प्र ते॑ ब्रवीमि तद् उ मे॑ निबोध स्वर्ग्य॑म् अग्निं न॒चिके॑तः प्रजानन्।
अन॑न्त-लोकाप्तिम् अ॒थो प्र॑तिष्ठां विद्धि॑ त्वम् ए॒तं निहितं॑ गृहायाम्॥KathU.1.1.14 (1.14)॥
● प्र ते ब्रवीमि तद् उ – (Lord Death said) I am going to teach you this (Fire) right now. मे निबोध – Please learn from Me,
○ नचिकेतस् – O Naciketas, स्वर्गम् अग्निं प्रजानन् – (as I) am knowing this Fire for gaining heaven,
● अन्-अन्त-लोक-आप्तिम् – which (by doing) is a means to the attainment of that infinite world, अथो प्रतिष्ठाम् – but also its basis (the meditation deity, Virāṭ, for the highest heaven, brahma-loka).
○ विद्धि त्वम् एतं – You please know well this (which is the meditation added to the ritual performance) निहितं गुहायाम् – that is established in the hearts (the minds of upāsakas, meditators).
♬
❚❚
लोका॑दिम् अ॒ग्निं तम् उ॑वाच तस्मै या॒ इष्टका या॒वती॑र् वा यथा वा।
स चा॑पि तत् प्रत्यवदद् यथोक्त॑म् अथास्य मृ॒त्युः पुनर् ए॑वाह तुष्टः॥KathU.1.1.15 (1.15)॥
● लोक-आदिं अग्निं तम् उवाच तस्मै – (The Upaniṣad says) (Lord Death) taught him the Fire (as Virāṭ), the first (born) in the (manifest) universe.
○ याः इष्टकाः – (For the Fire ritual itself, He also taught) the type of bricks, यावतीः वा – how many, यथा वा – and in which arrangement.
● सः च अपि तद् प्रत्यवदत् – (Naciketas) then repeated the same (back to Lord Death) यथा-उक्तम् – as it was taught.
अथ अस्य मृत्युः पुनर् एव आह तुष्टः – Lord Death being pleased then told more.
♬
❚❚
तम् अ॑ब्रवीत् प्री॒यमा॑णो महात्मा व॒रं तवे॑हाद्य द॒दामि॑ भूयः।
तवै॑व ना॒म्ना भविता॑यम् अग्निः सृ॒ङ्कां चेमाम् अने॑क-रू॒पां गृ॑हाण॥KathU.1.1.16 (1.16)॥
● तम् अब्रवीत् प्रीयमाणः महा-आत्मा – Being pleased, the wise one (Lord Death) said to him,
○ वरं तव इह अद्य ददामि भूयः – I give you one more gift right here and now.
● तव एव नाम्ना भविता अयम् अग्निः – By your name only this Fire will be (known from now on).
○ सृङ्कां च इमाम् अन्-एक-रूपां गृहाण – Take this multifarious (gemmed) necklace also.
♬
❚❚
त्रि-णा॑चिके॒तस् त्रिभिर् ए॑त्य सन्धिं त्रि-क॑र्म-कृ॒त् तर॑ति जन्म-मृत्यू।
ब्रह्म॑-ज-ज्ञं दे॒वम् ई॑ड्यं विदित्वा निचा॑य्येमाग्ँ शा॒न्तिम् अत्य्-अ॑न्तम् एति॥KathU.1.1.17 (1.17)॥
● त्रि-नाचिकेतः – Having done Nācikata-fire three times, त्रिभिः एत्य सन्धिम् – having the three-fold association (mother-father-teacher),
○ त्रि-कर्म-कृत् – (and) having performed the three duties (ritual, scriptural studies, and charity), तरति जन्म-मृत्यू – that one transcends birth and death.
● ब्रह्म-ज-ज्ञं देवम् ईड्यं विदित्वा – Knowing this praiseworthy Lord (Virāṭ) who is (all-)knowing and born of Lord Brahmā (Hiraṇya-garbha, the universal subtle body),
○ निचाय्य – (and) meditating (on this Virāṭ), इमां शान्तिम् अति-अन्तम् एति – that one attains limitless peace which is this (that I have).
♬
❚❚
त्रि-णा॑चिके॒तस् त्रयम् ए॑तद् विदित्वा य ए॑वं वि॒द्वाग्ँश् चिनु॑ते ना॒चिके॑तम्।
स मृत्यु॑-पाशान् पु॒रतः॑ प्रणोद्य शो॒काति॒गो मोद॑ते स्व॒र्ग-लो॑के॥KathU.1.1.18 (1.18)॥
● त्रि-नाचिकेतः, त्रयम् एतद् विदित्वा – The Tri-Nācikata who knows the three (kind, number, and arrangement of bricks, as mentioned, etc.),
○ यः एवं विद्वान् – meditating thus (upon Virāṭ as the total including oneself) चिनुते नाचिकेतम् – (and) performs the Nācikata-fire (three times),
● सः मृत्यु-पाशान् पुरतस् प्रणोद्य – that (worshipper and meditator) already transcending the noose of death,
○ शोक-अतिगः – transcends sorrow, मोदते स्वर्ग-लोके – and rejoices in (the highest) heaven (brahma-loka).
♬
❚❚
ए॒ष ते॒ऽग्निर् नचिके॑तः स्वर्ग्यो यम् अ॑वृणी॒था द्विती॑येन वरेण।
एत॑म् अग्निं त॒वैव॑ प्रवक्ष्यन्ति ज॒नास॑स् तृती॒यं व॒रं न॒चिके॑तो वृणीष्व॥KathU.1.1.19 (1.19)॥
● एषः ते अग्निः, नचिकेतस्, स्वर्ग्यः – This is the Fire (taught) to you for gaining heaven, O Naciketas,
○ यं अवृणीथाः द्वितीयेन वरेण – that you asked as the second boon.
● एतम् अग्निं तव एव प्रवक्ष्यन्ति जनासः – The people will speak of this Fire as your (name).
○ तृतीयं वरं, नचिकेतस्, वृणीष्व – Ask for the third boon, O Naciketas.
♬
❚❚
येयं प्रेते विचिकि॑त्सा मनुष्येऽस्तीत्य् ए॒के नायम् अस्ती॑ति चै॒के।
एतद् वि॑द्याम् अ॒नुशि॑ष्टस् त्वयाहं व॒राणाम् ए॑ष व॒रस् तृ॑तीयः॥KathU.1.1.20 (1.20)॥
● या इयं प्रेते विचिकित्सा मनुष्ये – (Naciketas said) There is this doubt that when a person dies,
○ ‘अस्ति’ इति एके – some (say) “It survives”, ‘न अयम् अस्ति’ इति च एके – others (say) “It does not survive.”
● एतद् विद्याम् अनुशिष्टः त्वया अहम् – I wish to know this (nature of the individual that can survive death), having been instructed by You.
○ वराणाम् एषः वरः तृतीयः – Among the (three) boons, this is the third boon (for me).
♬
❚❚
देवै॑र् अत्रापि विचिकि॑त्सितं पुरा न हि॑ सु-विज्ञेयम् अणुर् ए॑ष धर्मः।
अन्यं॑ वरं न॒चिके॑तो वृणीष्व मा मो॑परोत्सीर् अति मा॒ सृजै॑नम्॥KathU.1.1.21 (1.21)॥
● देवैः अत्र अपि विचिकित्सितं पुरा – (Lord Death said) Even the deities long ago entertained doubt regarding this.
○ न हि सु-विज्ञेयम् अणुः एषः धर्मः – This subtle nature (dharma of the individual) cannot be easily known.
● अन्यं वरं, नचिकेतस्, वृणीष्व – O Naciketas, please choose another boon.
○ मा मा उपरोत्सीः – Do not bind Me. अति मा सृज एनम् – Give up this (demand) to Me.
♬
❚❚
देवै॑र् अत्रापि वि॒चिकि॑त्सितं किल त्वं॒ च मृ॒त्यो यन् न सु॒-ज्ञेय॑म् आत्थ।
वक्ता॑ चास्य त्वा॒-दृग् अ॑न्यो न लभ्यो नान्यो॑ वरस् तुल्य ए॒तस्य॑ कश्चित्॥KathU.1.1.22 (1.22)॥
● देवैः अपि अत्र विचिकित्सितं किल – (Naciketas said) Indeed, even the deities long ago entertained doubt regarding this.
○ त्वं च, मृत्यो, यद् न सु-ज्ञेयम् आत्थ – O Lord Death, You yourself said this is not easily known.
● वक्ता च अस्य त्वा-दृक् अन्यः न लभ्यः – Moreover, another teacher like You cannot be found.
○ न अन्यः वरः तुल्यः एतस्य कश्चिद् – No other boon is equal to this.
♬
❚❚
शता॑युषः पुत्र-पौ॒त्रान् वृ॑णीष्व ब॒हून् पशून् ह॒स्ति-हि॒रण्य॑म् अश्वान्।
भू॒मेर् म॒हद् आ॑यतनं वृणीष्व स्वयं॑ च जी॒व शरदो॑ यावद् इच्छसि॥KathU.1.1.23 (1.23)॥
● शत-आयुषः पुत्र-पौत्रान् वृणीष्व – (Lord Death said) Please choose children and grandchildren with hundred year lives,
○ बहून् पशून्, हस्ति-हिरण्यम्, अश्वान् – (and) plenty of cattle, elephants, gold, and horses.
● भूमेः महत् आयतनं वृणीष्व – May you also choose a vast kingdom on earth.
○ स्वयं च जीव – May you yourself live शरदः यावत् इच्छसि – for as many years as you wish.
♬
❚❚
ए॒तत्-तुल्यं य॒दि म॑न्यसे वरं वृणी॑ष्व वि॒त्तं चिर-जी॑विकां च।
महा॑-भूमौ न॒चिके॑तस् त्वम् एधि कामा॑नां त्वा का॒म-भा॑जं करोमि॥KathU.1.1.24 (1.24)॥
● एतत्-तुल्यं यदि मन्यसे वरम् – If you think of (another) boon equal to this,
○ वृणीष्व वित्तं चिर-जीविकां च – please choose (that) as well as the wealth and long life.
● महा-भूमौ, नचिकेतस्, त्वम् एधि – O Naciketas, may you be throughout the vast earth (as its emperor).
○ कामानां त्वा काम-भाजं करोमि – I am going to make you an enjoyer of (all) enjoyments.
♬
❚❚
ये ये का॒मा दुर्-ल॑भा म॒र्त्य-लो॑के सर्वा᳚न् कामाग्ँश् छ॒न्दतः॑ प्रार्थयस्व।
इमा रामाः स॒-रथाः॑ स-तू॒र्या॒ न॒ हीदृ॑शा ल॒म्भनी॑या मनुष्यैः।
आ॒भिर् मत्-प्रत्ता॑भिः प॒रिचा॑रयस्व न॒चिक॒तो मरणं॑ मानुप्राक्षीः॥KathU.1.1.25 (1.25)॥
● ये ये कामाः – Whichever be the pleasures दुस्-लभाः मर्त्य-लोके – not attainable in the world of mortals,
○ सर्वान् कामान् – all those pleasures छन्दतस् प्रार्थयस्व – choose as you wish.
● इमाः रामाः – Here are pleasurable partners स-रथाः स-तूर्याः – with their chariots and musical instruments.
○ न हि ईदृशाः लम्भनीयाः मनुष्यैः – Such (pleasurables) indeed cannot be attained by mortals.
● आभिः मद्-प्रत्ताभिः परिचारयस्व – By these (pleasurables) gifted by Me, you are going to be served.
○ नचिकेतस् – O Naciketas, मरणं मा अनुप्राक्षीः – do not ask Me about death.
♬
❚❚
श्वो॒-भावा मर्त्य॑स्य य॒द् अन्त॑कैतत् सर्वे॑न्द्रिया॒णां ज॒रय॑न्ति तेजः।
अपि॑ सर्वं जी॒वित॑म् अल्पम् एव तवै॑व वा॒हास् त॒व नृ॑त्य-गीते॥KathU.1.1.26 (1.26)॥
● श्वस्-भावाः मर्त्यस्य यद् अन्तक एतद् – (Naciketas said) O Death of the mortal (martyasya antaka), (all) this is so much ephemerals (lasting only till tomorrow).
○ सर्व-इन्द्रियाणां जरयन्ति तेजस् – They waste away the power of all the senses.
● अपि सर्वं जीवितम् अल्पम् एव – All life is indeed a trifling.
○ तव एव वाहाः – The vehicles are Yours. तव नृत्य-गीते – The dance and music are Yours.
♬
❚❚
न वि॒त्तेन॑ त॒र्पणी॑यो मनुष्यो लप्स्या॑महे वित्तम् अ॒द्राक्ष्म॑ चेत् त्वा।
जीवि॑ष्यामो या॒वद् ई॑शिष्यसि त्वं व॒रस् तु॑ मे व॒रणी॑यः स एव॥KathU.1.1.27 (1.27)॥
● न वित्तेन तर्पणीयः मनुष्यः – Wealth cannot satisfy a person.
○ लप्स्यामहे वित्तम् – I will get (enough) wealth, अद्राक्ष्म चेद् त्वा – just because I have seen You.
● जीविष्यामः – I will live यावत् ईशिष्यसि त्वम् – as long as You (so) rule.
○ वरः तु मे वरणीयः सः एव – However, the boon I have chosen is but this.
♬
❚❚
अजी॑र्यताम् अ॒मृता॑नाम् उपेत्य जी॒र्यन् म॑र्त्यः क्व्-अ॒धः-स्थः॑ प्रजानन्। (क्व तद्-आस्थः)
अभि॑ध्यायन् व॒र्ण-र॑ति-प्रमोदान् अति॑-दीर्धे जी॒विते को रमेत॥KathU.1.1.28 (1.28)॥
● अ-जीर्यताम् अ-मृतानाम् उपेत्य – After meeting the undecaying immortals (up here, such as Yourself),
○ जीर्यन् मर्त्यः कु-अधस्-स्थः प्रजानन् – knowing (oneself) as a decaying mortal living down below (on earth),
● अभिध्यायन् वर्ण-रति-प्रमोदान् – (and) thinking over these (limited) enjoyments from music and pleasuring,
○ अति-दीर्धे जीविते कः रमेत – who would revel in (such) a long life (full of decay and unsatisfying)?
♬
❚❚
यस्मि॑न्न् इदं वि॒चिकि॑त्सन्ति मृत्यो यत् सा॑म्परा॒ये म॒हति॑ ब्रूहि नस् तत्।
योऽयं॑ वरो गू॒ढम् अ॑नुप्रविष्टो नान्यं॑ तस्मान् न॒चिके॑ता वृणीते॥KathU.1.1.29 (1.29)॥
● यस्मिन् इदं विचिकित्सन्ति – This in which people are entertaining doubts, मृत्यो – O Lord Death,
○ यद् साम्पराये महति – that concerns the great passage beyond, ब्रूहि नः तद् – please tell that to us.
● यः अयं वरः गूढम् अनुप्रविष्टः – This boon (this question) has become a mystery (to be believed or not),
○ न अन्यं तस्मात् नचिकेताः वृणीते – (so I) Naciketas does not choose anything else than that (boon).
प्रथमोऽध्याय: द्वितीया वल्ली (१.२.१-२५ / २.१-२५)
Lord Death grants Naciketas the final boon
♬
❚❚
अन्य॑च् छ्रेयोऽन्यद् उ॒तैव॑ प्रेयस् ते उ॒भे ना॒नार्थे॑ पु॒रुषग्ँ॑ सिनीतः।
तयोः॑ श्रेय आ॒ददा॑नस्य साधु भवति ही॒यतेऽर्थाद् य॑ उ प्रे॒यो वृ॑णीते॥KathU.1.2.1 (2.1)॥
● अन्यद् श्रेयस् – (Lord Death teaches) Śreyas (the beneficial) is one अन्यद् उत एव प्रेयस् – and preyas (the pleasurable) is another.
○ ते उभे नाना-अर्थे – Both these two with different goals पुरुषं सिनीतः – bind the person.
● तयोः श्रेयस् आददानस्य साधु भवति – Between those two, śreyas (the beneficial) is effective (sādhu) for one who is pursuing (the highest goal).
○ हीयते अर्थात् यः उ प्रेयस् वृणीते – The one who chooses preyas (the pleasurable) falls short of the (highest) goal.
♬
❚❚
श्रेय॑श् च प्रेयश् च म॒नुष्य॑म् एतस् तौ स॒म्परी॑त्य वि॒विन॑क्ति धीरः।
श्रेयो॑ हि धी॒रोऽभि॑ प्रेयसो वृणीते प्रे॒यो म॒न्दो योग॑-क्षेमाद् वृणीते॥KathU.1.2.2 (2.2)॥
● श्रेयस् च प्रेयस् च – The beneficial (śreyas) and the pleasurable (preyas) मनुष्यम् एतः – confront a person.
○ तौ सम्परीत्य, विविनक्ति धीरः – The discerning person examines and differentiates the two.
● श्रेयस् हि धीरः अभि प्रेयसः वृणीते – The discerning person (such as yourself) chooses the beneficial over the pleasurable.
○ प्रेयस् मन्दः योग-क्षेमात् वृणीते – The mediocre chooses the pleasurable out of (the desire for) acquiring and protecting (pleasurable experiences).
♬
❚❚
स त्वं प्रि॒यान् प्रि॒य-रू॑पाग्ँश् च कामान् अभि॑ध्यायन् न॒चिके॑तोऽत्यस्राक्षीः।
नै॒ताग्ँ सृ॒ङ्कां वि॒त्तमयी॑म् अवाप्तो यस्यां॑ मज्जन्ति ब॒हवो॑ मनुष्याः॥KathU.1.2.3 (2.3)॥
● सः त्वं – You indeed, प्रियान् प्रिय-रूपान् च कामान् – the pleasing and attractive sense objects
○ अभिध्यायन् – having considered, नचिकेतस् – O Naciketas, अत्यस्राक्षीः – discarded (them both).
● न एतां सृङ्कां वित्तमयीं अवाप्तः – (You) did not accept this precious garland,
○ यस्यां मज्जन्ति बहवः मनुष्याः – in which many people lose (themselves).
♬
❚❚
दूर॑म् एते वि॒परी॑ते विषूची अवि॑द्या या च वि॒द्येति॑ ज्ञाता।
विद्या॑भीप्सिनं न॒चिके॑तसं मन्ये न॒ त्वा का॒मा बह॑वोऽलोलुपन्त॥KathU.1.2.4 (2.4)॥
● दूरम् एते विपरीते – These two (preyas and śreyas) are widely opposed विषूची – (and) diverging,
○ अविद्या या च विद्या इति ज्ञाता – are (also) known as a-vidyā (ignorance) and vidyā (knowledge).
● विद्या-अभीप्सिनं नचिकेतसं मन्ये – I consider Naciketas to be a seeker of knowledge,
○ न त्वा कामाः बहवः अलोलुपन्त – (since) these numerous sense objects did not tempt you.
♬
❚❚
अवि॑द्यायाम् अ॒न्तरे॑ व॒र्तमा॑नाः स्व॒यं धी॒राः प॒ण्डित॑म्-मन्यमानाः।
दन्द्र॑म्यमा॒णाः प॒रिय॑न्ति मूढा अन्धे॑नैव नी॒यमा॑ना यथान्धाः॥KathU.1.2.5 (2.5)॥
● अविद्यायाम् अन्तरे वर्तमानाः – Steeped in ignorance,
○ स्वयं धीराः पण्डितं-मन्यमानाः – considering themselves to be wise,
● दन्द्रम्यमाणाः परियन्ति मूढाः – the deluded people go around continually wandering (not reaching the highest goal),
○ अन्धेन एव नीयमानाः यथा अन्धाः – like the blind led by the blind (they follow each other).
♬
❚❚
न सा॑म्परायः प्र॒ति भा॑ति बालं प्रमा॑द्यन्तं वि॒त्त-मोहे॑न मूढम्।
अ॒यं लोको ना॑स्ति प॒र इ॑ति मानी पुनः॑ पुनर् वशम् आ॒पद्य॑ते मे॥KathU.1.2.6 (2.6)॥
● न साम्परायः प्रति भाति बालम् – The passage beyond is not clear to the immature,
○ प्रमाद्यन्तं वित्त-मोहेन मूढम् – being distracted by an infatuation for (this world’s ephemeral) wealth, (remaining) deluded.
● ‘अयं लोकः, न अस्ति परः’ इति मानी – Thinking, “This (the sense-objects alone) is the world, there is nothing more”,
○ पुनर् पुनर् वशम् आपद्यते मे – this one again and again falls under My (Death’s) control.
♬
❚❚
श्रवणाया॑पि ब॒हुभि॑र् यो न लभ्यः शृ॒ण्वन्तो॑ऽपि ब॒हवो॑ यं न विद्युः।
आश्च॑र्यो वक्ता कु॒शलो॑ऽस्य लब्धाश्च॑र्यो ज्ञाता कु॒शला॑नुशिष्टः॥KathU.1.2.7 (2.7)॥
● श्रवणाय अपि बहुभिः यः न लभ्यः – This (nature of the person, the dharma, the ātman, the subject of this knowledge) is not available to many even for hearing,
○ शृण्वन्तः अपि बहवः यं न विद्युः – and which many, even having heard, do not know.
● आश्चर्यः वक्ता कुशलः अस्य लब्धा – The teacher of this (ātman) is a wonder (and still only) a proper (student) gets it.
○ आश्चार्यः ज्ञाता कुशल-अनुशिष्टः – The one who knows, traditionally instructed by a competent (teacher) is (also) a wonder.
♬
❚❚
न नरेणा॑वरेण प्रोक्त एष सु॒-विज्ञेयो बहुधा॑ चिन्त्यमानः।
अन॑न्य-प्रो॒क्तेऽगतिर् अ॑त्र नास्ति अ॒णीयान् ह्य् अत॑र्क्यम् अ॒णु-प्र॑माणात्॥KathU.1.2.8 (2.8)॥
● न नरेण अवरेण प्रोक्तः एषः – This (ātman, the self) taught by an incompetent person (can) not
○ सु-विज्ञेयः – be clearly known, बहुधा चिन्त्यमानः – it being speculated in so many ways.
● अन्-अन्य-प्रोक्ते अ-गतिः अत्र न अस्ति – Taught by one who is non-different (from it) there is no going astray.
○ अ-तर्क्यम् अणीयान् हि अणु-प्रमानात् – It is beyond logic, since it is subtler than (any) subtle means of measuring.
♬
❚❚
नैषा॑ तर्केण म॒तिर् आ॑पनेया प्रोक्ता॑न्येनैव सु॒-ज्ञाना॑य प्रेष्ठ।
यां त्वम् आ॑पः स॒त्य-धृति॑र् बतासि त्वा-दृ॑ङ् नो भूयान् न॒चिके॑तः प्रष्टा॥KathU.1.2.9 (2.9)॥
● न एषा तर्केण मतिः आपनेया – This knowledge cannot be attained (or taught) by logic (alone).
○ प्रोक्ता अन्येन एव सु-ज्ञानाय, प्रेष्ठ – Taught by another (who is competent) it is for easy understanding, O dearest one,
● यां त्वम् आपः – which you got (by your boon). सत्य-धृतिः बत असि – Ah, you have true resolve.
○ त्वा-दृक् नः भूयात्, नचिकेतस्, प्रष्टा – May we have more seekers like you, O Naciketas.
♬
❚❚
जाना॑म्य् अहग्ँ शेव-धिर् इ॒त्य् अनि॑त्यं न ह्य् अ॑ध्रुवैः प्रा॒प्यते॑ हि ध्रुवं तत्।
ततो॑ मया ना॒चिकेत॑श् चितोऽग्निर् अ॒नित्यै॑र् द्रव्यैः प्रा॒प्तवा॑न् अस्मि नित्यम्॥KathU.1.2.10 (2.10)॥
● जानामि अहं शेव-धिः इति अ-नित्यम् – I (was) knowing that what is said to be held dear (the fruits of our action) are impermanent,
○ न हि अ-ध्रुवैः प्राप्यते हि ध्रुवं तद् – because the permanent cannot indeed be attained by the impermanent (actions).
● ततस् मया नाचिकेतः चितः अग्निः – Yet (still) I indeed piled up the Nāciketa fire
○ अ-नित्यैः द्रव्यैः प्राप्तवान् अस्मि नित्यम् – (and) attained this (relative) permanence (My post in heaven) by these impermanent materials.
♬
❚❚
काम॑स्याप्तिं ज॒गतः॑ प्रतिष्ठां क्रतो॑र् अनन्त्यम् अ॒भय॑स्य पारम्।
स्तोम॑-महद् उ॒रु-गा॑यं प्रतिष्ठां दृष्ट्वा॑ धृत्या धी॒रो न॒चिके॑तोऽत्यस्राक्षीः॥KathU.1.2.11 (2.11)॥
● कामस्य आप्तिं – This (upper) limit of pleasure, जगतः प्रतिष्ठाम् – the basis (pratiṣṭhā) of the universe,
○ क्रतोः अन्-अन्त्यम् – the top goal of ritual (plus meditation), अ-भयस्य पारम् – the limit of fearlessness,
● स्तोम-महत् – the praised vastness, उरु-गायं – the (most) widely praised, प्रतिष्ठां दृष्ट्वा – having looked at this basis (pratiṣṭhā of the universe),
○ धृत्या धीरः, नचिकेतस् – you being discerning, O Nacikesas have firmly, अत्यस्राक्षीः – discarded (this brahma-loka as a boon for yourself).
♬
❚❚
तं दु॒र्-दर्शं गू॒ढम् अ॑नुप्रविष्टं गुहा॑-हितं गह्वरे॒-ष्ठं पु॑राणम्।
अध्या॑त्म-यो॒गाधिगमे॑न देवं म॒त्वा धी॒रो ह॒र्ष-शोकौ॑ जहाति॥KathU.1.2.12 (2.12)॥
● तं दुर्-दर्शं – That unseen, गूढम् अनुप्रविष्टम् – hidden in the cave,
○ गुहा-हितं – present in the intellect, गह्वरे-ष्ठं – situated in the impenetrable (as the I, the self of the seer), पुराणम् – always existing ,
● अध्यात्म-योग-अधिगमेन देवम् – this effulgence (deva), which (only) by resorting to the means of self enquiry (adhyātma-yoga)
○ मत्वा – one comes to know, धीरः हर्ष-शोकौ जहाति – does the discerning person give up elation and sorrow (the ups and downs of emotion).
♬
❚❚
एत॑च् छ्रुत्वा स॒म्प॑रिगृह्य मर्त्यः प्रवृ॑ह्य ध॒र्म्यम् अणुम् ए॑तम् आप्य।
स मो॑दते मो॒दनी॑यग्ँ हि लब्ध्वा वि॒वृतग्ँ॑ सद्म न॒चिके॑तसं मन्ये॥KathU.1.2.13 (2.13)॥
● एतद् श्रुत्वा – Having listened to this (teaching), सम्परिगृह्य मर्त्यः – a mortal clearly grasping (its meaning),
○ प्रवृह्य – distinguishing (the self from the not-self), धर्म्यम् अणुम् एतं आप्य – (and) accepting (as oneself) this subtle basis of dharma (oneself),
● सः मोदते – does this one (then) rejoice, मोदनीयं हि लब्ध्वा – having obtained the (source of) joy.
○ विवृतं सद्म नचिकेतसं मन्ये – I consider this abode (that is brahman, the limitless) to be open to (you) Naciketas.
♬
❚❚
अन्य॑त्र ध॒र्माद् अन्य॑त्राधर्माद् अ॒न्यत्रास्माद् कृता॑कृतात्।
अन्य॑त्र भू॒ताच् च॑ भव्याच् च य॒त् तत् पश्य॑सि त॒द् वद॥KathU.1.2.14 (2.14)॥
● अन्यत्र धर्मात्, अन्यत्र अ-धर्मात् – (Naciketas said) What is other than dharma (virtue) (and) other than a-dharma (vice),
○ अन्यत्र अस्मात् कृत-अकृतात् – what is other than both the created and uncreated (effect and cause),
● अन्यत्र भूतात् च भव्यात् च – and other than what was and what will be (past and future),
○ यद् तद् पश्यसि, तद् वद – that which You see, tell that (to me).
♬
❚❚
सर्वे॑ वेदा यत् प॒दम् आ॑मनन्ति तपाग्ँ॑सि स॒र्वाणि च॑ यद् वदन्ति।
यद् इ॑च्छन्तो ब्र॒ह्म-च॑र्यं चरन्ति तत् ते॑ पदग्ँ सं॒ग्रहे॑ण ब्र॒वीम्य् ओ॑म् इत्य् एतत्॥KathU.1.2.15 (2.15)॥
● सर्वे वेदाः यद् पदं आमनन्ति – (Lord Death said) The abode (pada) which all the Vedas proclaim,
○ तपांसि सर्वाणि च यद् वदन्ति – which all prayerful disciplines speak,
● यद् इच्छन्तः ब्रह्म-चर्यं चरन्ति – (and) desiring which they take to a life of seeking brahman,
○ तद् ते पदं सङ्ग्रहेण ब्रवीमि – that abode I tell to you in brief.
ओम् इति एतद् – This is Om.
♬
❚❚
एतद् ध्य् ए॒वाक्ष॑रं ब्रह्म एतद् ध्य् ए॒वाक्ष॑रं परम्।
एतद् ध्य् ए॒वाक्ष॑रं ज्ञा॒त्वा॒ यो॒ यद् इ॑च्छति त॒स्य त॑त्॥KathU.1.2.16 (2.16)॥
● एतद् हि एव अ-क्षरं ब्रह्म – This syllable (Om) indeed alone is the imperishable brahman (Lord Brahmā).
○ एतद् हि एव अ-क्षरं परम् – This syllable indeed alone is the ultimate (brahman) (neither cause, nor effect).
● एतद् हि अ-क्षरम् एव ज्ञात्वा – Meditating upon and knowing (either the lower or higher aspect of brahman, respectively) this same syllable,
○ यः यद् इच्छति – whichever (aspect of brahman) one seeks, तस्य तद् – that one gets.
♬
❚❚
एतद् आ॒लम्ब॑नग्ँ श्रेष्ठम् एतद् आ॒लम्ब॑नं परम्।
एतद् आ॒लम्ब॑नं ज्ञा॒त्वा॒ ब्र॒ह्म-लो॑के म॒हीय॑ते॥KathU.1.2.17 (2.17)॥
● एतद् आलम्बनं श्रेष्ठम् – This basis (ālambana, refuge) is (for) the most śreyas (most beneficial).
○ एतद् आलम्बनं परम् – This basis (ālambana, Om) is (for) the ultimate (brahman).
● एतद् आलम्बनं ज्ञात्वा – Meditating upon (or, knowing) this ālambana (Om),
○ ब्रह्म-लोके महीयते – one becomes exalted in brahma-loka (the highest heaven) (or,exalted as brahman manifesting as this world).
♬
❚❚
न जा॑यते म्रियते वा विपश्चिन् ना॒यं कुत॑श्चिन् न ब॒भूव॑ कश्चित्।
अजो॑ नित्यः शा॒श्वतो॑ऽयं पुराणो न ह॑न्यते ह॒न्यमा॑ने शरीरे॥KathU.1.2.18 (2.18)॥
● न जायते म्रियते वा विपस्-चिद् – This intelligence (vipaścit) (within) is not born nor does it die.
○ न अयं कुतस्-चिद् – Neither did this come from anything, न बभूव कः-चिद् – nor did it become anything else.
● अ-जः, नित्यः, शाश्वतः, अयं पुराणः – This (embodied one), which is unborn, timeless, ever the same, and is always there,
○ न हन्यते हन्यमाने शरीरे – is not harmed (changed) when the body is harmed (changed).
♬
❚❚
हन्ता॑ चेन् म॒न्यते॑ हन्तुग्ँ हत॑श् चेन् म॒न्यते॑ हतम्।
उभौ तौ न वि॒जानी॑तो ना॒यग्ँ ह॑न्ति न॒ हन्य॑ते॥KathU.1.2.19 (2.19)॥
● हन्ता चेद् मन्यते हन्तुम् – If the (embodied one) harmer thinks it is the one to be doing the harming,
○ हतः चेद् मन्यते हतम् – (and) if the (embodied one) to be harmed thinks it is the one being harmed,
● उभौ तौ न विजानीतः – both of them do not know.
○ न अयं हन्ति – This (self, I) neither harms (acts), न हन्यते – nor is harmed (acted upon.
♬
❚❚
अ॒णोर् अणी॑यान् मह॒तो मही॑यान् आ॒त्मास्य ज॒न्तोर् निहितो॑ गुहायाम्।
तम् अ॑क्रतुः पश्यति वीत-शो॒को धा॒तु-प्र॒सादा᳚न् महि॒मान॑म् आत्मनः॥KathU.1.2.20 (2.20)॥
● अणोः अणीयान् – Smaller than the small, महतः महीयान् – (and) bigger than the big,
○ आत्मा अस्य जन्तोः निहितः गुहायाम् – this (dimensionless) self is (hence) present in the heart (mind) of (every) living being.
● तम् अ-क्रतुः पश्यति – A person without (small) desires sees this (self), वीत-शोकः – (and) becomes free from sorrow (worry).
○ धातु-प्रसादात् – From this (unbothered) clarity of the senses महिमानम् आत्मनः – (one appreciates) the (unaffected) limitlessness of the self.
♬
❚❚
आसी॑नो दूरं व्रजति श॒यानो॑ याति॒ सर्व॑तः।
क॒स् तं म॑दाम॒दं॒ दे॒वं॒ म॒दन्यो॑ ज्ञातु॒म् अर्ह॑ति॥KathU.1.2.21 (2.21)॥
● आसीनः दूरं व्रजति – While (the body is) sitting, it (the dimensionless ātman) (as though) travels far.
○ शयानः याति सर्वतस् – While (the mind is) sleeping, it (as though) goes everywhere.
● कः तं मद-अमदं देवम् – The effulgent one (deva, consciousness-being) which (seems to) be the elated or depressed (mind), who
○ मद्-अन्यः ज्ञातुम् अर्हति – could know other than (a discerning person such as) Me (who has this teaching)?
♬
❚❚
अशरी॑रग्ँ श॒रीरे॑ष्व् अनवस्थेष्व् अ॒वस्थि॑तम्।
महान्तं॑ विभु॑म् आत्मा॒नं॒ म॒त्वा धी॑रो न॒ शोच॑ति॥KathU.1.2.22 (2.22)॥
● अ-शरीरम् शरीरेषु – Bodiless amidst (all) bodies,
○ अन्-अवस्थेषु अवस्थितम् – permanent amidst the impermanent (the changing),
● महान्तं – this Big (i.e., brahman), विभुम् आत्मानम् – all-pervading ātman (dimensionless self)
○ मत्वा – knowing (contemplating), धीरः न शोचति – the discerning one does not grieve (there being no source of fear).
♬
❚❚
नाय॑म् आत्मा प्र॒वचने॑न लभ्यो न॒ मेध॑या न ब॒हुना॑ श्रुतेन।
यम् ए॑वैष वृणुते ते॒न लभ्यस् तस्यै॑ष आ॒त्मा विवृ॑णुते तनूग्ँ स्वाम्॥KathU.1.2.23 (2.23)॥
● न अयम् आत्मा प्रवचनेन लभ्यः – This ātman is not attained by reciting (scripture),
○ न मेधया – nor by memory (of scripture), न बहुना श्रुतेन – nor by listening to many (scripture).
● यम् एव एषः वृणुते तेन लभ्यः – What (ātman) alone one chooses (solely commits to), by that (ātman) is this (ātman) attained,
○ तस्य एषः आत्मा विवृणुते तनूं स्वाम् – (since) this ātman (self-)reveals its form (as the only limitless witness-being).
♬
❚❚
नावि॑रतो दुश्-च॒रितान् ना॑शान्तो नास॒माहि॑तः।
नाशा॑न्त॒-मान॑सो वा॒पि॒ प्र॒ज्ञाने॑नैन॒म् आप्नु॑यात्॥KathU.1.2.24 (2.24)॥
● न अ-विरतः दुस्-चरितात् – Neither one who has not withdrawn from unhelpful (kliṣṭa) conduct (and thoughts),
○ न अ-शान्तः – nor has no clarity (sattva-predominance) of the senses, न अ-समाहितः – nor has no steadiness (of mind),
● न अ-शान्त-मानसः वा अपि – nor has no peace of mind,
○ प्रज्ञानेन एनम् आप्नुयात् – (who does not to a sufficient degree have these) can attain this (ātman) by (only) learning (scripture).
♬
❚❚
यस्य॑ ब्र॒ह्म च॑ क्ष॒त्रं॒ च॒ उ॒भे भ॑वत ओ॒दनः॑।
मृत्यु॑र् य॒स्योप॑सेच॒नं॒ क॒ इत्था॑ वेद॒ यत्र॑ सः॥KathU.1.2.25 (2.25)॥
● यस्य ब्रह्म च क्षत्रं च – For which (ātman) (all) the brāhmaṇas (virtuous) and kṣatriyas (brave)
○ उभे भवतः ओदनः – both are food (as it were),
● मृत्युः यस्य उपसेचनम् – (and) for which (ātman) Lord Death is a condiment (being endlessly consumed in the cycles of saṃsāra),
○ कः इत्था वेद‘यत्र सः’ – in that way (without sufficient qualifications for this knowledge) who (could) know “where is this (dimensionless, unseen ātman)”?
प्रथमोऽध्याय: तृतीया वल्ली (१.३.१-१७ / ३.१-१७)
Distinction of experiencer and the self. The chariot analogy.
♬
❚❚
ऋ॒तं पि॑बन्तौ सु॒-कृत॑स्य लोके गु॒हां प्र॑विष्टौ प॒रमे॑ परार्धे।
छा॒यात॒पौ ब्र॒ह्म-वि॑दो वद॒न्ति॒ प॒ञ्चाग्न॑यो ये च त्रि॒-णाचि॑केताः॥KathU.1.3.1 (3.1)॥
● ऋतं पिबन्तौ सु-कृतस्य लोके – (Lord Death said) In the body (loka) there are two who partake of the truth (the ordained result, karma-phala) of virtuous deeds.
○ गुहां प्रविष्टौ परमे पर-अर्धे – Both have entered (are present) in the cave (heart, intellect, the mind-space), the limitless abode (ardha) (where the presence) of para (brahman) (is to be known).
● छाया-आतपौ ब्रह्म-विदः वदन्ति – The knowers of brahman say these two are (distinct like) shade and light,
○ पञ्च-अग्नयः ये च त्रि-नाचिकेताः – as well as (say) householders (keepers of the five agṅi-hotra fires) and three-Nāciketa ritualists.
♬
❚❚
यः से॒तुर् ई॑जानानाम् अ॒क्षरं॑ ब्रह्म॒ यत् प॑रम्।
अभ॑यं ति॒तीर्ष॑तां पा॒रं॒ ना॒चिके॑तग्ँ श॒केम॑हि॥KathU.1.3.2 (3.2)॥
● यः सेतुः ईजानानाम् – (Between the two) one is (like) a bridge (means to heaven) for the ritualists (and meditators via the lower Om)
○ अ-क्षरं ब्रह्म यद् परम् – (and) the other (via the higher Om) which is the imperishable, ultimate brahman
● अ-भयं तितीर्षतां पारम् – which is fearlessness for those who wish to cross to the shore (beyond saṃsāra),
○ नाचिकेतं शकेमहि – we (being worldly, at this time) are only able (to pile up and meditate upon) the Nāciketa (ritual).
♬
❚❚
आ॒त्मानग्ँ॒ रथि॑नं वि॒द्धि॒ शरी॑रग्ँ र॒थम् ए॑व तु। (च)
बु॒द्धिं तु॒ सा-र॑थिं वि॒द्धि॒ मनः॑ प्रग्र॒हम् ए॑व च॥KathU.1.3.3 (3.3)॥
● आत्मानं रथिनं विद्धि – Know the ātman (the self) as the master of the chariot
○ शरीरं रथम् एव तु – and the (subtle) body as the (components of the) chariot.
● बुद्धिं तु सा-रथिं विद्धि – Know the intellect (buddhi, all firm thoughts) as the driver
○ मनः प्रग्रहम् एव च – and the mind (manas, all quick, vacillating thoughts) as the reins.
♬
❚❚
इ॒न्द्रिया॒णि ह॑यान् आ॒हु॒र् वि॒षयाग्ँ॑स् तेषु॒ गो-च॑रान्।
आ॒त्मेन्द्रि॒य-म॑नो-यु॒क्तं॒ भो॒क्तेत्य् आ॑हुर् म॒नीषि॑णः॥KathU.1.3.4 (3.4)॥
● इन्द्रियाणि हयान् आहुः – They call the (five) sense organs as the horses,
○ विषयान् तेषु गो-चरान् – (and) their (five kind of) sense objects as the paths.
● आत्म-इन्द्रिय-मनस्-युक्तम् – (The ātman, master) along with the body-senses-mind (complex)
○ भोक्ता इति आहुः मनीषिणः – the wise call as the experiencer.
♬
❚❚
यस् त्व् अ॑वि॒ज्ञान॑वान् भव॑त्य् अयु॒क्तेन॑ म॒नसा॑ सदा।
त॒स्येन्द्रि॒याण्य् अ॑वश्या॒नि॒ दु॒ष्टाश्वा॑ इव॒ सा-र॑थेः॥KathU.1.3.5 (3.5)॥
● यः तु अ-विज्ञानवान् भवति – Whereas, (for) (the intellect, driver) who lacks discernment,
○ अ-युक्तेन मनसा सदा – (and thus) is ever with a mind (reins) not in control,
● तस्य इन्द्रियाणि अ-वश्यानि – for that (intellect) the sense organs are unruly,
○ दुष्ट-अश्वाः इव सा-रथेः – like wild horses for a chariot driver.
♬
❚❚
यस् तु॑ वि॒ज्ञान॑वान् भव॑ति यु॒क्तेन॑ म॒नसा॑ सदा।
त॒स्येन्द्रि॒याणि॑ वश्या॒नि॒ स॒द्-अश्वा॑ इव॒ सा-र॑थेः॥KathU.1.3.6 (3.6)॥
● यः तु विज्ञानवान् भवति – But, (for) (the intellect, driver) who has discernment
○ युक्तेन मनसा सदा – (and thus) is ever with a mind (reins) in control,
● तस्य इन्द्रियाणि वश्यानि – for that (intellect) the sense organs are under (its) control,
○ सत्-अश्वाः इव सा-रथेः – like trained horses for a chariot driver.
♬
❚❚
यस् त्व् अ॑वि॒ज्ञान॑वान् भवत्य् अ॒मन॑स्कः स॒दाशु॑चिः।
न स॑ त॒त् पद॑म् आप्नो॒ति॒ सग्ँ॒सारं॑ चाधि॒गच्छ॑ति॥KathU.1.3.7 (3.7)॥
● यः तु अ-विज्ञानवान् भवति – The (jīva-ātman, individual person) who has an intellect with no discernment (of helpful from unhelpful, and self from not-self),
○ अ-मनस्कः सदा अ-शुचिः – (thus) is ever without a (disciplined) mind (manas) and impure (with rajas and tamas predominance),
● न सः तद् पदं आप्नोति – does not attain the goal (ultimate brahman),
○ संसारं च अधिगच्छति – and remains in saṃsāra (continuous unbecoming becoming).
♬
❚❚
यस् तु॑ वि॒ज्ञान॑वान् भव॑ति स॒-मन॑स्कः स॒दा शु॑चिः।
स तु॑ त॒त् पद॑म् आप्नो॒ति॒ य॒स्माद् भू॑यो न॒ जाय॑ते॥KathU.1.3.8 (3.8)॥
● यः तु विज्ञानवान् भवति – Whereas, the (jīva-ātman, individual person) who has an intellect with discernment (of self from not-self),
○ स-मनस्कः सदा शुचिः – (thus) is ever with a (disciplined) mind (manas) and pure (with sattva predominance).
● सः तु तद् पदम् आप्नोति – That one attains (becomes) the goal (ultimate brahman, para-ātman),
○ यस्मात् भूयस् न जायते – because of which this one is not born again (into saṃsāra).
♬
❚❚
वि॒ज्ञान॒-सा-र॑थिर् य॒स् तु॒ मनः॑-प्रग्र॒हवा॑न् नरः।
सो॒ऽध्वनः॒ पार॑म् आप्नो॒ति॒ त॒द् विष्णोः᳚ पर॒मं प॒दम्॥KathU.1.3.9 (3.9)॥
● विज्ञान-सा-रथिः यः तु – Having an intellect as chariot driver with discernment (of the self from not-self)
○ मनस्-प्रग्रहवान् नरः – (and) having a controlled mind (as reins), this person
● सः अध्वनः पारम् आप्नोति – reaches the far shore (the end of saṃsāra), the end of the road (as it were, since ātman is all-pervading, KathU.1.2.22).
○ तद् विष्णोः परमं पदम् – That is the ultimate abode of Viṣṇu (the pervader, brahman).
♬
❚❚
इ॒न्द्रिये॒भ्यः प॑रा ह्य् अ॒र्था॒ अ॒र्थेभ्य॑श् च प॒रं म॑नः।
मन॑स॒स् तु प॑रा बु॒द्धि॒र् बु॒द्धेर् आ॑त्मा म॒हान् प॑रः॥KathU.1.3.10 (3.10)॥
● इन्द्रियेभ्यः – Than the sense organs, पराः हि अर्थाः – the objects (of the mind) are more subtle (para, i.e., pervasive).
○ अर्थेभ्यः च – Than the objects (of the mind), परं मनः – the mind (manas) is more subtle.
● मनसः तु – Than the mind, परा बुद्धिः – the intellect (buddhi) is more subtle.
○ बुद्धेः – Than the intellect, आत्मा महान् परः – the mahān ātmā (the total intellect) is more subtle.
♬
❚❚
म॒हतः॒ पर॑म् अव्य॒क्त॒म् अ॒व्य॑क्तात् पु॒रुषः॑ परः।
पु॒रुषा॒न् न प॑रं किं॒चि॒त् सा॒ काष्ठा॑ सा प॒रा ग॑तिः॥KathU.1.3.11 (3.11)॥
● महतः – Than mahat (total intellect), परम् अ-व्यक्तम् – the unmanifest is more subtle.
○ अ-व्यक्तात् – Than the unmanifest, पुरुषः परः – the puruṣa (the limitless self) is more subtle.
● पुरुषात् – Than the puruṣa, न परं किञ्चिद् – there is nothing more subtle.
○ सा काष्ठा – That maximum limit, सा परा गतिः – that goal, is the ultimate.
♬
❚❚
ए॒ष स॒र्वेषु॑ भूते॒षु॒ गू॒ढो॑ऽऽत्मा न॒ प्रका॑शते।
दृ॒श्यते॒ त्व् अग्र्य॑या बु॒द्ध्या॒ सू॒क्ष्मया॑ सूक्ष्म॒-दर्शि॑भिः॥KathU.1.3.12 (3.12)॥
● एषः सर्वेषु भूतेषु – In all beings, this
○ गूढः आत्मा न प्रकाशते – self (ātman), being hidden (by ignorance), is not evident.
● दृश्यते तु अग्र्यया बुद्ध्या – However, it is evident through a sharp intellect
○ सूक्ष्मया सूक्ष्म-दर्शिभिः – that is subtle, by those with this subtle vision.
♬
❚❚
य॒च्छेद् वाङ् म॑नसी प्रा॒ज्ञस् तद् य॑च्छेज् ज्ञा॒न आ॑त्मनि।
ज्ञा॒नम् आ॒त्मनि मह॑ति नि॒य॒च्छे॒त् त॒द् यच्छेच् छा॒न्त आ॑त्मनि॥KathU.1.3.13 (3.13)॥
● यच्छेत् वाच् मनसी प्राज्ञः – (As a contemplative methodology) the discerning person should resolve (reposition one’s identity from) speech (and the other organs) into the mind (manas),
○ तद् यच्छेत् ज्ञाने आत्मनि – (and) should resolve that (manas) into the intellect as one’s self,
● ज्ञानं आत्मनि महति नियच्छेत् – (then) resolve one’s intellect into the mahat (the total intellect, Hiraṇya-garbha) as one’s self,
○ तद् शान्ते आत्मनि यच्छेत् – (and) resolve that (mahat) into one’s peaceful self (the puruṣa, the ultimate limit).
♬
❚❚
उत्ति॑ष्ठत जा॒ग्रत प्रा॒प्य व॑रान् नि॒बोध॑त।
क्षुर॑स्य धारा नि॒शिता॑ दुर्-अ॒त्य॒या॒ दु॒र्-गं प॑थस् तत् क॒वयो॑ वदन्ति॥KathU.1.3.14 (3.14)॥
● उत्तिष्ठत, जाग्रत – Arise and Awake (turn to this teaching and shake off your self-confusions).
○ प्राप्य वरान् निबोधत – (By) approaching a choice teacher, may you all learn.
● क्षुरस्य धारा निशिता – (As) a razor sharp edge (dharā) दुर्-अत्यया – is difficult to traverse,
○ कवयः पथः तद् दुर्-गं वदन्ति – the wise say that this path (of self-knowledge) is dur-ga (not traversed without a fine intellect’s attention).
♬
❚❚
अ॒शब्दम् अ॒स्पर्शम् अ॒रूपम् अ॒व्ययं तथा॑रसं नि॒त्यम् अ॑गन्धवच् च यत्।
अ॒नाद्य् अ॑नन्तं म॒हतः॑ परं ध्रु॒वं॒ नि॒चाय्य॑ तन् मृत्यु॒-मु॑खात् प्रमुच्यते॥KathU.1.3.15 (3.15)॥
● अ-शब्दम्, अ-स्पर्शम्, अ-रूपम्, अ-व्ययम् – This (brahman) is soundless, touchless, formless, changeless,
○ तथा अ-रसं, नित्यम्, अ-गन्धवत् च यद् – tasteless, timeless, odorless,
● अन्-आदि, अन्-अन्तं, महतः परं, ध्रुवम् – beginningless, endless, beyond the mahat, and constant.
○ निचाय्य तद् – Clearly knowing that, मृत्यु-मुखात् प्रमुच्यते – one is completely freed from the jaws of death.
♬
❚❚
ना॒चिके॒तम् उ॑पाख्या॒नं॒ मृ॒त्यु-प्रो॑क्तग्ँ स॒ना-त॑नम्।
उ॒क्त्वा श्रु॒त्वा च॑ मेधा॒वी॒ ब्र॒ह्म-लो॑के म॒हीय॑ते॥KathU.1.3.16 (3.16)॥
● नाचिकेतम् उपाख्यानम् – This teaching received by Naciketas,
○ सना-तनं मृत्यु-प्रोक्तम् – ever existing, taught by Lord Death,
● श्रुत्वा उक्त्वा च मेधावी – having heard and repeating (to others), a discerning person
○ ब्रह्म-लोके महीयते – becomes glorified in brahma-loka (the highest heaven).
♬
❚❚
य इ॒मं पर॑मं गु॒ह्यं॒ श्राव॑येत् ब्र॒ह्म-सं॑सदि।
प्र॒यतः॒ श्राद्ध॑-काले॒ वा॒ त॒द् आन॑न्त्याय॒ कल्प॑ते त॒द् आन॑न्त्याय॒ कल्प॑त इ॒ति॥KathU.1.3.17 (3.17)॥
● यः इमं परमं गुह्यं – This very same ultimate secret,
○ श्रावयेत् ब्रह्म-संसदि – the one who makes this heard (and understood) in an assembly of brāhmaṇas,
● प्रयतः श्राद्ध-काले वा – or at the time of śrāddha (the funeral ceremony), being purified,
○ तद् आन्-अन्त्याय कम्पते। तद् आन्-अन्त्याय कल्पते इति – then it makes for infinite results, (repeat…).
द्वितीयोऽध्याय: प्रथमा वल्ली (२.१.१-१५ / ४.१-१५)
On contemplation
♬
❚❚
प॒राञ्चि॑ खानि व्य॒तृण॑त् स्वयम्-भूः त॒स्मात् परा॑ङ् पश्यति ना॒न्तर्-आत्मन्।
क॒श्चिद् धी॑रः प्र॒त्यग्-आ॑त्मानम् ऐक्षद् आ॒वृत्त॑-चक्षुर् अ॒मृत॑त्वम् इच्छन्॥KathU.2.1.1 (4.1)॥
● पराञ्चि खानि व्यतृणत् स्वयम्-भूः – The self-existing one (ātman) (as though, half) injured the (five) outgoing senses.
○ तस्मात् – Therefore, पराङ् पश्यति, न अन्तर्-आत्मन् – one (naturally) sees (only) the outside, not the self from within.
● कः-चिद् धीरः प्रत्यच्-आत्मानम् ऐक्षत् – A (rare) discerning person comes to see (know) the self from within (also),
○ आवृत-चक्षुर् अ-मृतत्वम् इच्छन् – having directed the attention within, seeking freedom from death (from the impermanent outside world).
♬
❚❚
परा॑चः कामान् अ॒नुय॑न्ति बा॒ला॒स् ते॒ मृ॒त्योर् य॑न्ति वि॒तत॑स्य पाशम्।
अथ॑ धी॒रा अ॒मृत॑त्वं विदि॒त्वा॒ ध्रु॒वम् अ॑ध्रुवेष्व् इह न॒ प्रार्थ॑यन्ते॥KathU.2.1.2 (4.2)॥
● पराचः कामान् अनुयन्ति बालाः – The immature go after pleasures outside.
○ ते मृत्योः यन्ति विततस्य पाशम् – They continue towards the noose of death spread wide.
● अथ धीराः अ-मृतत्वं विदित्वा ध्रुवम् – The discerning ones now knowing the permanent immortality (from within),
○ अ-ध्रुवेषु इह न प्रार्थयन्ते – do not seek it here amongst the impermanent (sense objects).
♬
❚❚
येन॑ रू॒पं र॑सं ग॒न्धं॒ श॒ब्दान् स्प॑र्शाग्ँश् च॒ मैथु॑नान्।
एते॑नै॒व वि॑जाना॒ति॒ कि॒म् अत्र॑ परि॒शिष्य॑ते॥ ए॒तद् वै तत्॥KathU.2.1.3 (4.3)॥
● येन – By this (conscious self), रूपं, रसं, गन्धं – (all) form(s), the taste(s), smell(s),
○ शब्दान्, स्पर्शान् च, मैथुनान् – sounds, touches, and the pleasures from those contacts,
● एतेन एव विजानाति – one knows (they exist) by this (ātman) alone.
○ अत्र किं परिशिष्यते – What (then) remains here (as if apart from the self)?
एतद् वै तद् – This (self taught here) is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
स्वप्नान्तं॑ जाग॑रिता॒न्तं॒ चो॒भौ ये॑नानु॒पश्य॑ति।
महान्तं॑ विभु॑म् आत्मा॒नं॒ म॒त्वा धी॑रो न॒ शोच॑ति॥KathU.2.1.4 (4.4)॥
● स्वप्न-अन्तं जागरित-अन्तम् – (Mentally) what is within dream (and) (physically) what is within waking,
○ च उभौ येन अनुपश्यति – both these one accordingly perceives (the entire universe) by which,
● महान्तं विभुम् आत्मानम् – that is the Big (i.e., brahman) as the all-pervading ātman (dimensionless self, KathU.1.2.22)
○ मत्वा, धीरः न शोचति – knowing, the discerning person does not grieve.
♬
❚❚
य इ॒मं मध्व्-अ॑दं वे॒द॒ आ॒त्मानं॑ जीव॒म् अन्ति॑कात्।
ई॒शानं भूत॑-भव्य॒स्य॒ न॒ ततो विजु॑गुप्सते॥ ए॒तद् वै तत्॥KathU.2.1.5 (4.5)॥
● यः इमं मधु-अदं वेद – The one who knows the consumer of the fruits (of action),
○ आत्मानं जीवम् – the individual ātman अन्तिकात् – intimately
● भूत-भव्यस्य ईशानम् – as the Lord of the past and future,
○ न ततस् विजुगुप्सते – thereafter would not think to have to protect (oneself, as there is no other).
एतद् वै तद् – This is the one (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
यः पू॒र्वं तप॑सो जा॒तम् अ॑द्भ्यः पू॒र्वम् अ॑जायत।
गु॒हां प्र॒विश्य॑ तिष्ठ॒न्तं॒ यो॒ भूते॑भिर् व्य॒पश्य॑त॥ ए॒तद् वै तत्॥KathU.2.1.6 (4.6)॥
● यः तपसः पूर्वं जातम् – That (Hiraṇya-garbha, the total subtle being) who was first born from tapas (from Knowledge, brahman),
○ अद्भ्यः पूर्वम् अजायत – born before the waters (the elements of the universe),
● गुहां प्रविश्य तिष्ठन्तम् – having entered (as it were) the cave (of the heart, the intellect) and presides
○ यः भूतेभिः व्यपश्यत – amongst all beings, the one who knows (that Hiraṇya-garbha as oneself).
एतद् वै तद् – This is the one (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
या प्राणे॑न सम्भ॒वत्य् अदि॑तिर् देव॒ताम॑यी।
गु॒हां प्र॒विश्य॑ तिष्ठ॒न्तीं॒ या॒ भूते॑भिर् व्य॒जाय॑त॥ ए॒तद् वै तत्॥KathU.2.1.7 (4.7)॥
● या प्राणेन सम्भवति – She who is born as Prāṇa (Hiraṇya-garbha),
○ अदितिः देवतामयी – Goddess Aditi who consists of all deities,
● गुहां प्रविश्य, तिष्ठन्तीं – who having entered the cave (of the heart) and presides
○ या भूतेभिः व्यजायत – amongst all beings, the one who knows (that Aditi as oneself).
एतद् वै तद् – This is the one (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
अर॑ण्योर् नि॒हितो॑ जात-वे॒दा॒ ग॒र्भ इ॑व सु-भृतो ग॒र्भिणी॑भिः।
दि॒वे दि॑व ई॒ड्यो जा॒गृव॑द्भिर् ह॒विष्म॑द्भिर् म॒नुष्ये॑भिर् अग्निः॥ ए॒तद् वै तत्॥KathU.2.1.8 (4.8)॥
● अरण्योः निहितः जात-वेदाः – That Fire present in all beings (as Virāṭ) which is present in the two pieces of Arṇi wood (rubbed to kindle the ritual fire),
○ गर्भः इव सु-भृतः गर्भिणीभिः – (the kindled fire) protected like a fetus by pregnant women,
● दिवे दिवे ईड्यः जागृवद्भिः – to be worshipped daily by the vigilant
○ हविष्मद्भिः मनुष्येभिः अग्निः – ritualists and meditators – that Fire.
एतद् वै तद् – This is (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
यत॑श् चोदेति सू॒र्योऽस्तं॑ यत्र च॒ गच्छ॑ति।
तं दे॒वाः स॑र्वे अ॒र्पितास् तद् उ॒ नात्ये॑ति कश्चन॥ ए॒तद् वै तत्॥KathU.2.1.9 (4.9)॥
● यतस् च उदेति सूर्यः – From whom the sun rises,
○ अस्तं यत्र च गच्छति – and into which it sets,
● तं देवाः सर्वे अर्पिताः – is that (in which) are based all deities.
○ तद् उ न अत्येति कश्चन – Indeed nothing exceeds that (Prāṇa, Hiraṇya-garbha).
एतद् वै तद् – This is the one (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
यद् ए॑वेह तद् अमुत्र य॒द् अमु॑त्र त॒द् अन्वि॑ह।
मृ॒त्योः स॒ मृत्यु॑म् आप्नो॒ति॒ य॒ इह नाने॑व पश्यति॥KathU.2.1.10 (4.10)॥
● यद् एव इह – As it is here (in one’s being), तद् अमुत्र – so it is there (in brahman, the limitless reality).
○ यद् अमुत्र – As it is there (in brahman), तद् अनु इह – so it is here (in one’s being).
● मृत्योः सः मृत्युम् आप्नोति – One goes from death to death,
○ यः इह नाना इव पश्यति – who sees (thinks) as if there is any difference (duality) here.
♬
❚❚
मन॑सैवेद॑म् आप्त॒व्यं॒ ने॒ह नाना॑स्ति कि॒ञ्चन।
मृ॒त्योः स॒ मृत्युं॑ गच्छ॒ति॒ य॒ इह नाने॑व पश्यति॥KathU.2.1.11 (4.11)॥
● मनसा एव इदम् आप्तव्यम् – By the mind alone (the intellect, clarified by the teaching with a choice teacher) is this (brahman) to be attained (as one’s self).
○ न इह नाना अस्ति किञ्चन – There is no difference (duality) here (in brahman, in reality) at all.
● मृत्योः सः मृत्युं गच्छति – One goes from death to death,
○ यः इह नाना इव पश्यति – who sees (thinks) as if there is any difference here.
♬
❚❚
अङ्गु॑ष्ठ-मात्रः पु॒रुषो॑ मध्य॒ आत्म॑नि तिष्ठति।
ई॒शानो भूत॑-भव्य॒स्य॒ न॒ ततो विजु॑गुप्सते॥ ए॒तद् वै तत्॥KathU.2.1.12 (4.12)॥
● अङ्गुष्ठ-मात्रः पुरुषः – The puruṣa (the one who fills everything, brahman) is (known in the cave of the heart), the size of the thumb
○ मध्ये आत्मनि तिष्ठति – (and) dwells there (in that intellect) in the middle of the body,
● ईशानः भूत-भव्यस्य – (yet, in fact) is the Lord of the past and future.
○ न ततस् विजुगुप्सते – Thereafter one would not think to have to protect (oneself, as there is no other).
एतद् वै तद् – This is the one (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
अङ्गु॑ष्ठ-मात्रः पु॒रुषो॑ ज्योतिर् इ॒वाधू॑मकः।
ई॒शानो भूत॑-भव्य॒स्य॒ स॒ एवा॑द्य स॒ उ श्वः॑॥ ए॒तद् वै तत्॥KathU.2.1.13 (4.13)॥
● अङ्गुष्ठ-मात्रः पुरुषः – The puruṣa (as though) the size of the thumb,
○ ज्योतिः इव अ-धूमकः – (may be contemplated there in the intellect) as a flame without smoke (as pure awareness).
● ईशानः भूत-भव्यस्य – It is the Lord (master) of the past and future (the source of most of one’s imagined problems).
○ सः एव अद्य – It alone is today. सः उ श्वस् – It indeed is (right now) tomorrow (as one’s worries, to be resolved here now).
एतद् वै तद् – This is (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
यथो॑दकं दुर्-गे वृ॒ष्टं प॒र्वते॑षु वि॒धाव॑ति।
ए॒वं धर्मान् पृ॑थक् पश्यं॒स् ता॒न् एवा॑नुवि॒धाव॑ति॥KathU.2.1.14 (4.14)॥
● यथा उदकं दुस्-गे वृष्टम् – Just as (the one water) rained on a mountain
○ पर्वतेषु विधावति – runs down (separately) between the slopes,
● एवं धर्मान् पृथक् पश्यन् – similarly seeing (thinking) the individual natures (of the one brahman) as (seemingly) separate,
○ तान् एव अनुविधावति – runs along (lives) as the separated entities only.
♬
❚❚
यथो॑दकं शुद्धे शु॒द्धम् आ॑सिक्तं ता॒दृग् ए॑व भवति।
ए॒वं मु॒नेर् वि॑जान॒त॒ आ॒त्मा भ॑वति॒ गौत॑म॥KathU.2.1.15 (4.15)॥
● यथा उदकं शुद्धे शुद्धम् – Just as pure water into pure (water)
○ आसिक्तं – poured ता-दृक् एव भवति – is but the same (one water) alone,
● एवम् मुनेः विजानतः – similarly, for the contemplative one who knows,
○ आत्मा भवति – one is but the (one) self (in brahman), गौतम – O Naciketas (son of Gautama).
द्वितीयोऽध्यायः द्वितीया वल्ली (२.२.१-२५ / ५.१-२५)
Dwelling and pervading like sun, fire, air
♬
❚❚
पु॒रम् ए॑का-दश-द्वारम् अ॒जस्या॑वक्र॒-चेत॑सः।
अ॒नुष्ठा॑य न॒ शोच॑ति वि॒मुक्त॑श् च वि॒मुच्य॑ते॥ ए॒तद् वै तत्॥KathU.2.2.1 (5.1)॥
● पुरम् एका-दश-द्वारम् – (Lord Death said) As a city (is this body) with eleven gates (three below including the navel, seven on the face, and one at the, soft when young, top of the head, the fontanel)
○ अ-जस्य अ-वक्र-चेतसः – belonging to the (indwelling) unborn, consciousness not deviated (by a confused intellect),
● अनुष्ठाय, न शोचति – contemplating on this, one (like a king in the city) does not grieve.
○ विमुक्तः च विमुच्यते – That one being already independent (like a king, Īśāna) is completely independent (here and now, while in this body).
एतद् वै तद् – This is (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
हग्ँ॒सः शु॑चि॒-षद् वसु॑र् अन्तरिक्ष॒-सद् धोता॑ वेदि॒-षद् अति॑थिर् दुरोण॒-सत्।
नृ॒-षद् व॑र॒-सद् ऋ॑त॒-सद् व्यो॑म॒-सद् अ॒ब्-जा गो॒-जा ऋ॑त॒-जा अ॑द्रि॒-जा ऋ॒तं बृ॒हत्॥KathU.2.2.2 (5.2)॥
● हंसः शुचि-सद् – This (which is everything) dwells in the heaven as the sun, वसुः अन्तरिक्ष-सद् – dwells in the atmosphere as the wind,
○ होता वेदि-सद् – dwells on the earth as the fire, अतिथिः दुरोण-सद् – (and) dwells in the house as the guest (you).
● नृ-सद् – It dwells amongst people, वर-सद् – dwells amongst the deities, ऋत-सद् – dwells in sacrifice, व्योम-सद् – (and) dwells in space.
○ अब्-जाः – It is born in waters, गो-जाः – is born on the earth, ऋत-जाः – is born in the sacrifice (as the accessories), अद्रि-जाः – (and) originates from mountains (as rivers). ऋतं बृहत् – It is the unchanging Big (brahman).
♬
❚❚
उ॒र्ध्वं प्राण॑म् उन्नयत्य् अपा॒नं प्रत्य॑ग् अस्यति।
मध्ये॑ वा॒मन॑म् आसी॒नं॒ वि॒श्वे दे॑वा उ॒पास॑ते॥KathU.2.2.3 (5.3)॥
● ऊर्ध्वं प्राणम् उन्नयति – The (self) draws upward (from the heart) the prāṇa (exhalation),
○ अपानं प्रत्यक् अस्यति – (and) throws downward (from the heart) the apāna (inhalation).
● मध्ये वामनम् आसीनम् – The adorable one who abides within (the heart, the intellect),
○ विश्वे देवाः उपासते – all the deities (the sense organs) worship (offering their sense object offerings to their king).
♬
❚❚
अ॒स्य वि॒स्रंस॑मान॒स्य॒ श॒रीर॑-स्थस्य॒ देहि॑नः।
देहा॑द् वि॒मुच्य॑मान॒स्य॒ कि॒म् अत्र॑ परि॒शिष्य॑ते॥ ए॒तद् वै तत्॥KathU.2.2.4 (5.4)॥
● अस्य विस्रंसमानस्य – When this (self) is getting loosened,
○ शरीर-स्थस्य देहिनः – residing in the body as the embodied one,
● देहात् विमुच्यमानस्य – is being released from the body,
○ किम् अत्र परिशिष्यते – what (could possibly) remain here (alive in the body after death)?
एतद् वै तद् – This is (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
न॒ प्राणे॒न ना॑पाने॒न॒ म॒र्त्यो जी॑वति॒ कश्च॑न।
इ॒तरे॒ण तु॑ जीव॒न्ति॒ य॒स्मिन्न् ए॑ताव् उ॒पाश्रि॑तौ॥KathU.2.2.5 (5.5)॥
● न प्राणेन न अपानेन – Neither by prāṇa nor by apāna
○ मर्त्यः जीवति कश्चन – does any mortal live.
● इतरेण तु जीवन्ति – Whereas, by another they live,
○ यस्मिन् एतौ उपाश्रितौ – upon which they both (prāṇa and apāna) depend.
♬
❚❚
हन्त॑ त इ॒दं प्र॑वक्ष्या॒मि॒ गु॒ह्यं ब्र॑ह्म स॒ना-त॑नम्।
यथा॑ च॒ मर॑णं प्रा॒प्य॒ आ॒त्मा भ॑वति॒ गौत॑म॥KathU.2.2.6 (5.6)॥
● हन्त – Well now, ते इदं प्रवक्ष्यामि – I will tell you about this
○ गुह्यं ब्रह्म सना-तनम् – secret, ever existent brahman,
● यथा च मरणं प्राप्य – and also in what way after death (of the body),
○ आत्मा भवति, गौतम – this ātman continues, O Naciketas.
♬
❚❚
योनि॑म् अ॒न्ये प्र॑पद्य॒न्ते॒ श॒रीर॑त्वाय॒ देहि॑नः।
स्थाणु॑म् अ॒न्येऽनु॑संय॒न्ति॒ य॒था-क॑र्म य॒था-श्रु॑तम्॥KathU.2.2.7 (5.7)॥
● योनिं अन्ये प्रपद्यन्ते – Some enter a womb,
○ शरीरत्वाय देहिनः – being previously identified with a body, for acquiring (another human, animal or insect) body,
● स्थाणुं अन्ये अनुसंयन्ति – others take on the status of a stationary plant,
○ यथा-कर्म यथा-श्रुतम् – (each one) according to (the merit or demerit of) their (mental and physical) actions and to what (subtlety of) knowledge they have been exposed.
♬
❚❚
य ए॑ष सु॒प्तेषु॑ जाग॒र्ति॒ का॒मं का॑मं पु॒रुषो॑ निर्मिमाणः।
तद् ए॑व शु॒क्रं तद् ब्र॒ह्म तद् ए॑वामृ॒तम् उ॑च्यते।
तस्मि॑ल्ँ लो॒काः श्रि॑ताः स॒र्वे॒ त॒दु ना॑त्येति॒ कश्च॑न॥ ए॒तद् वै तत्॥KathU.2.2.8 (5.8)॥
● यः एषः सुप्तेषु जागर्ति – This one, when (the body and senses are) asleep, which,
○ कामं कामं पुरुषः निर्मिमाणः – is the person (puruṣa) that stays awake, fashioning various (dream) objects,
● तद् एव शुक्रं – that (conscious being) indeed is pure (not tainted by experiences). तद् ब्रह्म – That one is brahman.
○ तद् एव अ-मृतम् उच्यते – That one alone is said to be immortal.
● तस्मिन् लोकाः श्रिताः सर्वे – All the (material and subtle) worlds are fixed in that one.
○ तद् उ न अत्येति कश्चन – Nothing indeed exists beyond (the extent of) that one.
एतद् वै तद् – This is (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
अ॒ग्निर् य॑थैको भु॒वनं॑ प्रवि॒ष्टो॒ रू॒पं रू॑पं प्र॒ति-रू॑पो बभूव।
एक॑स् तथा सर्व-भू॒तान्त॑र्-आत्मा रू॒पं रू॑पं प्र॒ति-रू॑पो बहिश् च॥KathU.2.2.9 (5.9)॥
● अग्निः यथा एकः भुवनं प्रविष्टः – Just as the one (nature of) fire (as heat to touch, and as light and shape to sight), present (throughout) the universe,
○ रूपं रूपं प्रति-रूपः बभूव – assumes every form in keeping with each form,
● एकः तथा सर्व-भूत-अन्तर्-आत्मा – so also the one self within all beings
○ रूपं रूपं प्रति-रूपः – (assumes) every form in keeping with each form. बहिस् च – It is also that which is the (formless) outside (like space).
♬
❚❚
वा॒युर् य॑थैको भु॒वनं॑ प्रवि॒ष्टो॒ रू॒पं रू॑पं प्र॒ति-रू॑पो बभूव।
एक॑स् तथा सर्व-भू॒त-अन्त॑र्-आत्मा रू॒पं रू॑पं प्र॒ति-रू॑पो बहिश् च॥KathU.2.2.10 (5.10)॥
● वायुः यथा एकः भूवनं प्रविष्टः – Just as the one (nature of) air (as motion and as the vital life force), present (throughout) the universe,
○ रूपं रूपं प्रति-रूपः बभूव – assumes every form in keeping with each form,
● एकः तथा सर्व-भूत-अन्तर्-आत्मा – so also the one self within all beings
○ रूपं रूपं प्रति-रूपः – (assumes) every form in keeping with each form. बहिस् च – It is also that which is the (formless) outside (like the expanding space).
♬
❚❚
सूर्यो॑ यथा सर्व-लो॒कस्य॑ चक्षुर् न॒ लिप्य॑ते चाक्षुषैर् बा॒ह्य-दो॑षैः।
एक॑स् तथा सर्व-भू॒तान्त॑र्-आत्मा न॒ लिप्य॑ते लोक-दुः॒खेन॑ बाह्यः॥KathU.2.2.11 (5.11)॥
● सूर्यः यथा सर्व-लोकस्य चक्षुर् – Just as the sun, which is (like) the eye of this entire world (as daylight),
○ न लिप्यते चाक्षुषैः बाह्य-दोषैः – is not tainted by the (impurities of our) perceptions (or) by impurities of the outside objects,
● एकः तथा सर्व-भूत-अन्तर्-आत्मा – so also the one self within all beings
○ न लिप्यते लोक-दुःखेन – is not tainted by the problems in the world, बाह्यः – (because) it subtly transcends (the objects, senses and mind, as pointed out).
♬
❚❚
ए॒को व॑शी सर्व-भू॒तान्त॑र्-आत्मा एकं॑ रूपं ब॒हुधा॑ यः करोति। (बीजं)
तम् आ॑त्म-स्थं ये॒ऽनुप॑शन्ति धीरास् ते॒षां सु॒खं शाश्व॑तं ने॒तरे॑षाम्॥KathU.2.2.12 (5.12)॥
● एकः वशी सर्व-भूत-अन्तर्-आत्मा – This (ātman) is the one (non-dual) controller (master), as the (one) self of the all beings.
○ एकं रूपं – It is but one form, बहुधा यः करोति – who only appears (by lack of discernment) as many.
● तम् आत्म-स्थं ये अनुपशन्ति धीराः – The discerning in keeping (with the teaching) see (know) that one dwelling in the body (of all).
○ तेषां सुखं शाश्वतं – For them (alone) there is constant joy (freedom from problems, identified with the limitless, untainted self), न इतरेषाम् – not so the others (identified with the defective not-self).
♬
❚❚
नि॒त्योऽनि॑त्यानां चे॒तन॑श् चेतनानाम् ए॒को ब॑हूनां यो वि॒दधा॑ति कामान्।
तम् आ॑त्म-स्थं ये॒ऽनुप॑शन्ति धीरास् ते॒षां शान्तिः शा॒श्वती॑ नेतरेषाम्॥KathU.2.2.13 (5.13)॥
● नित्यः अ-नित्यानां – The timeless of the time-bound (a-nityas), चेतनः चेतनानाम् – the consciousness of the conscious.
○ एकः बहूनां यः विदधाति कामान् – This one (non-dual) provides (the basis for the existence and knowledge of) the pleasurable objects for all people.
● तम् आत्म-स्थं ये अनुपशन्ति धीराः – The discerning in keeping (with the teaching) see (know) that one dwelling in the body (of all).
○ तेषां सुखं शाश्वतं – For them (alone) there is constant joy (freedom from problems), तेषां शान्तिः शाश्वती, न इतरेषाम् – not so the others (identified with the defective not-self).
♬
❚❚
तद् ए॒तद् इ॑ति मन्यन्तेऽनि॒र्देश्यं॑ पर॒मं सु॑खम्।
कथं॑ नु तद् वि॒जानी॑यां कि॒म् उ भा॑ति वि॒भाति॑ वा॥KathU.2.2.14 (5.14)॥
● तद् ‘एतद्’ इति मन्यन्ते – They (the wise) recognize that as “(The immediate) this (as themselves)”
○ अ-निर्देश्यं परमं सुखम् – the limitless fulfillment which cannot be pointed to (as a “That”).
● कथं नु तद् विजानीयाम् – How indeed can I come to know that?
○ किम् उ भाति – Does it (alone) shine? विभाति – Does it shine distinctly (elsewhere)? वा – Or not?
♬
❚❚
न त॑त्र सू॒र्यो भा॑ति न॒ चन्द्र॑-तारकं ने॒मा विद्यु॑तो भान्ति कु॒तोऽय॑म् अग्निः।
तम् ए॑व भान्तम् अ॒नुभा॑ति सर्वं त॒स्य भा॒सा स॒र्वम् इदं॑ विभाति॥KathU.2.2.15 (5.15)॥
● न तत्र सूर्यः भाति – The sun does not illumine that (ātman), न चन्द्र-तारकम् – nor the moon or stars.
○ न इमाः विद्युतः भान्ति – These flashes of lightning do not illumine (ātman). कुतस् अयम् अग्निः – What to speak of this (small) flame.
● तम् एव भान्तम्, अनुभाति सर्वम् – Everything shines after that (brahman, ātman) alone which has ever been the shinning.
○ तस्य भासा – By the light of that, सर्वम् इदं विभाति – all this shines distinctly (elsewhere).
द्वितीयोऽध्यायः तृतीया वल्ली (२.३.१-१९ / ६.१-१९)
Brahma-ātmā as the superior root of the manifest universe
♬
❚❚
ऊर्ध्व॑-मूलोऽवाक्-शाख ए॒षोऽश्व॑-त्थः स॒ना-त॑नः।
तद् ए॑व शु॒क्रं तद् ब्र॒ह्म तद् ए॑वामृ॒तम् उ॑च्यते।
तस्मि॑ल्ँ लो॒काः श्रि॑ताः स॒र्वे॒ त॒द् उ ना॑त्येति॒ कश्च॑न॥ ए॒तद् वै तत्॥KathU.2.3.1 (6.1)॥
● ऊर्ध्व-मूलः – Whose (tap-)root is superior (in the unmanifest, a-vyakta, KathU.1.3.11), अवाक्-शाखः – whose branches are inferior (in time–space, as this manifest saṃsāra),
○ एषः अ-श्व-त्थः सना-तनः – this is the long-lasting Aśvattha (fig) tree (depicting saṃsāra).
● तद् एव शुक्रं – (Its source is) that which is pure (whether saṃsāra is there or not). तद् ब्रह्म – That is brahman.
○ तद् एव अ-मृतम् उच्यते – That alone is said to be immortal.
● तस्मिन् लोकाः श्रिताः सर्वे – In that are fixed all worlds.
○ तद् उ न अत्येति कश्चन – Nothing indeed exists beyond (the extent of) that one.
एतद् वै तद् – (And it is) this (the self taught here) which is indeed (all) that (reality which you asked, that brahman).
♬
❚❚
यद् इ॑दं कि॒ञ्च ज॑गत् स॒र्वं॒ प्रा॒ण ए॑जति॒ निःसृ॑तम्।
म॒हद्-भयं व॒ज्रम् उद्य॑तं॒ य ए॑तद् वि॒दुर् अ॒मृता॒स् ते भ॑वन्ति॥KathU.2.3.2 (6.2)॥
● यद् इदं किञ्-च जगत् सर्वम् – This entire universe, whatever (animate or inanimate)
○ प्राणे – in the presence of prāṇa (here meaning brahman the source of prāṇa, cf. KathU.2.2.10), एजति निःसृतम् – arises and moves about.
● महत्-भयं वज्रम् उद्यतम् – (Because this brahman, like a king) is a great terror with an uplifted thunderbolt (keeping them in their natural jobs).
○ ये एतद् विदुः, ते अ-मृताः भवन्ति – Those who know this (brahman) become timeless.
♬
❚❚
भ॒याद् अ॒स्याग्नि॑स् तपति भ॒यात् त॑पति॒ सूर्यः॑।
भया॑द् इ॒न्द्रश् च॑ वायु॒श् च॒ मृ॒त्युर् धा॑वति पञ्च॑मः॥KathU.2.3.3 (6.3)॥
● भयात् अस्य अग्निः तपति – (As though) out of fear of this (brahman), fire burns.
○ भयात् तपति सूर्यः – Out of fear, the sun burns.
● भयात् इन्द्रः च वायुः च – Out of fear, Lord Indra and Lord Vāyu,
○ मृत्युः धावति पञ्चमः – (and) Lord Death as the fifth run (their jobs).
♬
❚❚
इह॑ चे॒द् अश॑कद् बो॒द्धुं॒ प्रा॒क् शरी॑रस्य वि॒स्रसः॑।
ततः॑ स॒र्गेषु॑ लोके॒षु॒ श॒रीर॑त्वाय॒ कल्प॑ते॥KathU.2.3.4 (6.4)॥
● इह चेद् अशकत् बोद्धुं – Unless here one becomes able to know (brahman as oneself)
○ प्राक् शरीरस्य विस्रसः – before the fall of the body,
● ततः सर्गेषु लोकेषु – then in the worlds of creatures
○ शरीरत्वाय कल्पते – one becomes fit for taking (another) body.
♬
❚❚
यथा॑दर्शे त॒थात्म॑नि यथा॑ स्व॒प्ने तथा॑ पि॒तृ-लो॑के।
यथा॑प्सु प॒रीव॑ ददृशे तथा॑ ग॒न्धर्व॑-लोके।
छा॒या॒त॒प॒योर् इ॑व ब्र॒ह्म-लो॑के॥KathU.2.3.5 (6.5)॥
● यथा आदर्शे, तथा आत्मनि – As (clearly) in a (made spotless) mirror, so in the mind (with the teaching one can see brahman).
○ यथा स्वप्ने, तथा पितृ-लोके – As (full of memories) in dream, so in the world of the ancestors (one sees oneself).
● यथा अप्सु परि ददृशे इव, तथा गन्धर्व-लोके – As was seen (moving) in water so in the (dancing) world of the celestial musicians.
○ छाया-आतपयोः इव ब्रह्म-लोके – (And clearly) like light and shade in (the difficult to attain) brahma-loka (can brahman be taught and known).
♬
❚❚
इन्द्रि॑याणां पृ॒थग् भा॑वम् उ॒दया॑स्तमयौ च॒ यत्।
पृथग् उ॒त्पद्य॑मानानां म॒त्वा धी॒रो न॒ शोच॑ति॥KathU.2.3.6 (6.6)॥
● इन्द्रियाणां पृथक् भावम् – The distinct nature of the sense organs (from the one, non-composite, witness ātman),
○ उदय-अस्तमयौ च यद् – both (their) arising and setting (upon waking and sleep) (from the unchanging ātman) – because of this,
● पृथक् उत्पद्यमानानाम् मत्वा – (and their) individual manifestation (as simply effects from the subtle elements), knowing this
○ धीरः न शोचति – a discerning person does not grieve (that any of their defects and limitations pertains to oneself).
♬
❚❚
इ॒न्द्रिये॒भ्यः प॑रं म॒नो॒ म॒नसः॑ सत्त्व॒म् उत्त॑मम्।
सत्त्वा॑द् अ॒धि म॑हान् आ॒त्मा॒ म॒हतो॑ऽव्यक्त॒म् उत्त॑मम्॥KathU.2.3.7 (6.7)॥
● इन्द्रियेभ्यः परं मनस् – The mind (manas) is superior to the sense organs.
○ मनसः सत्त्वम् उत्तमम् – The intellect (sattva, buddhi) is superior to the mind (manas).
● सत्त्वात् अधि महान् आत्मा – The total intellect (mahat) is superior to the (individual) intellect.
○ महतः अ-व्यक्तम् उत्तमम् – (And) the unmanifest is superior to the total intellect.
♬
❚❚
अ॒व्यक्ता॒त् तु प॑रः पु॒रु॒षो॒ व्या॒पको॑ऽलिङ्ग॒ एव॑ च।
यं ज्ञा॑त्वा मुच्य॑ते ज॒न्तु॒र् अ॒मृत॑त्वं च॒ गच्छ॑ति॥KathU.2.3.8 (6.8)॥
● अ-व्यक्तात् तु परः पुरुषः – The self (puruṣa) is indeed superior to the unmanifest.
○ व्यापकः – It (the puruṣa, oneself) is all-pervasive (as the being and witness of all) अ-लिङ्गः एव च – and attributeless (as ever the subject and never an object).
● यं ज्ञात्वा – Knowing this, मुच्यते जन्तुः – a mortal is (now known to be) free,
○ अ-मृतत्वं च गच्छति – and attains (one’s factual nature as) timeless.
♬
❚❚
न स॒न्दृशे॑ तिष्ठति॒ रूप॑म् अस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म्।
हृ॒दा म॑नी॒षा मन॑सा॒भिकॢ॑प्तो॒ य ए॑तद् वि॒दुर् अ॒मृता॒स् ते भ॑वन्ति॥KathU.2.3.9 (6.9)॥
● न सन्दृशे तिष्ठति रूपम् अस्य – The form of this (self) does not fall within the purview (of the senses and thus the manas).
○ न चक्षुषा पश्यति कश्चन एनम् – No one sees this (self) by the eyes (or other senses).
● हृदा मनीषा मनसा अभिकॢप्तः – By the intellect (with the teaching) is the (nature of the self made) firmly known, which being the master of the manas, the mind follows (into contemplation).
○ ये एतद् विदुः – Those who know this (ātman), अ-मृताः ते भवन्ति – attain (their factual nature as) timeless.
♬
❚❚
यदा॑ प॒ञ्चाव॑तिष्ठन्ते ज्ञाना॑नि॒ मन॑सा सह।
बुद्धि॑श् च न॒ विचे॑ष्टति ता॒म् आहुः॑ पर॒मां ग॑तिम्॥KathU.2.3.10 (6.10)॥
● यदा पञ्च अवतिष्ठन्ते – When they abide (in the self), the five
○ ज्ञानानि मनसा सह – sense organs along with the (emotive identifying) manas,
● बुद्धिः च न विचेष्टति – and the intellect does not waiver (from this knowledge of the self),
○ ताम् आहुः परमां गतिम् – that attainment (the wise) say is ultimate.
♬
❚❚
तां योग॑म् इति मन्यन्ते स्थि॒राम् इ॑न्द्रिय॒-धारणाम्।
अप्र॑म॒त्तस् त॑दा भवति यो॒गो हि॑ प्रभ॒वाप्य॑यौ॥KathU.2.3.11 (6.11)॥
● ताम् ‘योगम्’ इति मन्यन्ते – That (ultimate goal) they call “Yoga” (the means, for allowing the intellect to abide in self-knowledge),
○ स्थिराम् इन्द्रिय-धारणाम् – is the steady control of the organs (both of action and sensing).
● अ-प्रमत्तः तदा भवति – One (should) be alert at that time,
○ योगः हि प्रभव-अप्ययौ – because yoga is subject to waxing and waning (along with rajas and tamas predominance in the mind).
♬
❚❚
नैव॑ वा॒चा न मन॑सा प्रा॒प्तुं श॑क्यो न॒ चक्षु॑षा।
अस्ती॑ति ब्रुवतो॑ऽन्य॒त्र॒ क॒थं तद् उप॑लभ्यते॥KathU.2.3.12 (6.12)॥
● न एव वाचा – Not indeed by speech (the organs of action), न मनसा – nor by the (desire and object identifying) manas,
○ प्राप्तुं शक्यः न चक्षुषा – nor by the eye (the sense organs) can (this self) be grasped.
● अस्ति इति ब्रुवतः अन्यत्र – Apart from from saying (knowing) “It (deathless brahman) exists”,
○ कथं तद् उपलभ्यते – how else can that (deathless brahman) be grasped (by one who clings as oneself to the body and the things that die)?
♬
❚❚
अस्ती॑त्य् ए॒वोप॑लब्धव्यस् त॒त्त्व-भा॑वेन॒ चोभ॑योः।
अस्ती॑त्य् ए॒वोप॑लब्धस्य त॒त्त्व-भा॑वः प्र॒सीद॑ति॥KathU.2.3.13 (6.13)॥
● ‘अस्ति’ इति एव उपलब्धव्यः – It is (first) to be acknowledged as “It (deathless brahman) exists”,
○ तत्त्व-भावेन च – and (then it is to be known) as being the nature of all this. उभयोः – Of these two,
● ‘अस्ति’ इति एव उपलब्धस्य – for the one who (first) acknowledges “It (deathless brahman) exists”,
○ तत्त्व-भावः प्रसीदति – then (the ātman) which already is of this nature (will eventually) bless (KathU.1.2.23).
♬
❚❚
यदा॑ स॒र्वे प्रमु॑च्यन्ते॒ का॒मा ये॑ऽस्य हृ॒दि श्रि॑ताः।
अथ॑ म॒र्त्योऽमृ॑तो भ॒व॒त्य् अ॒त्र ब्र॑ह्म स॒मश्नु॑ते॥KathU.2.3.14 (6.14)॥
● यदा सर्वे प्रमुच्यन्ते – When (objectively) released (from) all
○ कामाः ये अस्य हृदि श्रिताः – desires which (were previously) fixed (clinging) in the heart (in the identifying manas),
● अथ मर्त्यः अ-मृतः भवति – then a mortal is (now known to be) the timeless (brahman, as alone to be chosen).
○ अत्र ब्रह्म समश्नुते – Here (in the heart, the buddhi) one attains brahman (alone as one’s self).
♬
❚❚
यदा॑ स॒र्वे प्र॑भिद्य॒न्ते॒ हृ॒दय॑स्येह॒ ग्रन्थ॑यः।
अथ॑ म॒र्त्योऽमृ॑तो भ॒वत्य् ए॑तावद् ध्य् अ॒नुशा॑सनम्॥KathU.2.3.15 (6.15)॥
● यदा सर्वे प्रभिद्यन्ते – When are broken (untethered) all
○ हृदयस्य इह ग्रन्थयः – the heart’s knots (the endless confusions arising from identifying with the not-self) in this (life itself),
● अथ मर्त्यः अ-मृतः भवति – then a mortal is (now known to be) the timeless (brahman).
○ एतावत् हि अनुशासनम् – This much alone is the traditional teaching (in keeping with the other Upaniṣad teachings).
♬
❚❚
शतं॑ चैका च हृ॒दय॑स्य नाड्यस् ता॒सां मूर्धा॑नम् अ॒भिनिः॑सृतैका।
तयो॑र्ध्वम् आयन्न् अ॒मृत॑त्वम् एति वि॒ष्वङ्ङ् अ॒न्या उ॒त्क्रमणे॑ भवन्ति॥KathU.2.3.16 (6.16)॥
● शतं च एका च हृदयस्य नाड्यः – (The Upaniṣad says) There are one hundred and one nāḍīs (subtle energy paths) connected to the heart.
○ तासां मूर्धानम् अभिनिःसृता एका – Of them, one nāḍī reaches to the (soft when young) top of the head (the fontanel).
● तया ऊर्ध्वम् आयन् – (Upon death) going up through this (nāḍī) अ-मृतत्वम् एति – the individual (identified with the travelling subtle body, the essence of the mind with its saṃskāras and animating powers) attains (the relative, or postponed) immortality (in brahma-loka).
○ विष्वङ् अन्याः – The other (one hundred nāḍīs) branching out उत्क्रमणे भवन्ति – become the means for going out (dying into other possible embodiments).
♬
❚❚
अङ्गु॑ष्ठमात्रः पु॒रुषो॑ऽन्तर्-आत्मा सदा॑ जना॒नां हृ॒दये॑ सन्निविष्टः।
तं स्वाच् छ॑रीरात् प्र॒वृहे॑न् मुञ्जा॑द् इवेषीकां धैर्ये॒ण।
तं विद्याच् छु॒क्रम् अ॒मृतं॒ तं विद्याच् छु॒क्रम् अ॒मृत॑म् इति॥KathU.2.3.17 (6.17)॥
● अङ्गुष्ठ-मात्रः पुरुषः अन्तर्-आत्मा – The subtle puruṣa (the one who fills everything, brahman) which is (known in the cave of the heart) as the size of the thumb,
○ सदा जनानां हृदये सन्निविष्टः – is ever present in the heart of people.
● तं स्वात् शरीरात् प्रवृहेत् – One should distinguish that (self) from one’s body,
○ मुञ्जात् इव इषीकां धैर्येण – with careful attention (and respect) like (one separates) the internal pith from (the sharp tipped) muñja grass.
तं विद्यात् शुक्रम् अ-मृतम्। तं विद्यात् शुक्रम् अ-मृतम् इति – One should know that (self) to be pure and timeless, (repeat…)
♬
❚❚
मृत्यु॑-प्रो॒क्तां नचि॑केतोऽथ लब्ध्वा विद्या॑म् ए॒तां यो॒ग-विधिं॑ च कृत्स्नम्।
ब्रह्म॑-प्राप्तो वि॒-रजो॒ऽभूद् वि॒-मृत्यु॑र् अन्योऽप्य् एवं यो॒ विद् अ॑ध्य्-आत्मम् एव॥KathU.2.3.18 (6.18)॥
● मृत्यु-प्रोक्तां नचिकेतस् अथ लब्ध्वा – Thereupon, (for) Naciketas having acquired what was taught by Lord Death
○ विद्याम् एतां योग-विधिं च कृत्स्नम् – this knowledge as well as the instruction on yoga complete,
● ब्रह्म-प्राप्तः वि-रजस् अभूत् वि-मृत्युः – (he) attained brahman (and) became pure and deathless (as brahman).
○ अन्यः अपि – Anyone else too एवं यः विद् अध्यात्मम् एव – who in this way knows this in regard to ātman becomes that (ātman) alone.
♬
❚❚
KathU.2.3.19 (6.19). ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ओं सः ह नौ अवतु – Om. May That (Lord) protect us (the teacher and myself). सः ह नौ भुनक्तु – May That (Lord) nourish us both. सह वीर्यं करवावहै – May we act strong together. तेजस्विनौ अधीतम् अस्तु – May our studies be brilliant. मा विद्विषावहै – May we (all) not disagree.
ओं शान्तिः शान्तिः शान्तिः – Om, Peace. Peace, Peace.
Go to Top ('Home' key on many Windows browsers)
शीक्षावल्ली (१.)
TaitU.1.1
♬
❚❚
TaitU.1.1.1
ओं शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्व् अर्य॒मा।
शं न॒ इन्द्रो॒ बृह॒स्-पतिः॑। शं नो॒ विष्णु॑र् उरु-क्र॒मः॥
● ओं शं नः मित्रः शं वरुणः – Om, May Mitra (the Friend) bless us.
○ शं नः भवतु अर्यमा – May Varuṇa (the Encompasser) bless us. May Aryaman (the Intimate) bless us.
● शं नः इन्द्रः बृहस्-पतिः – May Indra (the Chief) bless us. May Bṛhas-pati (Devotion) bless us.
○ शं नः विष्णुः उरु-क्रमः – May Viṣṇu (the Active), with long strides bless us.
नमो॒ ब्रह्म॑णे। नम॑स् ते वायो। त्वम् ए॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वाम् ए॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि। ऋ॒तं व॑दिष्यामि। स॒त्यं व॑दिष्यामि।
नमः ब्रह्मणः – Salutations unto Brahman (as Hiraṇya-garbha, Intelligence). नमः ते वायो – O Lord Vāyu (the Deity of Movement), salutations unto You. त्वम् एव प्रत्यक्षं ब्रह्म असि – You indeed are the perceptible brahman. त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि – I would call You the perceptible brahman. ऋतं वदिष्यामि – I would call You Ṛta (Honesty, the Cosmic Order). सत्यं वदिष्यामि – I would call You Satya (Truth, Reality).
तन् माम् अ॑वतु। तद् व॒क्तार॑म् अवतु। अव॑तु॒ माम्। अव॑तु व॒क्तार᳚म्॥
तन् माम् अवतु – May He (brahman, as prāṇa, the life-energy) protect me. तद् वक्तारम् अवतु – May He protect my teacher. अवतु॒ माम् – Protect me (after the teaching). अवतु वक्तारम् – (Keep) protecting the teacher.
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ओं शान्तिः – Om, Peace (amongst the deities, ādhi-daivaka), शान्तिः – Peace (amongst the environment around, ādhi-bhautika), शान्तिः – Peace (within us, ādhi-ātmika).
TaitU.1.2
♬
❚❚
TaitU.1.2.1
शीक्षां व्या᳚ख्यास्या॒मः। वर्णः॒ स्वरः। मात्रा॒ बलम्। साम॑ संता॒नः। इत्य् उक्तः शी᳚क्षाध्या॒यः॥
शीक्षां व्याख्यास्यामः – We shall now expound the elements of phonetics: वर्णः स्वरः – The letter (varṇa), the intonation (svara), मात्राः बलम् – the length (mātrā), the effort (bala), साम संतानः – the modulation (sāman), and the flow (santāna). इति उक्तः शीक्षा-अध्यायः – Thus has been taught the lesson on phonetics.
TaitU.1.3
♬
❚❚
TaitU.1.3.1
स॒ह नौ॒ यशः। स॒ह नौ ब्र॑ह्म-व॒र्चसम्।
सह नौ यशः – May there be fame (yaśas) for both of us (student and teacher). सह नौ ब्रह्म-वर्चसम् – May there be scriptural brilliance (brahma-varcasa) for both of us.
अथातः संहिताया उपनिषदं व्या᳚ख्यास्या॒मः। पञ्चस्व् अधि-क॑रणे॒षु। अधि-लोकम् अधि-ज्यौतिषम् अधि-विद्यम् अधि-प्रज॑म् अध्य्-आ॒त्मम्। ता महासग्ँ∙हिता इ॑त्याच॒क्षते।
अथ अतः संहितायाः उपनिषदं व्याख्यास्यामः – Now, therefore, we will expound the sacred teaching (upaniṣad) on conjunction (saṃhitā), पञ्चसु अधि-करणेषु – in five locations (adhi-karaṇas): अधि-लोकम् अधि-ज्यौतिषम् – with reference to the worlds (lokas), to the luminaries (jyotis), अधि-विद्यम् अधि-प्रजम् अधि-आत्मम् – to knowledge (vidyā), to progeny (prajā), and to one’s body (ātman). ताः महा-संहिताः इति आचक्षते – These are called the great conjunctions.
अथा॑धि-लो॒कम्। पृथिवी पू᳚र्व-रू॒पम्। द्यौर् उत्त॑र-रूपम्। आका॑शः सं॒धिः॥
अथ अधि-लोकम् – Now, in regard to the worlds: पृथिवी पूर्व-रूपम् – The Earth is the previous letter (varṇa), द्यौः उत्तर-रूपम् – the heavens is the latter letter, आकाशः संधिः – (intermediary) space (ākāṣa) is the junction (sandhi).
TaitU.1.3.2
वायुः॑ संधा॒नम्। इत्य् अ॑धि-लो॒कम्।
वायुः संधानम् – And vāyu (air) is the linking medium (sandhāna). इति अधि-लोकम् – Thus is (the sacred teaching) in regard to the worlds.
अथा॑धि-ज्यौ॒तिषम्। अग्निः पू᳚र्व-रू॒पम्। आदित्य उत्त॑र-रू॒पम्। आ॑पः सं॒धिः। वैद्युतः॑ संधा॒नम्। इत्य् अ॑धि-ज्यौ॒तिषम्। अथा॑धि-वि॒द्यम्। आचार्यः पू᳚र्व-रू॒पम्॥
अथ अधि-ज्यौतिषम् – Now, in regard to the luminaries: अग्निः पूर्व-रूपम् – Fire (agni) is the previous letter, आदित्य उत्तर-रूपम् – the sun (āditya) is the latter letter, आपः संधिः – water (clouds) is the junction, वैद्युतः संधानम् – and lightning is the linking medium. इति अधि-ज्यौतिषम् – Thus is (the sacred teaching) in regard to the luminaries.
अथ अधि-विद्यम् – Now, with in regard to knowledge: आचार्यः पूर्व-रूपम् – The teacher (ācārya) is the previous letter.
TaitU.1.3.3
अन्ते-वास्य् उत्त॑र-रू॒पम्। वि॑द्या सं॒धिः। प्रवचनग्ँ॑ संधा॒नम्। इत्य् अ॑धि-वि॒द्यम्।
अन्ते-वासि उत्तर-रूपम् – The student (anti-vāsin) is the latter letter, विद्या संधिः – knowledge (vidyā) is the junction, प्रवचनं संधानम् – and the teaching (pravacana) is the linking medium. इति अधि-विद्यम् – Thus is (the sacred teaching) in regard to knowledge.
अथाधि॒-प्रजम्। माता पू᳚र्व-रू॒पम्। पितोत्त॑र-रू॒पम्। प्र॑जा सं॒धिः। प्रजननग्ँ॑ संधा॒नम्। इत्य् अधि॒-प्रजम्॥
अथ अधि-प्रजम् – Now, with regard to progeny: माता पूर्व-रूपम् – Mother is the previous letter, पिता उत्तर-रूपम् – father is the latter letter, प्रजा संधिः – progeny is the junction, प्रजननं संधानम् – and procreation is the linking medium. इति अधि-प्रजम् – Thus is (the sacred teaching) in regard to progeny.
TaitU.1.3.4
अथाध्य्-आ॒त्मम्। अधरा हनुः पू᳚र्व-रू॒पम्। उत्तरा हनुर् उत्त॑र-रू॒पम्। वाक् सं॒धिः। जिह्वा॑ संधा॒नम्। इत्य् अध्य्-आ॒त्मम्। इतीमा म॑हासग्ँ॒हिताः।
अथ अधि-आत्मम् – Now, in regard to one’s body (ātman): अधरा हनुः पूर्व-रूपम् – The upper jaw is the previous letter, उत्तरा हनुः उत्तर-रूपम् – the lower jaw is the latter letter, वाच् संधिः – the organ of speech (vāc) is the junction, जिह्वा संधानम् – and the tongue is the linking medium, इति अधि-आत्मम् – Thus is (the sacred teaching) in regard to one’s body.
य एवम् एता महासग्ँ∙हिता व्याख्या॑ता वे॒द। संधीयते प्रज॑या प॒शुभिः। ब्रह्म-वर्चसेनान्नाद्येन सु-वर्गेण॑ लोके॒न॥
इति इमाः महा-संहिताः – These are the great conjunctions. यः एवम् एताः महा-संहिताः व्याख्याताः वेद – The one who knows (meditates upon) these great conjunctions so expounded संधीयते प्रजया पशुभिः – is united with progeny, wealth, ब्रह्म-वर्चसेन अन्नाद्येन – scriptural brilliance, food and everything connected to it, सु-वर्गेण लोकेन – and a heavenly world.
TaitU.1.4
♬
❚❚
TaitU.1.4.1
यश् छन्द॑साम् ऋष॒भो वि॒श्व-रू॑पः। छन्दो॒भ्योऽध्य् अ॒मृता᳚त् संब॒भूव॑।
स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒ धार॑णो भूयासम्।
● यः छन्दसाम् ऋषभः विश्व-रूपः – That which is prominent amongst all Veda mantras (Chandas) and is all forms (namely, Om-kara), छन्दोभ्यः अधि अ-मृतात् संबभूव – and which manifests from the perennially eternal Vedas.
● सः मा इन्द्रः मेधया स्पृणोतु – May that (Om) as Indra (the Lord of the indriyas) bless me with intelligence (medhā, retention of what is known), अ-मृतस्य देव धारणः भूयासम् – O Lord, may I become the upholder of the eternal (Vedas).
शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा मे॒ मधु॑मत्तमा। कर्णा᳚भ्यां॒ भूरि॒ विश्रु॑वम्।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः। श्रु॒तं मे॑ गोपाय। आ॒वह॑न्ती वितन्वा॒ना॥
● शरीरं मे विचर्षणम् – May my body be active (in this pursuit of knowledge). जिह्वा मे मधुमत्तमा – May my tongue be most sweet (with truth). कर्णाभ्यां भूरि विश्रुवम् – With my ears may I listen more (to the teaching).
● ब्रह्मणः कोशः असि मेधया पिहितः – You (Om) are the locus (kośa) of brahman, (seemingly) veiled in the intellect. श्रुतं मे गोपाय – May You protect what I have heard. आवहन्ती वितन्वाना – May You be (Śrī) the one who brings prosperity (in the following way).
TaitU.1.4.2
कु॒र्वा॒णाचीर॑म् आ॒त्मनः॑। वासाग्ँ॑सि॒ मम॒ गाव॑श् च। अ॒न्न॒-पा॒ने च॑ सर्व॒दा। ततो॑ मे॒ श्रिय॒म् आव॑ह।
लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा᳚। आमा॑यन्तु ब्रह्म-चा॒रिणः॒ स्वाहा᳚।
● कुर्वाणा अ-चीरम् आत्मनः वासांसि मम गावः च – Who quickly brings about clothes for this body and cows for me, अन्न-पाने च सर्वदा – as well as food and water all around, ततः मे श्रियम् आवह – from this, may You bring me śrī (wealth)
● लोमशां पशुभिः सह स्वाहा – Along with woolly livestock (sheep, etcetera). Svāhā (with blessing, may this offering be accepted by You)! आ मा यन्तु ब्रह्म-चारिणः स्वाहा – May students come to me. Svāhā!
विमा॑यन्तु ब्रह्म-चा॒रिणः॒ स्वाहा᳚। प्रमा॑यन्तु ब्रह्म-चा॒रिणः॒ स्वाहा᳚।
दमा॑यन्तु ब्रह्म-चा॒रिणः॒ स्वाहा᳚। शमा॑यन्तु ब्रह्म-चा॒रिणः॒ स्वाहा᳚॥
● वि मा आयन्तु ब्रह्म-चारिणः स्वाहा – May the students come from various directions. Svāhā! प्र मा आयन्तु ब्रह्म-चारिणः स्वाहा – May the students come with intelligence (pramā). Svāhā!
● दम-आयन्तु ब्रह्म-चारिणः स्वाहा – May the students come with dama (discipline over their senses). Svāhā! शम-आयन्तु ब्रह्म-चारिणः स्वाहा – May the students come with śama (discipline over their mind). Svāhā!
TaitU.1.4.3
यशो॒ जने॑ऽसानि॒ स्वाहा᳚। श्रेया॒न् वस्य॑सोऽसानि॒ स्वाहा᳚।
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚। स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚।
तस्मि᳚न् स॒हस्र॑-शाखे। नि भ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा᳚।
● यशः जने असानि स्वाहा – May I be famous among the people. Svāhā! श्रेयान् वस्यसः असानि स्वाहा – May I be wealthier than the wealthy. Svāhā!
● तं त्वा भग प्रविशानि स्वाहा – O Lord (Bhagavān), may I merge into You. Svāhā! सः मा भग प्रविश स्वाहा – O Lord, may You merge into me. Svāhā!
● तस्मिन् सहस्र-शाखे। नि भग अहं त्वयि मृजे स्वाहा – O Lord, may I purify myself in You with thousands of forms. Svāhā!
यथापः॒ प्रव॑ता॒ यन्ति॑। यथा॒ मासा॑ अहर्-ज॒रम्। ए॒वं मां ब्र॑ह्म-चा॒रिणः॑। धात॒राय॑न्तु स॒र्वतः॒ स्वाहा᳚।
प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व॥
यथा आपः प्रवता यन्ति – Just as the waters (naturally) go along the slopes, यथा मासाः अहर्-जरम् – just as the months (regularly) go into the year (ahar-jara), एवं मां ब्रह्म-चारिणः धातः आयन्तु सर्वतः स्वाहा – in this way, O Lord (Dhātṛ) may the students come to me (naturally and regularly) from everywhere. Svāhā!
प्रतिवेशः असि – You are the resting place. प्र मा भाहि – Reveal Yourself to me. प्र मा पद्यस्व – Please enter into me.
TaitU.1.5
♬
❚❚
TaitU.1.5.1
भूर् भुवः॒ सुव॒र् इति॒ वा ए॒तास् ति॒स्रो व्याहृ॑तयः। तासा॑मु ह स्मै॒तां च॑तु॒र्थीम्। माहा॑चमस्यः॒ प्रवे॑दयते। मह॒ इति॑। तद् ब्रह्म॑। स आ॒त्मा।
भूर् भुवः सुवर् इति वै एताः तिस्रः व्याहृतयः – “Bhūr Bhavaḥ Suvaḥ” These indeed are the three vyāhṛtis (declarations, by the Lord at the start of creation). तासाम् उ ह स्म एतां चतुर्थीं माहा-चमस्यः प्रवेदयते – Along with them, long ago sage Māhā-camasya revealed a fourth vyāhṛti, महः इति – “Mahaḥ”. तद् ब्रह्म – That (mahat) is (to be meditated upon as) brahman. सः आत्मा – That (mahat) is its ātman (body).
अङ्गा᳚न्य॒न्या दे॒वताः᳚। भूर् इति॒ वा अ॒यं लो॒कः। भुव॒ इत्य् अ॒न्तरि॑क्षम्। सुव॒र् इत्य् अ॒सौ लो॒कः॥
अङ्गानि अन्याः देवताः – These other deities (the three vyāhṛtis) are its limbs. भूर् इति वै अयं लोकः – (Upon) “Bhū” is this world (seen and unseen). भुवस् इति अन्तर्-इक्षम् – (Upon) “Bhuvas” is (to be meditated, is to be envisioned as encompassing) the intermediary space (seen and unseen). सुवर् इति असौ लोकः – (Upon) “Suvar” is (to be meditated, is to be envisioned as encompassing) that yonder (unseen) world (heaven).
TaitU.1.5.2
मह॒ इत्य् आ॑दि॒त्यः। आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते। भूर् इति॒ वा अ॒ग्निः। भुव॒ इति॑ वा॒युः। सुव॒र् इत्य् आ॑दि॒त्यः।
महः इति आदित्यः – (Upon) “Mahat” is (to be meditated, is to be envisioned as encompassing) the sun (āditya). आदित्येन वाव सर्वे लोकाः महीयन्ते – By the sun alone all the (three) worlds are (seen as) vast. भूर् इति वै अग्निः – (Upon) “Bhū” is (to be meditated the devatā) Fire (Agni, here). भुवस् इति वायुः – (Upon) “Bhuvas” is (to be meditated the devatā) Wind (Vāyu, in between). सुवर् इति आदित्यः – (Upon) “Suvar” is (to be meditated the devatā) Sun (Āditya, yonder).
मह॒ इति॑ च॒न्द्रमाः᳚। च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ँ॑षि॒ मही॑यन्ते। भूर् इति॒ वा ऋचः॑। भुव॒ इति॒ सामा॑नि। सुव॒र् इति॒ यजूग्ँ॑षि॥
महः इति चन्द्रमाः – (Upon) “Mahat” is (to be meditated the devatā) Moon (Candramas). चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते – With the moon indeed all the luminaries (at night are seen as) vast. भूर् इति वै ऋचः – (Upon) “Bhū” is (to be meditated) Ṛc Veda. भुवस् इति सामानि – (Upon) “Bhuvas” is (to be meditated) Sāman Veda. सुवर् इति यजूंषि – (Upon) “Suvar” is (to be meditated) Yajus Veda.
TaitU.1.5.3
मह॒ इति॒ ब्रह्म॑। ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते। भूर् इति॒ वै प्रा॒णः। भुव॒ इत्य् अ॑पा॒नः। सुव॒र् इति॑ व्या॒नः।
महः इति ब्रह्म – (Upon) “Mahat” is (to be meditated) brahman (Om). ब्रह्मणा वाव सर्वे वेदाः महीयन्ते – By this brahman indeed all the Vedas are glorified. भूर् इति वै प्राणः – (Upon) “Bhū” is (to be meditated) the out-breath (prāṇa). भुवस् इति अपानः – (Upon) “Bhuvas” is (to be meditated) the in-breath (apāna). सुवर् इति व्यानः – (Upon) “Suvar” is (to be meditated) circulation-energy (vyāna).
मह॒ इत्य् अन्न᳚म्। अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते।
महः इति अन्नम् – (Upon) “Mahat” is (to be meditated) food (anna). अन्नेन वाव सर्वे प्राणा महीयन्ते – By food indeed all the prāṇas are made great.
ता वा ए॒ताश् चत॑स्रश् चतु॒र्धा। चत॑स्रश् चतस्रो॒ व्याहृ॑तयः।
ता यो वेद॑। स वे॑द॒ ब्रह्म॑। सर्वे᳚ऽस्मै दे॒वा ब॒लिम् आव॑हन्ति॥
ताः वै ए॒ताः चतस्रः व्याहृतयः – These four vyāhṛtis indeed चतुर्धा चतस्रः चतस्रः – (are to be meditated) in the four different ways four each. ताः यः वेद – The one who knows (meditates) on these four vyāhṛtis सः वेद ब्रह्म – (will come to) know brahman, सर्वे अस्मै देवाः बलिम् आवहन्ति – and all the deities will bring offerings to this meditator.
TaitU.1.6
♬
❚❚
TaitU.1.6.1
स य ए॒षो᳚ऽन्तर्-हृ॑दय आका॒शः। तस्मि॑न्न् अ॒यं पुरु॑षो मनो॒मयः॑। अमृ॑तो हिर॒ण्मयः॑।
सः यः एषः अन्तर्-हृदये आकाशः – This very (shinning) space in the heart तस्मिन् अयं परुः मनोमयः अ-मृतः हिरण्मयः – upon this is (to be meditated) the immortal person, Hiraṇya-garbha, consisting of all minds.
अन्त॑रेण॒ तालु॑के। य ए॒ष स्तन॑ इवाव॒लम्ब॑ते। से᳚न्द्र-यो॒निः। यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते। व्य॒पोह्य॑ शीर्ष-कपा॒ले।
अन्तरेण तालुके – (From that space in the heart arising up) between the two sides of the palate, यः एषः स्तनः इव अवलम्बते – where hangs down like a teat (the uvula, between the tonsils at the throat), यत्र असौ केश-अन्तः विवर्तते – and where is the roots of the hairs, व्यपोह्य शीर्ष-कपाले – piercing out through the skull of the head सा इन्द्र-योनिः – this is the Indra-yoni (the source path for reaching Indra).
भूर् इत्य् अ॒ग्नौ प्रति॑तिष्ठति। भुव॒ इति॑ वा॒यौ॥
भूर् इति अग्नौ प्रतितिष्ठति – (After death) one is fixed (merged) in Agni symbolized by “Bhū”, भुवस् इति वायौ – in Vāyu symbolized by “Bhuvas”.
TaitU.1.6.2
सुव॒र् इत्य् आ॑दि॒त्ये। मह॒ इति॒ ब्रह्म॑णि। आ॒प्नोति॒ स्वारा᳚ज्यम्। आ॒प्नोति॒ मन॑स॒स्-पति᳚म्। वाक्-प॑ति॒श् चक्षु॑ष्-पतिः। श्रोत्र॑-पतिर् वि॒ज्ञान॑-पतिः।
सुवर् इति आदित्ये – (Fixed, merged) in Āditya (the sun) symbolized by “Suvar,”, महः इति ब्रह्मणि – and finally into brahman (Hiraṇya-garbha, the total mind) symbolized by “Mahat”. आप्नोति स्वा-राज्यम् – There, this one attains independent rulership आप्नोति मनसस्-पतिम् – as the lord of all minds, वाक्-पतिः चक्षुष्-पतिः श्रोत्र-पतिः विज्ञान-पतिः – the lord of speech, the lord of sight, the lord of hearing, and the lord of intelligence.
ए॒तत् ततो॑ भवति। आ॒का॒श-श॑रीरं॒ ब्रह्म॑। स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम्। शान्ति॑-समृद्धम् अ॒मृत᳚म्।
इति॑ प्राचीन-यो॒ग्योपा᳚स्स्व॥
एतद् ततः भवति – And beyond that आकाश-शरीरं ब्रह्म – as brahman (Hiraṇya-garbha) whose body is space, सत्य-आत्म – whose body is truth or reality (satya), प्राण-आरामं – whose pleasure ground is prāṇa, मन-आनन्दम् – whose joy is this mind, शान्ति-समृद्धम् अ-मृतम् – who is peace and prosperity, and eternal.
इति प्राचीन-योग्य उपास्स्व – O Ancient Yogin, may you thus meditate (do this upāsana).
TaitU.1.7
♬
❚❚
TaitU.1.7.1
पृ॒थि॒व्य् अ॑न्तरि॑क्षं॒ द्यौर् दिशो॑ऽवान्तर-दि॒शः। अ॒ग्निर् वा॒युर् आ॑दि॒त्यश् च॒न्द्रमा॒ नक्ष॑त्राणि। आप॒ ओष॑धयो॒ वन॒स्-पत॑य आका॒श आ॒त्मा। इत्य् अ॑धिभू॒तम्।
पृथिवी अन्तर्-इक्षं द्यौः दिशः अवान्तर-दिशः – The earth, atmosphere, heavens, the four main quarters (east, etcetera), and four intermediary quarters (south-east, etcetera); अग्निः वायुः आदित्यः चन्द्रमा नक्षत्राणि – the fire, air, sun, moon and stars (devatā-pāṅktam); आपः ओषधयः वनस्-पतयः आकाशः आत्मा – the waters, plants, trees, space and Ātman (Virāṭ). इति अधि-भूतम् – These are in regard to the external (adhi-bhūta).
अथाध्य्-आ॒त्मम्। प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः। चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक्। चर्म॑ माग्ँ॒सग्ँ स्नावास्थि॑ म॒ज्जा।
अथ अधि-आत्मम् – Now, in regard to the internal (adhi-ātman). प्राणः व्यानः अपान उदानः समानः – Prāṇa, vyāna, apāna, udāna, and samāna; चक्षुः श्रोत्रं मनः वाच् त्वच् – the sight, hearing, mind, speech, the sense of touch; चर्म मांसं स्नाव अस्थि मज्जा – skin, flesh, tendon, bone, and marrow.
ए॒तद् अ॑धि-वि॒धाय॒ ऋषि॒र् अवो॑चत्। पाङ्क्तं॒ वा इ॒दग्ँ सर्व᳚म्। पाङ्क्ते॑नै॒व पाङ्क्तग्ँ॑ स्पृणो॒तीति॑॥
एतद् अधि-विधाय ऋषिः अवोचत् – Having divided like this, the sage said, पाङ्क्तं वै इदं सर्व – “Every one of these is a fivefold grouping (pāṅkta). By the (internal, adhi-ātman) fivefold groupings is gained (in meditation) the (matching external, adhi-bhūta) fivefold groupings” (पाङ्क्तेन एव पाङ्क्तं स्पृणोति इति).
TaitU.1.8
♬
❚❚
TaitU.1.8.1
ओम् इति॒ ब्रह्म॑। ओम् इती॒दग्ँ सर्व᳚म्।
ओम् इति ब्रह्म – (Upon) “Om” (one should meditate as) brahman. (Hiraṇya-garbha). ओम् इति इदं सर्वम् – Since Om is all this.
ओम् इत्य् ए॒तद् अ॑नुकृतिर् ह स्म॒ वा अ॒प्य् ओ श्रा॑व॒येत्य् आश्रा॑वयन्ति। ओम् इति॒ सामा॑नि गायन्ति। ओं शोम् इति॑ श॒स्त्राणि॑ शंसन्ति।
ओम् इति एतद् अनुकृतिः ह स्म वै – Om indeed is a well known expression of agreement (anukṛti). अपि ओ श्रावय इति आश्रावयन्ति – Moreover, they make the person recite, “O śrāvaya” (“O, make [the gods] hear…”). ओम् इति सामानि गायन्ति – They start a Sāma mantra with “Om”. ओं शोम् इति शस्त्राणि शंसन्ति – They recite the (Ṛc) scriptures with “Oṃ śom… (= Oṃ śam).”
ओम् इत्य् अ॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति। ओम् इति॒ ब्रह्मा॒ प्रसौ॑ति। ओम् इत्य् अ॑ग्नि-हो॒त्रम् अनु॑जानाति।
ओम् इति अध्वर्युः प्रतिगरं प्रतिगृणाति – The adhvaryu (Yajus priest) acknowledges permission with “Om”. ओम् इति ब्रह्मा प्रसौति – The brahman (the chief priest) sanctions with “Om”. ओम् इति अग्नि-होत्रम् अनुजानाति – One permits the start of the agni-hotra with “Om”.
ओम् इति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्न् आ॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑। ब्रह्मै॒वोपा᳚प्नोति॥
ओम् इति ब्राह्मणः प्रवक्ष्यन् आह ब्रह्म उपाप्नवानि इति – About to start reciting, a brāhmaṇa utters “Om” (with the wish) “May I attain this brahman (Veda knowledge)”. ब्रह्म एव उपाप्नोति – This one does indeed attain this brahman (śabda-brahman)”.
TaitU.1.9
♬
❚❚
TaitU.1.9.1
ऋतं च स्वाध्याय-प्रव॑चने॒ च। सत्यं च स्वाध्याय-प्रव॑चने॒ च। तपश्च स्वाध्याय-प्रव॑चने॒ च। दमश्च स्वाध्याय-प्रव॑चने॒ च। शमश्च स्वाध्याय-प्रव॑चने॒ च।
ऋतं च स्व-अध्याय-प्रवचने च – Ṛta (honesty to the teaching) with study (svādhyāya) and practice or teaching (pravacana) (of this). सत्यं च स्व-अध्याय-प्रवचने च – Satya (truth or reality) with svādhyāya and pravacana (of this). तपः च स्व-अध्याय-प्रवचने च – Tapas (religious discipline) with svādhyāya and pravacana (of this). दमः च स्व-अध्याय-प्रवचने च – Dama (mastery over senses) with svādhyāya and pravacana (of this). शमः च स्व-अध्याय-प्रवचने च – Śama (mastery over mind) with svādhyāya and pravacana (of this).
अग्नयश्च स्वाध्याय-प्रव॑चने॒ च। अग्नि-होत्रं च स्वाध्याय-प्रव॑चने॒ च। अतिथयश्च स्वाध्याय-प्रव॑चने॒ च। मानुषं च स्वाध्याय-प्रव॑चने॒ च।
अग्नयः च स्व-अध्याय-प्रवचने च – Maintaining the fire rituals with svādhyāya and pravacana (of this). अग्नि-होत्रं च स्व-अध्याय-प्रवचने च – Agni-hotra (ritual) with svādhyāya and pravacana (of this). अतिथयः च स्व-अध्याय-प्रवचने च – Honoring guests (atithis) with svādhyāya and pravacana (of this). मानुषं च स्व-अध्याय-प्रवचने च – Social service (mānuṣa) with svādhyāya and pravacana (of this).
प्रजा च स्वाध्याय-प्रव॑चने॒ च। प्रजनश्च स्वाध्याय-प्रव॑चने॒ च। प्रजातिश्च स्वाध्याय-प्रव॑चने॒ च।
प्रजा च स्व-अध्याय-प्रवचने च – Prajā (progeny) with svādhyāya and pravacana (of this). प्रजनः च स्व-अध्याय-प्रवचने च – Prajana (procreation) with svādhyāya and pravacana (of this). प्रजातिः च स्व-अध्याय-प्रवचने च – Prajāti (getting grand children) with svādhyāya and pravacana (of this).
सत्यम् इति सत्य-वचा॑ राथी॒तरः। तप इति तपो-नित्यः पौ॑रु-शि॒ष्टिः। स्वाध्याय-प्रवचने एवेति नाको॑ मौद्ग॒ल्यः। तद्धि तप॑स् तद्धि॒ तपः॥
सत्यम् इति सत्य-वचाः राथीतरः – Satya (truth) is (foremost), thinks sage Satya-vacas, in the lineage of Rathītara. तपस् इति तपो-नित्यः पौरु-शिष्टिः – Tapas (religious discipline) is (foremost), thinks sage Tapo-nitya, son of Puru-śiṣṭi. स्व-अध्याय-प्रवचने एव इति नाकः मौद्गल्यः – Svādhyāya and pravacana are (foremost), thinks sage Nāka, son of Mudgalya तद् हि तपस् तद् हि तपः – because these two indeed are tapas, (yes) these are tapas.
TaitU.1.10
♬
❚❚
TaitU.1.10.1
अ॒हं वृ॒क्षस्य॒ रेरि॑वा। की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व।
ऊ॒र्ध्व-पवित्रो वा॒जिनी॑व स्व॒मृत॑म् अस्मि।
● अहं वृक्षस्य रेरिवा – “I am the prime mover of the tree (of saṃsāra, of the universe),
○ कीर्तिः पृष्ठं गिरेः इव – My fame (throughout the universe) is like a mountain peak (here),
● ऊर्ध्व-पवित्रः वाजिनि – I am ultimate purity, in the swift (steed-like sun),
○ इव सु-अमृतम् अस्मि – like the perfect nectar.
द्रवि॑णग्ँ॒ स-व॑र्चसम्। सु-मेधा अ॑मृतो॒क्षितः।
इति त्रिशङ्कोर् वेदा॑नुव॒चनम्॥
● द्रविणं स-वर्चसम् – I am the wealth (the satya reality, or as Virāṭ) and effulgence (the jñāna consciousness, or as Hiraṇya-garbha),
○ सु-मेधाः अ-मृतः अ-क्षितः – ripe with wisdom (su-medhā), immortality, and without loss (a-kṣita)”.
इति त्रिशङ्कोः वेद-अनु-वचनम् – This was declared by sage Tri-śaṅku after (anu) he knew (this teaching).
TaitU.1.11
♬
❚❚
TaitU.1.11.1
वेदम् अनूच्याचार्योऽन्ते-वासिनम् अ॑नुशा॒स्ति।
वेदम् अनूच्य आचार्यः अन्ते-वासिनम् अनुशास्ति – After teaching the chanting of the Veda, (the teacher) instructs the student (ante-vāsin):
सत्यं॒ वद। धर्मं॒ चर। स्वाध्याया᳚न् मा प्र॒मदः। आचार्याय प्रियं धनम् आहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः।
सत्यं वद – Speak truth. धर्मं चर – Adhere to dharma. स्व-अध्यायात् मा प्रमदः – Do not fail to continue these studies. आचार्यय प्रियं धनम् आहृत्य – After properly rewarding the teacher, प्रजा-तन्तुं मा व्यवच्छेत्सीः – may you not break the line of progeny.
सत्यान् न प्रम॑दित॒व्यम्। धर्मान् न प्रम॑दित॒व्यम्। कुशलान् न प्रम॑दित॒व्यम्। भूत्यै न प्रम॑दित॒व्यम्।
स्वाध्याय-प्रवचनाभ्यां न प्रम॑दित॒व्यम्॥
सत्यात् न प्रमदितव्यम् – Do not neglect the truth. धर्मात् न प्रमदितव्यम् – Do not neglect dharma. कशलात् न प्रमदितव्यम् – Do not neglect (individual and cultural) propriety. भूत्यै न प्रमदितव्यम् – Do not neglect well-being (bhūti, resources).
स्व-अध्याय-प्रवचनाभ्यां न प्रमदितव्यम् – Do not neglect study and practice or teaching (svādhyāya and pravacana).
TaitU.1.11.2
देव-पितृ-कार्याभ्यां न प्रम॑दित॒व्यम्।
मातृ॑-देवो॒ भव। पितृ॑-देवो॒ भव। आचार्य॑-देवो॒ भव। अतिथि॑-देवो॒ भव।
देव-पितृ-कार्याभ्यां न प्रमदितव्यम् – May you not neglect the duties to the deities and ancestors.
मातृ-देवः भव – Take mother as a deity. पितृ-देवः भव – Take father as a deity. आचार्य-देवः भव – Take the teacher as a deity. अतिथि-देवः भव – Take the guest as a deity.
यान्य् अनवद्यानि॑ कर्मा॒णि। तानि सेवि॑तव्या॒नि। नो इ॑तरा॒णि। यान्य् अस्माकग्ँ सु-च॑रिता॒नि। तानि त्वयो॑पास्या॒नि॥
यानि अन्-अवद्यानि कर्माणि – Those actions which are not faulty तानि सेवितव्यानि – are to be served, न-उ इतराणि – not the others. यानि अस्माकं सु-चरितानि – Those actions which are considered virtuous by us (the teachers) तानि त्वया उपास्यानि – are to be respectfully followed by you…,
TaitU.1.11.3
नो इ॑तरा॒णि। ये के चास्मच् छ्रेयाग्ँ॑सो ब्रा॒ह्मणाः। तेषां त्वयासनेन प्रश्व॑सित॒व्यम्।
…न-उ इतराणि – Not the other (actions). ये के च अस्मद् श्रेयांसः ब्राह्मणाः – To those who are cultured (brāhmaṇas) or are superior (śreyas) to us तेषां त्वया आसनेन प्रश्वसितव्यम् – should be given rest by a seat, etcetera.
श्रद्ध॑या दे॒यम्। अश्रद्ध॑यादे॒यम्। श्रि॑या दे॒यम्। ह्रि॑या दे॒यम्। भि॑या दे॒यम्। संवि॑दा दे॒यम्।
श्रद्धया देयम् – Charity should be done whole heartedly (with śrad-dhā), अ-श्रद्धया अ-देयम् – not without heart. श्रिया देयम् – Charity should be given in keeping with one’s means (śrī), ह्रिया देयम् – given with modesty, भिया देयम् – given with deference, संविदा देयम् – and given with understanding.
अथ यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकि॑त्सा वा॒ स्यात्॥
अथ यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकित्सा वा स्यात् – Now, suppose there might be a situation where there is a doubt about karma (an action or ritual), or a doubt about vṛtta (one’s conduct or path in life)…
TaitU.1.11.4
ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः। युक्ता॑ आयु॒क्ताः। अलूक्षा धर्म॑-कामाः॒ स्युः। यथा ते॑ तत्र॑ वर्ते॒रन्। तथा तत्र॑ वर्ते॒थाः।
ये तत्र ब्राह्मणाः संमर्शिनः – At that time and place there would be brāhmaṇas who grasp the applicable teaching (saṃmarśin), युक्ताः आयुक्ताः – who themselves are experienced (yukta), अ-लूक्षाः धर्म-कामाः स्युः – who are not harsh (a-lūkṣa), and who are committed to dharma.
यथा ते तत्र वर्तेरन् – In whatever way they act in that situation, तथा तत्र वर्तेथाः – like that you should act in your situation.
TaitU.1.11.4
अथाभ्या᳚ख्याते॒षु। ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः। युक्ता॑ आयु॒क्ताः। अलूक्षा॑ धर्म॑-कामाः॒ स्युः।
यथा ते॑ तेषु॑ वर्ते॒रन्। तथा तेषु॑ वर्ते॒थाः।
अथ अभ्याख्यातेषु – Now in regard to others doubtfully accused.
ये तत्र ब्राह्मणाः संमर्शिनः – At that time and place there would be brāhmaṇas who grasp the applicable teaching (saṃmarśin), युक्ताः आयुक्ताः – who themselves are experienced (yukta), अ-लूक्षाः धर्म-कामाः स्युः – who are not harsh (a-lūkṣa), and who are committed to dharma.
यथा ते तत्र वर्तेरन् – In whatever way they act in that situation, तथा तत्र वर्तेथाः – like that you should act in your situation.
एष॑ आदे॒शः। एष उ॑पदे॒शः। एषा वे॑दोप॒निषत्। एतद् अ॑नुशा॒सनम्।
एवम् उपा॑सित॒व्यम्। एवम् उ चैत॑द् उपा॒स्यम्॥
एषः आदेशः – This is the instruction (ādeśa, according to Śruti). एषः उपदेशः – This is the instruction (upadeśa, further according to Smṛti). एषा वेद-उपनिषत् – This is the essential teaching (upaniṣad) on the Vedas. एतद् अनुशासनम् – This is the (Lord’s) natural order (anuśāsana).
एवम् उपासितव्यम् – In this manner upāsitavya (one should live one’s life as a worship of that Lord). एवम् उ च एतद् उपास्यम् – Again, in this manner one should live worshipfully.
ब्रह्मानन्दवल्ली (२.)
TaitU.2.1
ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚।
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
ओं सः ह नौ अवतु – Om. May That (Lord) protect us both (teacher and myself). सः ह नौ भुनक्तु – May That (Lord) nourish us both. सह वीर्यं करवावहै – May we act strong together. तेजस्वि नौ अधीतम् अस्तु॒ – May our studies be brilliant. मा विद्विषावहै – May we both not disagree. ओं शान्तिः शान्तिः शान्तिः – Om, Peace. Peace, Peace (within, around, and heavenly).
TaitU.2.1.1
♬
❚❚
ब्र॒ह्म॒विद् आ᳚प्नोति॒ पर᳚म्। तद् ए॒षाभ्यु॑क्ता।
स॒त्यं ज्ञा॒नम् अ॑न॒न्तं ब्रह्म॑।
ब्रह्म-विद् आप्नोति परम् – The knower of brahman attains the ultimate. तद् एषा अभ्युक्ता – About that is this (mantra):
सत्यं ज्ञानम् अन्-अन्तं ब्रह्म – “Reality (satya), knowledge (jñāna, consciousness), unlimited (an-anta) is brahman (that ultimate).
यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्। सो᳚ऽश्नुते॒ सर्वा॒न् कामा᳚न् स॒ह। ब्रह्म॑णा विप॒श्चितेति॑।
यः वेद निहितम् – The one who knows (that brahman) as fixed (present) गुहायां परमे व्योमन् – in the vast space of the intellect, सः अश्नुते सर्वान् कामान् सह – that one attains simultaneously as everything desirable, ब्रह्मणा विपश्चिता इति – as brahman knowing the all.
तस्मा॒द् वा ए॒तस्मा॑द् आ॒त्मन॑ आका॒शः संभू॑तः।
आ॒का॒शाद् वा॒युः। वा॒योर् अ॒ग्निः। अ॒ग्नेर् आपः॑। अ॒द्भ्यः पृ॑थि॒वी।
तस्मात् वै एतस्मात् आत्मनः – From that (brahman) which is this ātman (self) आकाशः संभूतः – arises ākāśa (space, dimension).
आकाशात् वायुः – From ākāśa arises vāyu (air, movement). वायोः अग्निः – From vāyu arises agni (fire – heat and light). अग्नेः आपः – From agni arises āp (water, liquidity). अद्भ्यः पृथिवी – From āp arises pṛthivī (earth, solidity).
[Creation: PancD.1.28 Comment; BrSEng.1.3.1 L.20–30]
पृ॒थि॒व्या ओष॑धयः। ओष॑धी॒भ्योऽन्न᳚म्। अन्ना॒त् पुरु॑षः। स वा एष पुरुषोऽन्न॑-रस॒मयः।
पृथिव्या ओषधयः – From pṛthivī arises ośadhis (plants). ओषधीभ्यः अन्नम् – From ośadhis arises anna (grains as food). अन्नात् पुरुषः – From anna arises puruṣa (the physical body of a person). सः वै एषः परुषः अन्न-रसमयः – This puruṣa is anna-rasa-maya (predominantly the essence of that food).
तस्येद॑म् एव॒ शिरः। अयं दक्षि॑णः प॒क्षः। अयम् उत्त॑रः प॒क्षः। अयम् आत्मा᳚। इदं पुच्छं॑ प्रति॒ष्ठा।
तद् अप्य् एष श्लो॑को भ॒वति॥
तस्य इदम् एव शिरः – Of that (body) this (up here) is the head. अयं दक्षिणः पक्षः – This (over here) is the right side (pakṣa, like a wing). अयम् उत्तरः पक्षः – This (over here) is the left side. अयम् आत्मा – This (here in the middle) is the ātman (the center, trunk). इदं पुच्छं प्रतिष्ठा – This (here below the navel) is the puccha (support – the hips and legs, like a tail, the imagery being for meditation).
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.2
♬
❚❚
TaitU.2.2.1
अन्ना॒द् वै प्र॒जाः प्र॒जाय॑न्ते। याः काश् च॑ पृथि॒वीग्ँ श्रि॒ताः। अथो॒ अन्ने॑नै॒व जी॑वन्ति। अथै॑न॒द् अपि॑ यन्त्य् अन्त॒तः।
अन्नात् वै प्रजाः प्रजायन्ते याः काः च पृथिवीं श्रिताः – All creatures which reside on Earth are born from anna (food). अथ-उ अन्नेन एव जीवन्ति – Moreover, they survive by food, अथ एनद् अपि यन्ति अन्ततः – and they go back into that (food) upon their death.
अन्नग्ँ॒ हि भू॒तानां॒ ज्येष्ठ᳚म्। तस्मा᳚त् सर्वौष॒धम् उ॑च्यते।
अन्नं हि भूतानां ज्येष्ठम् – Food indeed is the elder to all creatures (an elder sibling from ākāṣa-brahman). तस्मात् सर्व-औषधम् उच्यते – Because of that, it is said to be the medicine (auṣadha, the required cure for hunger) for all creatures.
सर्वं॒ वै तेऽन्न॑म् आप्नुवन्ति। येऽन्नं॒ ब्रह्मो॒पास॑ते। अन्नग्ँ॒ हि भू॒तानां॒ ज्येष्ठ᳚म्। तस्मा᳚त् सर्वौष॒धम् उ॑च्यते।
सर्वं वै ते अन्नम् आप्नुवन्ति ये अन्नं ब्रह्म उपासते – All those who worship food as being brahman (their reality), they become food (“I am this food,” or they gain an abundance of food). अन्नं हि भूतानां ज्येष्ठम् – (Again) because food is the elder to all creatures, तस्मात् सर्व-औषधम् उच्यते – therefore it is said to be the medicine for all creatures.
अन्ना᳚द् भू॒तानि॒ जाय॑न्ते। जाता॒न्य् अन्ने॑न वर्धन्ते। अद्यतेऽत्ति च॑ भूता॒नि। तस्माद् अन्नं तद् उच्य॑त इ॒ति।
अन्नात् भूतानि जायन्ते – All creatures are born from food. जातानि अन्नेन वर्धन्ते – Being born, they grow by food. अद्यते अत्ति च भूतानि – (Food) both is eaten and it eats the creatures (upon death, and as a food-body-eater). तस्मात् अन्नं तद् उच्यते इति – Therefore, it is called “anna” (from the root ‘ad’ “to eat,”).
तस्माद् वा एतस्माद् अन्न॑-रस॒मयात्। अन्योऽन्तर आत्मा᳚ प्राण॒मयः। तेनै॑ष पू॒र्णः।
तस्मात् वै एतस्मात् अन्न-रसमयात् – Apart from this (body-ātman) that is anna-rasa-maya (predominantly the essence of that food), अन्यः अन्तरः आत्मा प्राणमयः – there is another ātman (“I”) called prāṇa-maya (predominantly life-energy). तेन एषः पूर्णः – By that, this (body-ātman) is completely encompassed.
स वा एष पुरुषवि॑ध ए॒व। तस्य पुरु॑ष-वि॒धताम्। अन्व् अयं॑ पुरुष॒-विधः।
सः वै एषः पुरुष-विधः एव – (Therefore) this (prāṇa-maya) can indeed be like a person’s body (puruṣa). तस्य पुरुष-विधताम् अनु – Following the likeness of a person, अयं पुरुष-विधः – this is its being like a body.
तस्य प्राण॑ एव॒ शिरः। व्यानो दक्षि॑णः प॒क्षः। अपान उत्त॑रः प॒क्षः। आका॑श आ॒त्मा। पृथिवी पुच्छं॑ प्रति॒ष्ठा।
तद् अप्य् एष श्लो॑को भ॒वति॥
तस्य प्राणः एव शिरः – Prāṇa (breath, in and out) is its head. व्यानः दक्षिणः पक्षः – Vyāna (dispersing circulation) is its right side. अपानः उत्तरः पक्षः – Apāna (downward energy) is its left side. आकाशः आत्मा – Ākāśa (i.e., samāna prāṇa, the digestion) is its trunk (ātman). पृथिवी पुच्छं प्रतिष्ठा – Pṛthivī (i.e., udāna praṇa the subtle body ejector that by not firing allows one to stay on Earth, Pṛthivī) is its support tail (puccha, until death).
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.3
♬
❚❚
TaitU.2.3.1
प्रा॒णं दे॒वा अनु॒ प्राण॑न्ति। म॒नु॒ष्याः᳚ प॒शव॑श् च॒ ये। प्रा॒णो हि भू॒ताना॒म् आयुः॑। तस्मा᳚त् सर्वायु॒षम् उ॑च्यते।
प्राणं देवा अनु प्राणन्ति – Only after prāṇa (starts enlivening this body) do the sensory devas (illumined hearing, sight, etcetera) survive here. मनुष्याः पशवः च ये – So too do all people and other creatures survive. प्राणः हि भूतानाम् आयुः – Since prāṇa (determines) the life span (āyus) of all beings, तस्मात् सर्व-आयुषम् उच्यते – therefore it is called the “life span” of all.
सर्व॑म् ए॒व त॒ आयु॑र् यन्ति। ये प्रा॒णं ब्रह्मो॒पास॑ते। प्राणो हि भूता॑नाम् आ॒युः। तस्मात् सर्वायुषम् उच्य॑त इ॒ति।
सर्वम् एव ते आयुः यन्ति ये प्राणं ब्रह्म उपासते – All those who worship (are intent upon) prāṇa as being brahman (their reality), they become this (one) life span (“I am this life,” or they gain a long life). प्राणः हि भूतानाम् आयुः – (Again) because prāṇa (determines) the life span (āyus) of all beings, तस्मात् सर्व-आयुषम् उच्यते इति – therefore it is called the “life span” of all.
तस्यैष एव शारी॑र आ॒त्मा। यः॑ पूर्व॒स्य।
तस्य एषः एव शारीरः आत्मा यः पूर्वस्य – As it was for the previous (anna-rasa-maya) this (prāṇa-maya) becomes the embodied (śārīra) ātman (“I am this life-force, this life span”).
तस्माद् वा एतस्मा᳚त् प्राण॒मयात्। अन्योऽन्तर आत्मा॑ मनो॒मयः। तेनै॑ष पू॒र्णः। स वा एष पुरुष-वि॑ध ए॒व। तस्य पुरु॑ष-वि॒धताम्। अन्व् अयं॑ पुरुष॒-विधः।
तस्माद् वै एतस्मात् प्राणमयात् – Apart from this (prāṇa-ātman) that is prāṇa-maya (consisting of the life energy), अन्यः अन्तरः आत्मा मनोमयः – there is another ātman (“I”) called manomaya (consisting of manas). तेन एषः पूर्णः – By that, this (energy-ātman) is completely encompassed. सः वै एषः पुरुष-विधः एव – (Therefore) this (manomaya) can indeed be like a person’s body (puruṣa). तस्य पुरुष-विधताम् अनु – Following the likeness of a person, अयं पुरुष-विधः – this is its being like a body.
तस्य यजु॑र् एव॒ शिरः। ऋग् दक्षि॑णः प॒क्षः। सामोत्त॑रः प॒क्षः। आदे॑श आ॒त्मा। अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा।
तस्य यजुः एव शिरः – Yajus (memory thought of Yajus Veda mantra) is its head. ऋच् दक्षिणः पक्षः – Ṛc (memory thought of Ṛc Veda mantra) is its right side. साम उत्तरः पक्षः – Sāman (memory thought of Sāma Veda mantra) is its left side. आदेशः आत्मा – Ādeśa (memory thought of instruction, Veda Brāhmaṇa prose) is its trunk (ātman). अथर्व-आङ्गिरसः पुच्छं प्रतिष्ठा – Atharva-aṅgiras (memory thoughts of Atharva Veda mantras and Brāhmaṇas, with its purification mantras) is its support tail (puccha)
तद् अप्य् एष श्लो॑को भ॒वति॥
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.4
♬
❚❚
TaitU.2.4.1
यतो॒ वाचो॒ निव॑र्तन्ते। अप्रा᳚प्य॒ मन॑सा स॒ह। आनन्दं ब्रह्म॑णो वि॒द्वान्। न बिभेति कदा॑चने॒ति।
तस्यैष एव शारी॑र आ॒त्मा। यः॑ पूर्व॒स्य।
यतः वाचः निवर्तन्ते अप्राप्य मनसा सह – “From which (brahman) speech (words) along with this mind (thoughts) turn back (fall short) without obtaining आनन्दं ब्रह्मणः विद्वान् – the one who instead knows (as oneself) the ānanda fullness of that brahman न बिभेति कदाचन इति – does not fear at any time”.
तस्य एषः एव शारीरः आत्मा। यः पूर्वस्य – As it was for the previous (prāṇa-maya) this (manomaya) becomes the embodied (śārīra) ātman (“I am this mind”).
तस्माद् वा एतस्मा᳚न् मनो॒मयात्। अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः। तेनै॑ष पू॒र्णः। स वा एष पुरुष-वि॑ध ए॒व। तस्य पुरु॑ष-वि॒धताम्। अन्व् अयं॑ पुरुष॒-विधः।
तस्मात् वै एतस्मात् मनोमयात् – Apart from this (manas-ātman) that is manomaya (consisting of the thoughts) अन्यः अन्तरः आत्मा विज्ञानमयः – there is another ātman (“I”) called vijñāna-maya (consisting of intellect). तेन एषः पूर्णः – By that, this (mind-ātman) is completely encompassed (clearly known). सः वै एषः पुरुष-विधः एव – (Therefore) this (vijñāna-maya) can indeed be like a person’s body (puruṣa). तस्य पुरुष-विधताम् अनु – Following the likeness of a person अयं पुरुष-विधः – this is its being like a body.
तस्य श्र॑द्धैव॒ शिरः। ऋतं दक्षि॑णः प॒क्षः। सत्यम् उत्त॑रः प॒क्षः। यो॑ग आ॒त्मा। महः पुच्छं॑ प्रति॒ष्ठा।
तद् अप्य् एष श्लो॑को भ॒वति॥
तस्य श्रद्धा एव शिरः – Śraddhā (conviction) is its head. ऋतं दक्षिणः पक्षः – Ṛta (honesty) is its right side. सत्यम् उत्तरः पक्षः – Satya (truth) is its left side. योगः आत्मा – Yoga (contemplative disposition) is its trunk (ātman). मह पुच्छं प्रतिष्ठा – Mahat (the total cosmic subtle body, Hiraṇya-garbha) is its support tail (puccha).
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.5
♬
❚❚
TaitU.2.5.1
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते। कर्मा॑णि तनु॒तेऽपि॑ च। वि॒ज्ञानं॑ दे॒वाः सर्वे। ब्रह्म॒ ज्येष्ठ॒म् उपा॑सते।
विज्ञानं यज्ञं तनुते – Vijñāna (intellect) informs (tanute, fills in) yajña (ritual) कर्माणि तनुते अपि च – and intellect informs karma (actions to be done). विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठम् उपासते – All the deities worship (are intent upon) jyeṣṭha vijñāna (Hiranya-garbha their elder) as being brahman (their reality).
वि॒ज्ञानं॒ ब्रह्म॒ चेद् वेद॑। तस्मा॒च् चेन् न प्र॒माद्य॑ति। श॒रीरे॑ पाप्म॑नो हि॒त्वा। सर्वान् कामान् समश्नु॑त इ॒ति।
तस्यैष एव शारी॑र आ॒त्मा। यः॑ पूर्व॒स्य।
विज्ञानं ब्रह्म चेद् वेद – If one knows vijñāna as brahman, तस्मात् चेद् न प्रमाद्यति – and thereupon does not lose sight of this, शरीरे पाप्मनः हित्वा – then, abandoning (identifications with) the karma demerits of the physical body, सर्वान् कामान् समश्नुते इति – one is said to attain all (mental) desirables.
तस्य एषः एव शारीरः आत्मा यः पूर्वस्य – As it was for the previous (manomaya) this (vijñāna-maya) becomes the embodied (śārīra) ātman (“I am this intellect”).
तस्माद् वा एतस्माद् वि॑ज्ञान॒मयात्। अन्योऽन्तर आत्मा॑नन्द॒मयः। तेनै॑ष पू॒र्णः।
तस्मात् वै एतस्मात् विज्ञानमयात् – Apart from this (vijñāna-ātman) that is vijñāna-maya (consisting of the intellect) अन्यः अन्तरः आत्मा आनन्दमयः – there is another ātman (“I”) called ānanda-maya (consisting of various degrees of joy, whether there are thoughts or not). तेन एषः पूर्णः – By that, this (intellect-ātman) is encompassed (satisfied).
स वा एष पुरुष-वि॑ध ए॒व। तस्य पुरु॑ष-वि॒धताम्। अन्व् अयं॑ पुरुष॒-विधः।
सः वै एषः पुरुष-विधः एव – (Therefore) this (ānanda-maya) can indeed be like a person’s body (puruṣa). तस्य पुरुष-विधताम्। अनु – Following the likeness of a person, this is its being like a body, अयं पुरुष-विधः – this is its being like a body.
तस्य प्रिय॑म् एव॒ शिरः। मोदो दक्षि॑णः प॒क्षः। प्रमोद उत्त॑रः प॒क्षः। आन॑न्द आ॒त्मा। ब्रह्म पुच्छं॑ प्रति॒ष्ठा।
तद् अप्य् एष श्लो॑को भ॒वति॥
तस्य प्रियम् एव शिरः – Priya (the pleasurable, ānanda-vṛtti, fullness limited through a thought) is its head. मोदः दक्षिणः पक्षः – Moda (the more pleasurable) is its right side. प्रमोदः उत्तरः पक्षः – Pramoda (the most pleasurable) is its left side. आनन्दः आत्मा – Ānanda (joy in general) is its trunk (ātman). ब्रह्म पुच्छं प्रतिष्ठा – Brahman (satyam jñānam anantam brahman) is its (so called) “support tail” (puccha, actually it is all this from ākāśa to ānanda-maya).
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.6
♬
❚❚
TaitU.2.6.1
अस॑न्न् ए॒व स॑ भवति। अस॒द् ब्रह्मेति॒ वेद॒ चेत्।
अ-सन् एव सः भवति अ-सत् ब्रह्म इति वेद चेद् – “If anyone thinks that brahman (unlimited existence-knowledge) is either non-existent or unmanifest only (a-sat, or is false), that would only make that one himself or herself non-existent or unmanifest (or false).
अस्ति ब्रह्मेति॑ चेद् वे॒द। सन्तम् एनं ततो वि॑दुर् इ॒ति।
अस्ति ब्रह्म इति चेद् वेद – If, on the other hand, one knows that brahman exists and is manifest (as the Lord, as all this), सन्तम् एनं ततः – from recognizing that, then oneself exists (as brahman) and is manifest (as all this Lord), विदुः इति – say those who know (brahman)”.
तस्यैष एव शारी॑र आ॒त्मा। यः॑ पूर्व॒स्य।
तस्य एषः एव शारीरः आत्मा यः पूर्वस्य – As it was for the previous (vijñāna-maya) this (ānanda-maya, the joyful) is the embodied (śārīra) ātman.
अथातो॑ऽनुप्र॒श्नाः।
उ॒तावि॒द्वान् अ॒मुं लो॒कं प्रेत्य॑। कश्च॒न ग॑च्छ॒ती३। आहो॑ वि॒द्वान् अ॒मुं लो॒कं प्रेत्य॑। कश्चि॒त् सम॑श्नु॒ता३ उ॒।
अथ अतः अनुप्रश्नाः – Now, from this (on how to reach the ultimate joy) there are the following questions.
उत अ-विद्वान् अमुं लोकं प्रेत्य कश्चन गच्छति – After departing (from this life) does an ignorant person (who has no trust in the Veda) go to an other world (heaven) (or not)? आहो विद्वान् अमुं लोकं प्रेत्य – Or rather, does one who knows (i.e., who is an āstika, has trust in the Veda) after departing (from this life) कश्चिद् समश्नुते उ – go to another world (heaven) (or not)?
सो॑ऽकामयत। ब॒हु स्यां॒ प्रजा॑ये॒येति॑। स तपो॑ऽतप्यत। स तप॑स् त॒प्त्वा। इ॒दग्ँ सर्व॑म् असृजत। यद् इ॒दं किञ्च॑। तत् सृ॒ष्ट्वा। तद् ए॒वानु॒प्रावि॑शत्।
सः अकामयत – (Regarding questions on matters within the manifestation, let us start from the beginning) It (the Lord, the Person) pulled up a desire (from the unmanifest, from past karma) बहु स्याम् – “Let Me be many. प्रजायेय इति – Let Me be born”. सः तपस् अतप्यत – It contemplated (did tapas). सः तपस् तप्त्वा – Having contemplated, इदं सर्वम् असृजत – It manifested all this. यद् इदं किञ्च तद् सृष्ट्वा – After manifesting whatever is there, तद् एव अनुप्राविशत् – It “entered into” (as its self) that very thing.
तद् अ॑नुप्र॒विश्य॑। सच् च॒ त्यच् चा॑भवत्। नि॒रुक्तं॒ चानि॑रुक्तं च। नि॒लय॑नं॒ चानि॑लयनं च।
तद् अनुप्रविश्य – After entering that, सत् च त्यत् च अभवत् – It became the formed (sat, sensible form) and the formless (tyad, the “other”), निरुक्तं च अ-निरुक्तं च – the defined and the undefined (a-nirukta), निलयनं॒ च अ-निलयनं च – that which stays put (to have a form) and that which does not stay put (a-nilaya),
वि॒ज्ञानं॒ चावि॑ज्ञानं च। सत्यं चानृतं च स॑त्यम् अ॒भवत्। यद् इ॑दं कि॒ञ्च।
विज्ञानं च अ-विज्ञानं च – what has a mind and what has not a mind (a-vijñāna), सत्यं च अन्-ऋतं च – and what is real (satya brahman) and an-ṛtam (falsely taken as real). सत्यम् अभवत् यद् इदं किञ्च – Satya (brahman) became all this.
तत् सत्यम् इ॑त्य् आच॒क्षते।
तद् अप्य् एष श्लो॑को भ॒वति॥
तद् सत्यम् इति आचक्षते – They call it (the only) satya (reality).
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.7
♬
❚❚
TaitU.2.7.1
अस॒द् वा इ॒दम् अग्र॑ आसीत्। ततो॒ वै सद् अ॑जायत।
तद् आत्मानग्ँ स्वय॑म् अकु॒रुत। तस्मात् तत् सुकृतम् उच्य॑त इ॒ति।
अ-सत् वै इदम् अग्रे आसीत् – “In the beginning, all this was the a-sat (unmanifest brahman). ततः वै सत् अजायत – From that (unmanifest brahman) indeed arose the sat (manifest brahman).
तद् आत्मानं स्वयम् अकुरुत – That (a-sat, unmanifest brahman) created its self (ātman, as sat, manifest brahman). तस्मात् तद् सु-कृतम् उच्यते इति – Therefore, it is called su-kṛta (perfectly or self created, i.e. uncaused by anything else)”.
यद् वै॑ तत् सु॒कृतम्। र॑सो वै॒ सः। रसग्ँ ह्य् एवायं लब्ध्वान॑न्दी भ॒वति।
यद् वै तद् सु-कृतम् – That which is known as the perfectly (self) created रसः वै सः – is indeed that rasa (enjoyed thing), रसं हि एव अयं लब्ध्वा आनन्दी भवति – because one becomes (temporarily) self-satisfied (ānandin) upon acquiring an enjoyed thing (rasa).
को ह्य् एवान्या᳚त् कः प्रा॒ण्यात्। यद् एष आकाश आन॑न्दो न॒ स्यात्। एष ह्य् एवान॑न्दया॒ति।
कः हि एव अन्यात् कः प्राण्यात् – Indeed, who would breath in and breath out, यद् एषः आकाशे आनन्दः न स्यात् – if this (hope for) satisfaction within (ākāśe ānanda) was not there. एषः हि एव आनन्दयाति – This (self-created ātman) alone is that which manifests satisfaction.
य॒दा ह्य् ए॑वैष॒ एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति॑ष्ठां वि॒न्दते। अथ सोऽभयं ग॑तो भ॒वति।
यदा हि एव एषः एतस्मिन् अ-दृश्ये अन्-आत्म्ये अ-निरुक्ते अ-निलयने अ-भयं प्रतिष्ठां विन्दते – For only when one finds the abiding-place (pratiṣṭhā) that is fearlessness (a-bhaya) in this invisible (a-dṛśya), bodiless (an-ātmya), indefinable (a-nirukta), and formless (a-nilaya, or is itself without a separate support) (brahman), अथ सः अ-भयं गतः भवति – then one reaches fearlessness.
य॒दा ह्य् ए॑वैष॒ एतस्मिन्न् उद् अरम् अन्त॑रं कु॒रुते। अथ तस्य भ॑यं भ॒वति। तत् त्व् एव भयं विदुषोऽम॑न्वान॒स्य।
तद् अप्य् एष श्लो॑को भ॒वति॥
यदा हि एव एषः एतस्मिन् उद् अरम् अन्तरं कुरुते – Indeed, when one sufficiently rises (ud aram) a notion of separation (antara) in (or from) this (brahman), अथ तस्य भयं भवति – then one has fear.
तद् तु एव भयं विदुषः अ-मन्वानस्य – On the other hand, for a person who is learned but does not keep it in mind (or know for a fact this teaching) there is fear.
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.8
♬
❚❚
TaitU.2.8.1
भी॒षास्मा॒द् वातः॑ पवते। भी॒षोदे॑ति॒ सूर्यः॑। भीषास्माद् अग्नि॑श् चेन्द्र॒श् च। मृत्युर् धावति पञ्च॑म इ॒ति।
भीषा अस्मात् – “Out of fear (bhīṣā, or rather the mandate of their nature) of that (brahman) वातः पवते भीषा उदेति सूर्यः – the wind blows (the element movement moves) and the sun arises, भीषा अस्मात् अग्निः च इन्द्रः च मृत्यः धावति पञ्चमः इति – similarly, Lord Fire, Lord Indra, and Lord Death as the fifth do their job (dhāvati)”.
सैषानन्दस्य मीमाग्ँ॑सा भ॒वति।
सा एषा आनन्दस्य मीमांसा भवति – Now here is the analysis on ānanda (ānanda-brahman).
युवा स्यात् साधु-यु॑वाध्या॒यकः। आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात्। स एको मानुष॑ आन॒न्दः।
युवा स्यात् साधु-युवा अध्यायकः – Suppose there is a lad who is virtuous (sādhu), in his youthful prime (yuvat), a student (adhyāyaka, unencumbered by household and professional duties), आशिष्ठः दृढिष्ठः बलिष्ठः – most expeditious (āśiṣṭha), most steadfast (dṛḍhiṣṭa), and most powerful (baliṣṭha). तस्य अयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् – Suppose this entire earth full of wealth is his. सः एकः मानुष॑ आनन्दः – That would be one unit of (maximal) human joy (ānanda).
ते ये शतं मानुषा॑ आन॒न्दाः॥
ते ये शतं मानुषः आनन्दाः – Now, one-hundred of those joys:
TaitU.2.8.2
स एको मनुष्य-गन्धर्वाणा॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य।
सः एकः मनुष्य-गन्धर्वाणाम् आनन्दः – That would be the joy of a heaven music concert goer (manuṣya-gandharva), श्रोत्रियस्य च अ-काम-हतस्य – as well be (included in the joy) of the one who is learned in this teaching (śrotriya) and (hence) unafflicted by any desire (a-kāma-hata).
ते ये शतं मनुष्य-गन्धर्वाणा॑म् आन॒न्दाः। स एको देव-गन्धर्वाणा॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य।
ते ये शतं मनुष्य-गन्धर्वाणाम् आनन्दाः – Now, one-hundred of those joys सः एकः देव-गन्धर्वाणाम् आनन्दः – would be the joy of a heaven concert patron (deva-gandharva), श्रोत्रियस्य च अ-काम-हतस्य – as well be (included in the joy) of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतं देव-गन्धर्वाणा॑म् आन॒न्दाः। स एकः पितॄणां चिर-लोक-लोकाना॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य।
ते ये शतं देव-गन्धर्वाणाम् आनन्दाः – Now, one-hundred of those joys सः एकः पितॄणां चिर-लोक-लोकानाम् आनन्द – would be the joy of a one dwelling in ancestor heaven for a very long time, श्रोत्रियस्य च अ-काम-हतस्य – as well as be included in the joy of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतं पितॄणां चिर-लोक-लोकाना॑म् आन॒न्दाः। स एक आजानजानां देवाना॑म् आन॒न्दः॥
ते ये शतं पितॄणां चिर-लोक-लोकानाम् आनन्दाः – Now, one-hundred of those joys सः एकः आजानजानां देवानाम् आनन्दः – would be the joy of a one who is one of the ājānaja devas (who gain a post as a deity in heaven through special Smṛti pūjā rituals).
TaitU.2.8.3
श्रोत्रियस्य चाकाम॑-हत॒स्य।
श्रोत्रियस्य च अ-काम-हतस्य – And would as well be (included in the joy) of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतम् आजानजानां देवाना॑म् आन॒न्दाः। स एकः कर्म-देवानां देवाना॑म् आन॒न्दः। ये कर्मणा देवान् अ॑पिय॒न्ति। श्रोत्रियस्य चाकाम॑-हत॒स्य।
ते ये शतम् आजानजानां देवानाम् आनन्दाः – Now, one-hundred of those joys सः एकः कर्म-देवानां देवानाम् आनन्दः – would be the joy of one of the karma-devas ये कर्मणा देवान् अपियन्ति – who gain a deity post in heaven through Veda yajña ritual, श्रोत्रियस्य च अ-काम-हतस्य – as well as of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतं कर्म-देवानां देवाना॑म् आन॒न्दाः। स एको देवाना॑म् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य।
ते ये शतं कर्म-देवानां देवानाम् आनन्दाः – Now, one-hundred of those joys सः एकः देवानाम् आनन्दः – would be the joy of one of the (thirty-three) Ṛc Veda deities), श्रोत्रियस्य च अ-काम-हतस्य – as well as of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतं देवाना॑म् आन॒न्दाः। स एक इन्द्र॑स्यान॒न्दः॥
ते ये शतं देवानाम् आनन्दाः – Now, one-hundred of those joys सः एकः इन्द्रस्य आनन्दः – would be the joy of Lord Indra.
TaitU.2.8.4
श्रोत्रियस्य चाकाम॑-हत॒स्य।
श्रोत्रियस्य च अ-काम-हतस्य – And would as well be (included in the joy) of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतम् इन्द्र॑स्यान॒न्दाः। स एको बृहस्पते॑र् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य।
ते ये शतम् इन्द्रस्य आनन्दाः – Now, one-hundred of those joys सः एकः बृहस्-पतेः आनन्दः – would be the joy of Bṛhas-pati (counselor to the deities), श्रोत्रियस्य च अ-काम-हतस्य – as well as of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतं बृहस्पते॑र् आन॒न्दाः। स एकः प्रजापते॑र् आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य।
ते ये शतं बृहस्-पतेः आनन्दाः – Now, one-hundred of those joys सः एकः प्रजा-पतेः आनन्दः – would be the joy of Prajā-pati (Virāṭ), श्रोत्रियस्य च अ-काम-हतस्य – as well as of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
ते ये शतं प्रजापतेर्॑ आन॒न्दाः। स एको ब्रह्मण॑ आन॒न्दः। श्रोत्रियस्य चाकाम॑-हत॒स्य॥
ते ये शतं प्रजा-पतेः आनन्दाः – Now, one-hundred of those joys सः एकः ब्रह्मणः आनन्दः – would be the joy of Brahman (Lord Brahman, Hiraṇya-garbha), श्रोत्रियस्य च अ-काम-हतस्य – (as well as) of the one who is learned in this teaching and hence unafflicted by any desire (śrotriya a-kāma-hata).
TaitU.2.8.5
स यश् चा॑यं पु॒रुषे। यश् चासा॑व् आदि॒त्ये। स एकः॑।
सः यः च अयं पुरुषे – The very one in a person (the brahma-ātman who has entered into everything including into this body here), यः च असौ आदित्ये – and which is in the sun, सः एकः – is one only (not many ātmans).
स य॑ एवं॒-वित्। अस्माल् लो॑कात् प्रे॒त्य।
सः यः एवं-विद् – The one who knows in this way, अस्मात् लोकात् प्रेत्य – having departed from this world,
एतम् अन्नमयम् आत्मानम् उप॑संक्रा॒मति। एतं प्राणमयम् आत्मानम् उप॑संक्रा॒मति। एतं मनोमयम् आत्मानम् उप॑संक्रा॒मति।
एतम् अन्नमयम् आत्मानम् उपसंक्रामति – Pervades (as the one reality of) this body consisting of food (anna),
एतं प्राणमयम् आत्मानम् उपसंक्रामति – pervades this body consisting of energy (prāṇa),
एतं मनोमयम् आत्मानम् उपसंक्रामति – pervades this individual consisting of mind,
एतं विज्ञानमयम् आत्मानम् उप॑संक्रा॒मति। एतम् आनन्दमयम् आत्मानम् उप॑संक्रा॒मति।
एतं विज्ञानमयम् आत्मानम् उपसंक्रामति – pervades this body consisting of intellect (vijñāna),
एतम् आनन्दमयम् आत्मानम् उपसंक्रामति – and pervades this body consisting of joy (ānanda) (or, upasaṃkrāmati could be taken as transcends at every level of subtility).
तद् अप्य् एष श्लो॑को भ॒वति॥
तद् अपि एषः श्लोकः भवति – About that is this verse:
TaitU.2.9
♬
❚❚
TaitU.2.9.1
यतो॒ वाचो॒ निव॑र्तन्ते। अप्रा᳚प्य॒ मन॑सा स॒ह। आनन्दं ब्रह्म॑णो वि॒द्वान्। न बिभेति कुत॑श्चने॒ति।
“From which, words along with thought return having not grasped (a-prāpya), आनन्दं ब्रह्मणः विद्वान् – that fullness (ānanda) of brahman the wise person (knows as one’s self). न बिभेति कुतश्चन इति – This person has no fear from anything (as no second thing to fear)”.
एतग्ँ ह वाव॑ न त॒पति। किम् अहग्ँ साधु॑ नाक॒रवम्। किम् अहं पापम् अकर॑वम् इ॒ति।
एतं ह वाव न तपति – This one is not afflicted towards any of this (the virtue or fault of these bodies, śarīras) — किम् अहं साधु न अकरवम् – “Whatever good I have not done, किम् अहं पापम् अकरवम् इति – or whatever bad I have done”.
स य एवं विद्वान् एते आत्मा॑नग्ँ स्पृ॒णुते। उ॒भे ह्य् ए॑वैष॒ एते आत्मा॑नग्ँ स्पृ॒णुते। य ए॒वं वेद॑।
इत्य् उ॑प॒निष॑त्॥
सः यः एवं विद्वान् – The one who knows in this way एते आत्मानं स्पृणुते – loves both these as oneself, यः एवं वेद – because one who knows in this way उभे हि एव एषः एते आत्मानं स्पृणुते – (cannot but) love both these as oneself (since it is a fact of this knowledge).
इति उपनिषद् – This is the Upaniṣad (the sacred teaching).
भृगुवल्ली (३.)
TaitU.3.1
♬
❚❚
TaitU.3.1.1
भृ॒गु॒र् वै वा॑रु॒णिः। वरु॑णं॒ पित॑र॒म् उप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑।तस्मा॑ ए॒तत् प्रो॑वाच।
भृगुः वै वारुणिः – Bhṛgu, the well-known son of Varuṇa, वरुणं पितरम् उपससार – properly approached his father Varuṇa अधीहि भगवः ब्रह्म इति तस्मै एतद् प्रोवाच – and requested, “O Venerable Sir, please teach me brahman”.
अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒म् इति॑। तग्ँ हो॑वाच।
तं ह उवाच – To him Varuṇa said this, अन्नं प्राणम् – “Food and life-energy (the eaten and the eater), चक्षुः श्रोत्रं मनः वाचम् इति – also sight, hearing, mind, and speech”.
यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। येन॒ जाता॑नि॒ जीव॑न्ति। यत् प्रय॑न्त्य् अ॒भिसंवि॑शन्ति। तद् विजि॑ज्ञासस्व। तद् ब्रह्मेति॑।
यतः वै इमानि भूतानि जायन्ते – (Then he said to him,) “From which all these beings arise, येन जातानि जीवन्ति – by which the arisen survive, यद् प्रयन्ति अभिसंविशन्ति – and into which they go and merge. तद् विजिज्ञासस्व – That is what you want to know. तद् ब्रह्म इति – That (indirectly) is brahman”.
स तपो॑ऽतप्यत। स तप॑स् त॒प्त्वा॥
सः तपस् अतप्यत – Bhṛgu contemplated this. सः तपस् तप्त्वा – Having contemplated…
TaitU.3.2
♬
❚❚
TaitU.3.2.1
अन्नं॒ ब्रह्मेति॒ व्य॑जानात्। अ॒न्नाद् ध्य् ए॑व खल्व् इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति। अन्नं॒ प्रय॑न्त्य् अ॒भिसंवि॑श॒न्तीति॑।
अन्नं ब्रह्म इति व्यजानात् – He (Bhṛgu) came to know anna (food, as Virāṭ) is brahman, अन्नात् हि एव खलु इमानि भूतानि जायन्ते – since from food all these beings arise, अन्नेन जातानि जीवन्ति – by food the arisen survive, अन्नं प्रयन्ति अभिसंविशन्ति इति – and into food they go and merge.
तद् वि॒ज्ञाय॑। पुन॑र् ए॒व वरु॑णं॒ पित॑र॒म् उप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑।
तद् विज्ञाय – Knowing thus (yet knowing food itself has a cause), पुनर् एव वरुणं पितरम् उपससार – he again approached his father Varuṇa अधीहि भगवः ब्रह्म इति – and requested, “O Venerable Sir, please teach me brahman”.
तग्ँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒ ब्रह्मेति॑।
स तपो॑ऽतप्यत। स तप॑स् त॒प्त्वा॥
तं ह उवाच – To him Varuṇa said this, तपसा ब्रह्म विजिज्ञासस्व – “By tapas (religious discipline including inquiry and contemplation) you should know brahman. तपस् ब्रह्म इति – Tapas indeed is brahman”.
सः तपस् अतप्यत – Bhṛgu contemplated this. सः तपस् तप्त्वा – Having contemplated…
TaitU.3.3–6
♬
❚❚
TaitU.3.3.1
प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात्। प्रा॒णाद् ध्य् ए॑व खल्व् इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति। प्रा॒णं प्रय॑न्त्य् अ॒भिसंवि॑श॒न्तीति॑।
प्राणः ब्रह्म इति व्यजानात् – He (Bhṛgu) came to know prāṇa (life-energy, as Hiraṇya-garbha) is brahman, प्राणात् हि एव खलु इमानि भूतानि जायन्ते – since from life-energy all these beings arise, प्राणेन जातानि जीवन्ति – by life-energy the arisen survive, प्राणं प्रयन्ति अभिसंविशन्ति इति – and into life-energy they go and merge.
तद् वि॒ज्ञाय॑। पुन॑र् ए॒व वरु॑णं॒ पित॑र॒म् उप॑ससार। अधी॑ही भगवो॒ ब्रह्मेति॑।
तद् विज्ञाय – Knowing thus (yet knowing life-energy itself has a cause), पुनर् एव वरुणं पितरम् उपससार – he again approached his father Varuṇa अधीहि भगवः ब्रह्म इति – and requested, “O Venerable Sir, please teach me brahman”.
तग्ँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒ ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स् त॒प्त्वा॥
तं ह उवाच – To him Varuṇa said this, तपसा ब्रह्म विजिज्ञासस्व – “By tapas (religious discipline including inquiry and contemplation) you should know brahman. तपस् ब्रह्म इति – Tapas indeed is brahman”. सः तपस् अतप्यत – Bhṛgu contemplated this. सः तपस् तप्त्वा – Having contemplated…
TaitU.3.4.1
मनो॒ ब्रह्मेति॒ व्य॑जानात्। मन॑सो॒ ध्य् ए॑व खल्व् इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। मन॑सा॒ जाता॑नि॒ जीव॑न्ति। मनः॒ प्रय॑न्त्य् अ॒भिसंवि॑श॒न्तीति॑।
मनस् ब्रह्म इति व्यजानात् – He (Bhṛgu) came to know manas (mind) is brahman, मनसः हि एव खलु इमानि भूतानि जायन्ते – since from mind all these beings arise, मनसा जातानि जीवन्ति – by mind the arisen survive, मनस् प्रयन्ति अभिसंविशन्ति इति – and into mind they go and merge.
तद् वि॒ज्ञाय॑। पुन॑र् ए॒व वरु॑णं॒ पित॑र॒म् उप॑ससार। अधी॑ही भगवो॒ ब्रह्मेति॑।
तद् विज्ञाय – Knowing thus (yet knowing mind itself has a cause), पुनर् एव वरुणं पितरम् उपससार – he again approached his father Varuṇa अधीहि भगवः ब्रह्म इति – and requested, “O Venerable Sir, please teach me brahman”.…
तग्ँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒ ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स् त॒प्त्वा॥
तं ह उवाच – To him Varuṇa said this, तपसा ब्रह्म विजिज्ञासस्व – “By tapas (religious discipline including inquiry and contemplation) you should know brahman. तपस् ब्रह्म इति – Tapas indeed is brahman”. सः तपस् अतप्यत – Bhṛgu contemplated this. Having contemplated…
TaitU.3.5.1
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात्। वि॒ज्ञाना॒द् ध्य् ए॑व खल्व् इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति। वि॒ज्ञानं॒ प्रय॑न्त्य् अ॒भिसंवि॑श॒न्तीति॑।
विज्ञानं ब्रह्म इति व्यजानात् – He (Bhṛgu) came to know vijñāna (intellect) is brahman, विज्ञानात् हि एव खलु इमानि भूतानि जायन्ते – since from intellect all these beings arise, विज्ञानेन जातानि जीवन्ति – by intellect the arisen survive, विज्ञानं प्रयन्ति अभिसंविशन्ति इति – and into intellect they go and merge.
तद् वि॒ज्ञाय॑। पुन॑र् ए॒व वरु॑णं॒ पित॑र॒म् उप॑ससार। अधी॑ही भगवो॒ ब्रह्मेति॑।
तद् विज्ञाय – Knowing thus (yet knowing intellect itself has a cause), पुनर् एव वरुणं पितरम् उपससार – he again approached his father Varuṇa अधीहि भगवः ब्रह्म इति – and requested, “O Venerable Sir, please teach me brahman”.
तग्ँ हो॑वाच। तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व। तपो॒ ब्रह्मेति॑। स तपो॑ऽतप्यत। स तप॑स् त॒प्त्वा॥
तं ह उवाच – To him Varuṇa said this, तपसा ब्रह्म विजिज्ञासस्व – “By tapas (religious discipline including inquiry and contemplation) you should know brahman. तपस् ब्रह्म इति – Tapas indeed is brahman”. सः तपस् अतप्यत – Bhṛgu contemplated this. सः तपस् तप्त्वा – Having contemplated…
TaitU.3.6.1
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात्। आ॒नन्दा॒द् ध्य् ए॑व खल्व् इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति। आ॒न॒न्दं प्रय॑न्त्य् अ॒भिसंवि॑श॒न्तीति॑।
आनन्दः ब्रह्म इति व्यजानात् – He (Bhṛgu) came to know ānanda (fullness, ānanda-maya-pratiṣṭhā) is brahman, आनन्दात् हि एव खलु इमानि भूतानि जायन्ते – since from fullness all these beings arise, आनन्देन जातानि जीवन्ति – by fullness the arisen survive, आनन्दं प्रयन्ति अभिसंविशन्ति इति – and into fullness they merge (finally).
सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या।
सा एषा भार्गवी वारुणी विद्या – This indeed is the knowledge in the form of a dialogue between Śrī Varuṇa and his son Śrī Bhṛgu.
प॒र॒मे व्यो॑म॒न् प्रति॑ष्ठिता। स य ए॒वं वेद॒ प्रति॑तिष्ठति।
परमे व्योमन् प्रतिष्ठिता – It is firmly established (by religious discipline including inquiry and contemplation) in the vast space of the intellect. सः यः एवं वेद प्रतितिष्ठति – The one who knows thus gets firmly established (as ānanda brahman).
अन्न॑वान् अन्ना॒दो भ॑वति। म॒हान् भ॑वति। प्र॒जया॑ प॒शुभि॑र् ब्रह्म-वर्च॒सेन॑। म॒हान् की॒र्त्या॥
अन्नवान् अन्न-अदः भवति महान् भवति – (Like for Bhṛgu) one becomes great, gains and enjoys plenty of food, प्रजया पशुभिः – has good progeny and wealth, ब्रह्म-वर्चसेन – is brilliant in self-confidence, महान् कीर्त्या – with the far-reaching respect (of being a wise person).
TaitU.3.7
♬
❚❚
TaitU.3.7.1
अन्नं॒ न नि॑न्द्यात्। तद् व्र॒तम्। प्रा॒णो वा अन्न᳚म्।
अन्नं न निन्द्यात् तद् व्रतम्। प्राणः वै अन्नम् – This one would not deprecate (i.e. would revere and respect) food as a vow. प्राणः वै अन्नम् – Food is indeed prāṇa (life-energy).
शरी॑रम् अन्ना॒दम्। प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम्। शरी॑रे प्रा॒णः प्रति॑ष्ठितः। तद् ए॒तद् अन्न॒म् अन्ने॒ प्रति॑ष्ठितम्।
शरीरम् अन्न-अदम् – This body is the eater of food. प्राणे शरीरं प्रतिष्ठितम् – This body is fixed in prāṇa. शरीरे प्राणः प्रतिष्ठितः – Prāṇa is fixed in this body. तद् एतद् अन्नम् अन्ने प्रतिष्ठितम् – Thus this food (as the body and as life-energy, as mutually the eater and the eaten) here is fixed in food.
स य ए॒तद् अन्न॒म् अन्ने प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति।
सः यः एतद् अन्नम् अन्ने प्रतिष्ठितं वेद – The one who knows that this food here is fixed in food, प्रतितिष्ठति – is oneself well-fixed.
अन्न॑वान् अन्ना॒दो भ॑वति। म॒हान् भ॑वति। प्र॒जया॑ प॒शुभि॑र् ब्रह्म-वर्च॒सेन॑। म॒हान् की॒र्त्या॥
अन्नवान् अन्न-अदः भवति महान् भवति – (Again) one becomes great, gains and enjoys plenty of food, प्रजया पशुभिः – has good progeny and wealth, ब्रह्म-वर्चसेन – is brilliant in self-confidence, महान् कीर्त्या – with the far-reaching respect (of being a wise person).
TaitU.3.8
♬
❚❚
TaitU.3.8.1
अन्नं॒ न परि॑चक्षीत। तद् व्र॒तम्। आपो॒ वा अन्न᳚म्।
अन्नं न परिचक्षीत तद् व्रतम् – This one would not discard food as a vow. आपः वै अन्नम् – Food is indeed āp (water, a component of food).
ज्योति॑र् अन्ना॒दम्। अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम्। ज्योति॒ष्य् आपः॒ प्रति॑ष्ठिताः। तद् ए॒तद् अन्न॒म् अन्ने॒ प्रति॑ष्ठितम्।
ज्योतिः अन्न-अदम् – Fire (in the belly) is the eater of food. अप्सु ज्योतिः प्रतिष्ठितम् – Fire is fixed in water. ज्योतिषु आपः प्रतिष्ठिताः – Water is fixed in fire. तद् एतद् अन्नम् अन्ने प्रतिष्ठितम् – Thus this food (as water and as fire, as mutually the eater and the eaten) here is fixed in food.
स य ए॒तद् अन्न॒म् अन्ने प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति।
सः यः एतद् अन्नम् अन्ने प्रतिष्ठितं वेद – The one who knows that this food here is fixed in food, प्रतितिष्ठति – is oneself well-fixed.
अन्न॑वान् अन्ना॒दो भ॑वति। म॒हान् भ॑वति। प्र॒जया॑ प॒शुभि॑र् ब्रह्म-वर्च॒सेन॑। म॒हान् की॒र्त्या॥
अन्नवान् अन्न-अदः भवति महान् भवति – (Again) one becomes great, gains and enjoys plenty of food, प्रजया पशुभिः – has good progeny and wealth, ब्रह्म-वर्चसेन – is brilliant in self-confidence, महान् कीर्त्या – with the far-reaching respect (of being a wise person).
TaitU.3.9
♬
❚❚
TaitU.3.9.1
अन्नं॑ ब॒हु कु॑र्वीत। तद् व्र॒तम्। पृ॒थि॒वी वा अन्न᳚म्।
अन्नं बहु कुर्वीत तद् व्रतम् – This one would produce sufficient food as a vow. पृथिवी वै अन्नम् – Food is indeed pṛthivī (earth, a component of food).
आ॒का॒शो᳚ऽन्ना॒दः। पृ॒थि॒व्याम् आ॑का॒शः प्रति॑ष्ठितः। आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता। तद् ए॒तद् अन्न॒म् अन्ने॒ प्रति॑ष्ठितम्।
आकाशः अन्न-अदः – Space is the eater of food. पृथिव्याम् आकाशः प्रतिष्ठितः – Space is fixed in earth. आकाशे पृथिवी प्रतिष्ठिता – Earth is fixed in space. तद् एतद् अन्नम् अन्ने प्रतिष्ठितम् – Thus this food (as earth and as space, as mutually the eater and the eaten) here is fixed in food.
स य ए॒तद् अन्न॒म् अन्ने प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति।
सः यः एतद् अन्नम् अन्ने प्रतिष्ठितं वेद – The one who knows that this food here is fixed in food, प्रतितिष्ठति – is oneself well-fixed.
अन्न॑वान् अन्ना॒दो भ॑वति। म॒हान् भ॑वति। प्र॒जया॑ प॒शुभि॑र् ब्रह्म-वर्च॒सेन॑। म॒हान् की॒र्त्या॥
अन्नवान् अन्न-अदः भवति महान् भवति – (Again) one becomes great, gains and enjoys plenty of food, प्रजया पशुभिः – has good progeny and wealth, ब्रह्म-वर्चसेन – is brilliant in self-confidence, महान् कीर्त्या – with the far-reaching respect (of being a wise person).
TaitU.3.10
♬
❚❚
TaitU.3.10.1
न कंचन वसतौ प्रत्या॑चक्षी॒त। तद् व्र॒तम्। तस्माद् यया कया च विधया बह्व् अ॑न्नं प्रा॒प्नुयात्। अराध्य् अस्मा अन्नम् इ॑त्य् आच॒क्षते।
न कंचन वसतौ प्रत्याचक्षीत तद् व्रतम् – In regard to shelter, as a vow, one should not turn away anyone. तस्मात् यया कया च विधया – Therefore, in any way बहु अन्नं प्राप्नुयात् – one can acquire sufficient amount of food (for guests). अराधि अस्मै अन्नम् इति आचक्षते – They say, “Food has succeeded (is to be prepared) for such a person”.
एतद् वै मुखतो᳚ऽन्नग्ँ रा॒द्धम्। मुखतोऽस्मा अ॑न्नग्ँ रा॒ध्यते। एतद् वै मध्यतो᳚ऽन्नग्ँ रा॒द्धम्। मध्यतोऽस्मा अ॑न्नग्ँ रा॒ध्यते। एतद् वा अन्ततो᳚ऽन्नग्ँ रा॒द्धम्। अन्ततोऽस्मा अ॑न्नग्ँ रा॒ध्यते॥
एतद् वै मुखतः अन्नं राद्धम् – In the beginning (of life, or in the foremost manner), the food offered मुखतः अस्मै अन्नं राध्यते – is received in return. एतद् वै मध्यतः अन्नं राद्धम् – In the middle (of life, or in the middling manner), the food offered मध्यतः अस्मै अन्नं राध्यते – is received in return. एतद् वै अन्ततः अन्नं राद्धम् – In the end (of life, or in the least manner), the food offered अन्ततः अस्मै अन्नं राध्यते – is received in return.
TaitU.3.10.2
य ए॑वं वे॒द। क्षेम इ॑ति वा॒चि। योग-क्षेम इति प्रा॑णापा॒नयोः। कर्मे॑ति ह॒स्तयोः। गतिर् इ॑ति पा॒दयोः। विमुक्तिर् इ॑ति पा॒यौ। इति मानुषीः᳚ समा॒ज्ञाः।
क्षेमः इति वाचि – The one who knows in this way (यः एवं वेद), there is preservation in respect to speech. योग-क्षेमः इति प्राण-अपानयोः – There is acquiring and preservation in respect to breathing out and in. कर्म इति हस्तयोः – Karma is in one’s hands. गतिः इति पादयोः – Movement is there in one’s feet. विमुक्तिः इति पायौ – Evacuation is there in one’s anus. इति मानुषीः समाज्ञाः – These are the recognitions (the meditations, of brahman) in regard to the person.
अथ दै॒वीः। तृप्तिर् इ॑ति वृ॒ष्टौ। बलम् इ॑ति वि॒द्युति॥
अथ दैवीः – Now in regard to the deities (are the following meditations). तृप्तिः इति वृष्टौ – Satisfaction is there in the rains. बलम् इति विद्युति – Strength is there in the lightning.
TaitU.3.10.3
यश इ॑ति प॒शुषु। ज्योतिर् इति न॑क्षत्रे॒षु। प्रजातिर् अमृतम् आनन्द इ॑त्य् उप॒स्थे। सर्वम् इ॑त्य् आका॒शे।
यशस् इति पशुषु – (Brahman is to be recognized) as fame in livestock, ज्योतिः इति नक्षत्रेषु – as the light in the stars and planets, प्रजातिः अ-मृतम् – procreation and its continuity, आनन्दः इति उपस्थे – and the joy in the sexual organ, सर्वम् इति आकाशे – and all this in space.
तत् प्रतिष्ठेत्य् उ॑पासी॒त। प्रतिष्ठा॑वान् भ॒वति।
तन् मह इत्य् उ॑पासी॒त। म॑हान् भ॒वति।
तन् मन इत्य् उ॑पासी॒त। मान॑वान् भ॒वति॥
तद् प्रतिष्ठा इति उपासीत – One should meditate (upon brahman) as the support, प्रतिष्ठावान् भवति – then one has this support.
तद् मह इति उपासीत – On should meditate (upon brahman) as great, महान् भवति – then one becomes great.
तद् मनस् इति उपासीत – One should meditate (upon brahman) as one’s mind, मानवान् भवति – then one becomes mindful.
TaitU.3.10.4
तन् नम इत्य् उ॑पासी॒त। नम्यन्ते᳚ऽस्मै का॒माः।
तद् नमस् इति उपासीत – One should meditate (upon brahman) as prostration (namas), नम्यन्ते अस्मै कामाः – then desirables prostrate to this one.
तद् ब्रह्मेत्य् उ॑पासी॒त। ब्रह्म॑वान् भ॒वति। तद् ब्रह्मणः परिमर इत्य् उ॑पासी॒त। पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः। परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः।
तद् ब्रह्म इति उपासीत – One should meditate (upon the Lord) as the vast (brahman), ब्रह्मवान् भवति – then one becomes vast. तद् ब्रह्मणः परिमरः इति उपासीत – One should meditate (upon brahman) as brahman’s (power of) blowing away (removal), परि एणं म्रियन्ते द्विषन्तः स-पत्नाः – then whatever competing (distracting) thing one does not want gets blown away. परि ये अ-प्रियाः भ्रातृव्याः – Any unpleasant adversarial is blown away.
स यश् चा॑यं पु॒रुषे। यश् चासा॑व् आदि॒त्ये। स एकः॑॥
सः यः च अयं पुरुषे – The very one (the brahma-ātman) in a person (in this body), यः च असौ आदित्ये – and which is in the sun, सः एकः – is one only (not many ātmans).
TaitU.3.10.5
स य॑ एवं॒वित्। अस्माल् लो॑कात् प्रे॒त्य। एतम् अन्नमयम् आत्मानम् उप॑संक्र॒म्य।
सः यः एवं-विद् – The one who knows in this way, अस्मात् लोकात् प्रेत्य – having departed from this world, एतम् अन्नमयम् आत्मानम् उपसंक्रम्य – pervades (and transcends) (as the one reality of) this body consisting of food (anna),
एतं प्राणमयम् आत्मानम् उप॑संक्र॒म्य। एतं मनोमयम् आत्मानम् उप॑संक्र॒म्य। एतं विज्ञानमयम् आत्मानम् उप॑संक्र॒म्य। एतम् आनन्दमयम् आत्मानम् उप॑संक्र॒म्य।
एतं प्राणमयम् आत्मानम् उपसंक्रम्य – pervades this body consisting of energy (prāṇa), एतं मनोमयम् आत्मानम् उपसंक्रम्य – pervades this individual consisting of mind (manas), एतं विज्ञानमयम् आत्मानम् उपसंक्रम्य – pervades this body consisting of intellect (vijñāna), एतम् आनन्दमयम् आत्मानम् उपसंक्रम्य – and pervades this body consisting of joy (ānanda).
इमांल् लोकान् कामान्नी काम-रूप्य् अ॑नुसं॒चरन्।
एतत् साम गा॑यन्न् आ॒स्ते। हा३वु॒ हा३वु॒ हा३वु॑॥
इमान् लोकान् कामान्नी काम-रूपी अनुसंचरन् – This one moves around (in knowledge without travel) getting food at will, taking any form at will (in this world, as all forms of the Lord are ātman’s form).
एतद् साम गायन् आस्ते – Sitting, this one sings the song (sāman, i.e., happily declares), हा३वु हा३वु हा३वु – “Hā u, Hā u, Hā u,…”
TaitU.3.10.6
अ॒हम् अन्नम् अ॒हम् अन्नम् अ॒हम् अन्नम्।
अ॒हम् अन्ना॒दो२ऽ॒हम् अन्ना॒दो२ऽ॒हम् अन्ना॒दः।
अ॒हग्ँ श्लोक॒कृद् अ॒हग्ँ श्लोक॒कृद् अ॒हग्ँ श्लोक॒कृत्।
अहम् अन्नम् अहम् अन्नम् अहम् अन्नम् – “(As a wonder) I am food. I am food, I am food.
अहम् अन्न-अदः अहम् अन्न-अदः अहम् अन्न-अदः – I am the eater of food, I am the eater of food. I am the eater of food.
अहं श्लोक-कृत् अहं श्लोक-कृत् अहं श्लोक-कृत् – I am the composer. I am the composer. I am the composer.
अ॒हम् अस्मि प्रथमजा ऋता३स्य॒।
पूर्वं देवेभ्योऽमृतस्य ना३भा॒यि॒।
अहम् अस्मि प्रथम-जाः ऋता३स्य – I am the first born of this cosmic order (ṛta).
पूर्वं देवेभ्यः अ-मृतस्य ना३भायि – Before the gods, I am the navel (nābhi, source) of immortality.
यो मा ददाति स इद् एवमा३वाः॒।
अ॒हम् अन्न॒म् अन्न॑म् अ॒दन्त॒म् आ३द्मि॒।
यः मा ददाति – The one who gives me (as food), सः इद् एवम् आ३वाः – protects (āvāḥ) me as this (food).
अहम् अन्नम् – I am food. अन्नम् अदन्तम् आ३द्मि – (As food) I eat (admi) the one eating food.
अ॒हं विश्वं॒ भु॒व॑न॒म् अभ्य॑भ॒वा३म्।
सुव॒र्ण ज्योतीः᳚। य ए॒वं वेद॑।
अहं विश्वं भुवनम् अभ्यभवा३म् – I overcome the entire universe.
सुवर् न ज्योतीः यः एवं वेद – The one who know in this way, shines (as consciousness, an-antam jñānam), like (na) the sun”.
इत्य् उ॑प॒निष॑त्॥
इति उपनिषद् – This is the teaching (Upaniṣad).
Go to Top ('Home' key on many Windows browsers)
Madhu Kāṇḍa
Muni (or Yājñavalkya) Kāṇḍa
Khila Kāṇḍa
Bṛhad-Āraṇyaka प्रथमोऽध्यायः (१.)
BrhU.1.1
♬
❚❚
BrhU.1.1.1
ओम् उषा वा अश्वस्य मेध्यस्य शिरः। सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य।
ओम् उषाः वै अश्वस्य मेध्यस्य शिरः – Om. The head of the sacrificial horse is the dawn, सूर्यः चक्षुर् वातः प्राणः – its eye the sun, its vital force (Represented by the breath) the air, व्यात्तम् अग्निः वैश्वानरः – its open mouth the fire called Vaiśvā-nara, संवत्सरः आत्मा अश्वस्य मेध्यस्य – and the body (Ātman) of the sacrificial horse is the year.
द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि।
द्यौः पृष्ठम् अन्तर्-इक्षम् उदरं पृथिवी पाजस्यं – Its back is heaven, its belly the sky, its hoof the earth, दिशः पार्श्वे अवान्तर-दिशः पर्शवः – its sides the four quarters, its ribs the intermediate quarters, ऋतवः अङ्गानि – its members the seasons, मासाः च अर्ध-मासाः च पर्वाणि – its joints the months and fortnights, अहो-रात्राणि प्रतिष्ठाः – its feet the days and nights, नक्षत्राणि अस्थीनि नभस् मांसानि – its bones the stars and its flesh the clouds.
ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक्॥
ऊवध्यं सिकताः – Its half-digested food is the sand, सिन्धवः गुदाः – its blood-vessels the rivers, यकृत् च क्लोमानः च पर्वताः – its liver and spleen the mountains, ओषधयः च वनस्-पतयः च लोमानि – its hairs the herbs and trees. उद्यन् पूर्व-अर्धः निम्लोचन् जघन-अर्धः – Its forepart is the ascending sun, its hind part the descending sun, यद् विजृम्भते तद् विद्योतते – its yawning is lightning, यद् विधूनुते तद् स्तनयति – its shaking the body is thundering, यद् मेहति तद् वर्षति – its making water is raining, वाच् एव अस्य वाच् – and its neighing is voice.
♬
❚❚
BrhU.1.1.2
अहर्वा अश्वं पुरस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुः।
अहर् वै अश्वं पुरस्तात् महिमा अन्वजायत – The (gold) vessel called Mahiman in front of the horse, which appeared (Anvajāyata) about it (i.e. pointing it out), is the day. तस्य पूर्वे समुद्रे योनी – Its source is the eastern sea. रात्रिः एनं पश्चात् महिमा अन्वजायत – The (silver) vessel called Mahiman behind the horse, which appeared about it, is the night. तस्य अपरे समुद्रे योनिः – Its source is the western sea. एतौ वै अश्वं महिमानौ अभितः सम्बभूवतुः – These two vessels called Mahiman appeared on either side of the horse.
हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्समुद्र एवास्य बन्धुः समुद्रो योनिः॥
हयः भूत्वा देवान् अवहत् – As a Haya (horse) it carried the gods, वाजी गन्धर्वान् – as a Vājin (horse) the celestial minstrels, अर्वा असुरान् – as an Arvan (horse) the Asuras, अश्वः मनुष्यान् – and as an Aśva (horse) men. समुद्रः एव अस्य बन्धुः – The Supreme Self (or the sea) is its stable समुद्रः योनिः – and the Supreme Self its source.
BrhU.1.2
♬
❚❚
BrhU.1.2.1
नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति।
न एव इह किञ्चन अग्रे आसीत् – There was nothing whatsoever here in the beginning. मृत्युना एव इदम् आवृतम् आसीत् अशनायया – It was covered only by Death (Hiraṇya-garbha), or Hunger, अशनाया हि मृत्युः – for hunger is death. तद् मनस् अकुरुत आत्मन्वी स्याम् इति – He created the mind, thinking, ‘Let me have a mind (Ātmanvin)’.
[Creation: PancD.1.28 Comment; BrSEng.1.3.1 L.20–30]
सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद॥
सः अर्चन् अचरत् – He moved about worshiping (himself). तस्य अर्चतः आपः अजायन्त – As he was worshiping, water was produced. अर्चते वै मे कम् अभूत् इति – (Since he thought), ‘As I was worshiping, water (Kam) sprang up’, तद् एव अर्कस्य अर्कत्वम् – therefore Arka (fire) is so called. कं ह वै अस्मै भवति यः एवम् एतद् अर्कस्य अर्कत्वं वेद – Water (or happiness) surely comes to one who knows how Arka (fire) came to have this name of Arka.
♬
❚❚
BrhU.1.2.2
आपो वा अर्कस्तद्यदपां शर आसीत्तत्समहन्यत। सा पृथिव्यभवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः॥
आपः वै अर्कः – Water is Arka. तद् यद् अपां शरः आसीत् – What was there (like) froth on the water तद् समहन्यत – was solidified सा पृथिवी अभवत् – and became this earth. तस्याम् अश्राम्यत् – When that (was produced), he was tired. तस्य श्रान्तस्य तप्तस्य – While he was (thus) tired and distressed, तेजो-रसः निरवर्तत – his essence, or luster, came forth. अग्निः – This was Fire.
♬
❚❚
BrhU.1.2.3
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः।
सः त्रेधा आत्मानं व्यकुरुत – He (Virāj) differentiated himself in three ways, आदित्यं तृतीयं वायुं तृतीयम् – making the sun the third form, (fire the third form) and air the third form. सः एषः प्राणः त्रेधा विहितः – So this Prāṇa (Virāj) is divided in three ways.
तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ। अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्वचैति तदेव प्रतितिष्ठत्येवं विद्वान्॥
तस्य प्राची दिक् शिरः – His head is the east, असौ च असौ च इर्मौ – and his arms (Irmas) that (north-east) and that (south-east). अथ अस्य प्रतीची दिक् पुच्छम् – And his hind part is the west, असौ च असौ च सक्थ्यौ – his hip-bones that (north-west) and that (south-west), दक्षिणा च उदीची च पार्श्वे – his sides the south and north, द्यौः पृष्ठम् – his back heaven, अन्तर्-इक्षम् उदरम् – his belly the sky, इयम् उरस् – and his breast this (earth). सः एषः अप्सु प्रतिष्ठितः – He rests on water. एवं विद्वान् – He who knows (it) thus यत्र क्व च एति तद् एव प्रतितिष्ठति – gets a resting place wherever he goes.
♬
❚❚
BrhU.1.2.4
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनाया मृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत्।
सः अकामयत द्वितीयः मे आत्मा जायेत इति – He desired, ‘Let me have a second form (Ātman)’. सः मनसा वाचं मिथुनं समभवत् अशनाया मृत्युः – He, Death or Hunger, brought about the union of speech (Vedas) with the mind. तद् यद् एद् रेतस् आसीत् सः संवत्सरः अभवत् – What was the seed there became the Year (Virāj).
न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः। यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत। तं जातमभिव्याददात्स भाणकरोत्सैव वागभवत॥
न ह पुरा ततः संवत्सरः आस – Before him there had been no year. तम् एतावन्तं कालम् अबिभः यावान् संवत्सरः – He (Death) reared him for as long as that (year), तम् एतावतः कालस्य परस्तात् असृजत – and after this period projected him. तं जातम् अभिव्याददात् – When he was born, (Death) opened his mouth (to swallow him). सः भाण् अकरोत् – He (the babe) cried ‘Bhāṇ’! सा एव वाक् अभवत – That became speech.
♬
❚❚
BrhU.1.2.5
स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दांसि यज्ञान्प्रजाः पशून्।
सः ऐक्षत – He, thought, यदि वै इमम् अभिमंस्ये – ‘If I kill him. कनीयः अन्नं करिष्ये इति – I shall be making very little food’. तया वाचा तेन आत्मना इदं सर्वम् असृजत – Through that speech and the mind he projected all this, यद् इदं किञ्च ऋ्चः यजूंषि सामानि – whatever there is – the Vedas Ṛc, Yajus and Sāman, छन्दांसि यज्ञान् प्रजाः पशून् – the metres, the sacrifices, men and animals.
स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद॥
सः यद् यद् एव असृजत – Whatever he projected, तद् तद् अत्तुम् अध्रियत – he resolved to eat. सर्वं वै अत्ति इति – Because he eats everything, तद् अ-दितेः अ-दितित्वं – therefore A-diti (Death) is so called. यः एवम् एतद् अ-दितेः अ-दितित्वं वेद – He who knows how A-diti came to have this name of A-diti, सर्वस्य एतस्य अत्ता भवति सर्वम् अस्य अन्नं भवति – becomes the eater of all this, and everything becomes his food.
♬
❚❚
BrhU.1.2.6
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति। सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्। प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत्॥
सः अकामयत – He desired, भूयसा यज्ञेन भूयः यजेय इति – ‘Let me sacrifice again with the great sacrifice’. सः अश्राम्यत् – He was tired सः तपस् अतप्यत – and distressed, तस्य श्रान्तस्य तप्तस्य यशस् वीर्यम् उदक्रामत् – his reputation and strength departed. प्राणाः वै यशस् वीर्यंम् – The organs are reputation and strength. तद् प्राणेषु उत्क्रान्तेषु शरीरं श्वयितुम् अध्रियत – When the organs departed, the body began to swell, तस्य शरीरे एव मनस् आसीत् – (but) his mind was set on the body.
♬
❚❚
BrhU.1.2.7
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति। ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम्।
सः अकामयत – He desired, मेध्यं मे इदं स्यात् – ‘Let this body of mine be fit for a sacrifice, आत्मन्वी अनेन स्याम् इति – and let me be embodied through this,’ (and entered it). ततः अश्वः समभवत् यद् अश्वत् – Because that body swelled (Aśvat) therefore it came to be called Aśva (horse) (Aśvat), तद् मेध्यम् अभूत् – And because it became fit for a sacrifice, इति तद् एव अश्व-मेधस्य अश्व-मेधत्वम् – therefore the horse sacrifice came to be known as Aśva-medha.
एष ह वा अश्वमेधं वेद य एनमेवं वेद। तमनवरुध्यैवामन्यत। तं संवत्सरस्य परस्तादात्मन आलभत। पशून्देवताभ्यः प्रत्यौहत्।
एषः ह वै अश्व-मेधं वेद यः एनम् एवं वेद – He who knows it thus indeed knows the horse sacrifice. तम् अन्-अवरुध्य एव अमन्यत – Letting it remain free, he reflected (on it). तं संवत्सरस्य परस्तात् आत्मने आलभत – After a year he sacrificed it to himself, पशून् देवताभ्यः प्रत्यौहत् – and dispatched the (other) animals to the gods.
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते। एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ।
तस्मात् सर्व-देवत्यं प्रोक्षितं प्राजा-पत्यम् आलभन्ते – Therefore (priests to this day) sacrifice to Prajā-pati the sanctified (horse) that is dedicated to all the gods. एषः ह वै अश्व-मेधः यः एषः तपति – He who shines yonder is the horse sacrifice; तस्य संवत्सरः आत्मा – his body is the year. अयम् अग्निः अर्कः – This fire is Arka; तस्य इमे लोकाः आत्मानः – its limbs are these worlds. तौ एतौ अर्क-अश्व-मेधौ – So these two (fire and the sun) are Arka and the horse sacrifice.
सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति॥
सा उ पुनः एका एव देवता भवति मृत्युः एव – These two again become the same god, Death. अप पुनर्-मृत्युं जयति – He (who knows thus) conquers further death, न एनं मृत्युः आप्नोति – death cannot overtake him, मृत्युः अस्य आत्मा भवति – it becomes his self, एतासां देवतानाम् एकः भवति – and he becomes one with these deities.
BrhU.1.3
♬
❚❚
BrhU.1.3.1
द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति॥
द्वयाः ह प्राजा-पत्याः – There were two classes of Prajā-patis’ sons, देवाः च असुराः च – the gods and the asuras (demons). ततः कानीयसाः एव देवाः – Naturally (Lit. ‘therefore’), the gods were fewer, ज्यायसाः असुराः – and the asuras more in number. ते एषु लोकेषु अस्पर्धन्त – They vied with each other for (the mastery of) these worlds. ते ह देवाः ऊचुः – The gods said, हन्त असुरान् यज्ञे उद्गीथेन अत्ययाम इति – ‘Now let us surpass the asuras in (this) sacrifice through the Udgītha.’.
♬
❚❚
BrhU.1.3.2
ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत्। यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मने।
ते ह वाचम् ऊचुः – They said to the organ (the deity) of speech, त्वं नः उद्गाय इति – ‘Chant (the Udgītha) for us’.
तथा इति तेभ्यः वाक् उदगायत् – ‘All right,’ said the organ of speech and chanted for them. यः वाचि भोगः तं देवेभ्यः आगायत् – The common good that comes of the organ of speech, it secured for the gods by chanting, यद् कल्याणं वदति तद् आत्मने – while the fine speaking it utilized for itself.
ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा॥
ते विदुः अनेन वै नः उद्गात्रा अत्येष्यन्ति इति – The asuras knew that through this chanter (the gods) would surpass them. तम् अभिद्रुत्य पाप्मना अविध्यन् – They charged it and struck it with evil. सः यः सः पाप्मा यद् एव इदम् अ-प्रतिरूपं वदति – That evil (back then) is what we come across (now) when one speaks improper things. सः एव सः पाप्मा – This alone is that very evil.
♬
❚❚
BrhU.1.3.3
अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत्कल्याणं जिघ्रति तदात्मने।
ते ह प्राणम् ऊचुः – They said to the nose, त्वं नः उद्गाय इति – ‘Chant (the Udgītha) for us’.
तथा इति तेभ्यः प्राणम् उदगायत् – All right,’ said the nose and chanted for them. यः प्राणे भोगः तं देवेभ्यः आगायत् – The common good that comes of the nose, it secured for the gods by chanting, यद् कल्याणं जिघ्रति तद् आत्मने – while the fine smelling it utilized for itself.
ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा॥
ते विदुः अनेन वै नः उद्गात्रा अत्येष्यन्ति इति – The asuras knew that through this chanter (the gods) would surpass them. तम् अभिद्रुत्य पाप्मना अविध्यन् – They charged it and struck it with evil. सः यः सः पाप्मा यद् एव इदम् अ-प्रतिरूपं जिघ्रति – That evil (back then) is what we come across (now) when one smells improper things. सः एव सः पाप्मा – This alone is that very evil.
BrhU.1.3.4
अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायत्। यश्चक्षुषि भोगस्तं वेदेभ्य आगायद्यत्कल्याणं पश्यति तदात्मने।
अथ ह चक्षुस् ऊचुः – Then they said to the eye, त्वं न उद्गाय इति – ‘Chant (the Udgītha) for us’.
तथा इति तेभ्यः चक्षुस् उदगायत् – ‘All right,’ said the eye and chanted for them. यः चक्षुषि भोगः तं देवेभ्यः आगायत् – The common good that comes of the eye, it secured for the gods by chanting, यद् कल्याणं पश्यति तद् आत्मने – while the fine seeing it utilized for itself.
ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा॥
ते विदुः अनेन वै न उद्गात्रा अत्येष्यन्ति इति – The asuras knew that through this chanter the gods would surpass them. तम् अभिद्रुत्य पाप्मना अविध्यन् – They charged it and struck it with evil. सः यः सः पाप्मा यद् एव इदम् अ-प्रतिरूपं पश्यति – That evil (back then) is what we come across (now) when one sees improper things. सः एव सः पाप्मा – This alone is that very evil.
BrhU.1.3.5
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति तथेति तेभ्यः श्रोत्रमुदगायद्यः श्रोत्रे भोगस्तं देवेभ्य आगायद्यत्कल्याणं शृणोति तदात्मने।
अथ ह श्रोत्रम् ऊचुः – Then they said to the ear, त्वं न उद्गाय इति – ‘Chant (the Udgītha) for us’.
तथा इति तेभ्यः श्रोत्रम् उदगायत् – ‘All right,’ said the ear and chanted for them. यः श्रोत्रे भोगः तं देवेभ्यः आगायत् – The common good that comes of the ear, it secured for the gods by chanting, यद् कल्याणं शृणोति तद् आत्मने – while the fine hearing it utilized for itself.
ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा॥
ते विदुः अनेन वै न उद्गात्रा अत्येष्यन्ति इति – The asuras knew that through this chanter the gods would surpass them. तम् अभिद्रुत्य पाप्मना अविध्यन् – They charged it and struck it with evil. सः यः सः पाप्मा यद् एव इदम् अ-प्रतिरूपं शृणोति – That evil (back then) is what we come across (now) when one hears improper things. सः एव सः पाप्मा – This alone is that very evil.
BrhU.1.3.6
अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत्कल्याणं सङ्कल्पयति तदात्मने।
अथ ह मनस् ऊचुः – Then they said to the mind, त्वं न उद्गाय इति – ‘Chant (the Udgītha) for us’.
तथा इति तेभ्यः मनस् उदगायत् – ‘All right,’ said the mind and chanted for them. यः मनसि भोगः तं देवेभ्यः आगायत् – The common good that comes of the mind, it secured for the gods by chanting, यद् कल्याणं सङ्कल्पयति तद् आत्मने – while the fine thinking it utilized for itself.
ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन्॥
ते विदुः अनेन वै न उद्गात्रा अत्येष्यन्ति इति – The asuras knew that through this chanter the gods would surpass them. तम् अभिद्रुत्य पाप्मना अविध्यन् – They charged it and struck it with evil. सः यः सः पाप्मा यद् एव इदम् अ-प्रतिरूपं सङ्कल्पयति – That evil (back then) is what we come across (now) when one thinks improper things. सः एव सः पाप्मा – This alone is that very evil. एवम् उ खलु एताः देवताः पाप्मभिः उपासृजन् – Likewise they also touched these (other) deities with evil — एवम् एनाः पाप्मना अविध्यन् – struck them with evil.
♬
❚❚
BrhU.1.3.7
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविव्यत्सन्
अथ ह इमम् आसन्यं प्राणम् ऊचुः – Then they said to the vital force in the mouth, त्वं नः उद्गाय इति – ‘Chant (the Udgītha) for us’.
तथा इति तेभ्यः एषः प्राणः उदगायत् – ‘All right,’ said the vital force and chanted for them. ते विदुः अनेन वै नः उद्गात्रा अत्येष्यन्ति इति – The asuras knew that through this chanter the gods would surpass them. तम् अभिद्रुत्य पाप्मना अविव्यत्सन् – They charged it and wanted to strike it with evil.
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद॥
सः यथा अश्मानम् ऋत्वा लोष्टः विध्वंसेत – But as a clod of earth, striking against a rock, is shattered, एवं ह एव विध्वंसमानाः – so were they shattered, विष्वञ्चः विनेशुः – flung in all directions, and perished. ततः देवाः अभवन् – Therefore the gods became (fire etc.), परा आसुराः भवति – and the asuras were crushed (Parā-bhavati). यः एवं वेद He who knows thus आत्मना – becomes his true self, परा अस्य द्विषन् भ्रातृव्यः भवति – and his envious kinsman is crushed.
♬
❚❚
BrhU.1.3.8
ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः॥
ते ह ऊचुः – They said, क्व नु सः अभूत् यः नः इत्थम् असक्त इति – ‘Where was he who has thus restored us (to our divinity)’? अयम् आस्ये अन्तर् इति – (and discovered): ‘Here he is within the mouth’. सः अ-यास्यः आङ्गि-रसः – The vital force is called A-yāsya Āṅgi-rasa, अङ्गानां हि रसः – for it is the essence of the members (of the body).
♬
❚❚
BrhU.1.3.9
सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद॥
सा वा एषा देवता दूर्-नाम – This deity is called Dūr, दूरं हि अस्याः मृत्युः – because death is far from it. दूरं ह वै अस्मात् मृत्युः भवति यः एवं वेद – Death is far from one who knows thus.
♬
❚❚
BrhU.1.3.10
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति॥
सा वा एषा देवता एतासां देवतानां पाप्मानं मृत्युम् अपहत्य – This deity took away death, the evil of these gods, यत्र आसां दिशाम् अन्तः तद् गमयाञ्-चकार – and carried it to where these quarters end. तद् आसां पाप्मनः विन्यदधात् – There it left their evils. तस्मात् न जनम् इयात् न अन्तम् इयात् – Therefore one should not approach a person (of that region), nor go to that region beyond the border, नेद् पाप्मानं मृत्युम् अन्ववायानि इति – lest (Na-id) one imbibe that evil, death.
♬
❚❚
BrhU.1.3.11
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत्॥
सा वा एषा देवता एतासां देवतानां पाप्मानं मृत्युम् अपहत्य – This deity after taking away death, the evil of these gods, अथ एनाः मृत्युम् अत्यवहत् – next carried them beyond death.
♬
❚❚
BrhU.1.3.12
स वै वाचमेव प्रथमामत्यवहत्; सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते॥
सः वै वाचम् एव प्रथमाम् अत्यवहत् – It carried the organ of speech, the foremost one, first; सा यदा मृत्युम् अत्यमुच्यत – When the organ of speech got rid of death, सः अग्निः अभवत् – it became fire. सः अयम् अग्निः परेण मृत्युम् – That fire, having transcended death, अतिक्रान्तः दीप्यते – shines beyond its reach.
♬
❚❚
BrhU.1.3.13
अथ प्राणमत्यवहत्; स यदा मृत्युमत्यमुच्यत स वायुरभवत्; सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते॥
अथ प्राणम् अत्यवहत् – Then it carried the nose. सः यदा मृत्युम् अत्यमुच्यत – When it got rid of death, सः वायुः अभवत् – it became air. सः अयं वायुः परेण मृत्युम् – That air, having transcended death, अतिक्रान्तः पवते – blows beyond its reach.
♬
❚❚
BrhU.1.3.14
अथ चक्षुरत्यवहत्, तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्; सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति॥
अथ चक्षुः अत्यवहत् – Then it carried the eye. तद् यदा मृत्युम् अत्यमुच्यत – When the eye got rid of death, सः आदित्यः अभवत् – it became the sun. सः असौ आदित्यः परेण मृत्युम् – That sun, having transcended death, अतिक्रान्तः तपति – shines beyond its reach.
♬
❚❚
BrhU.1.3.15
अथ श्रोत्रमत्यवहत्, तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवंस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः॥
अथ श्रोत्रम् अत्यवहत् – Then it carried the ear. तद् यदा मृत्युम् अत्यमुच्यत – When the ear got rid of death, ताः दिशः अभवन् – it became the quarters. ताः इमाः दिशः परेण मृत्युम् – Those quarters, having transcended death, अतिक्रान्ताः – remain beyond its reach.
♬
❚❚
BrhU.1.3.16
अथ मनोऽत्यवहत्, तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्; सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद॥
अथ मनस् अत्यवहत् – Then it carried the mind. तद् यदा मृत्युम् अत्यमुच्यत – When the mind got rid of death, सः चन्द्रमा अभवत् – it became the moon. सः असौ चन्द्रः परेण मृत्युम् – That moon, having transcended death, अतिक्रान्तः भाति – shines beyond its reach. एवं ह वै एनम् एषा देवता मृत्युम् अतिवहति यः एवं वेद – So does this deity carry one who knows thus beyond death.
♬
❚❚
BrhU.1.3.17
अथात्मनेऽन्नाद्यमागायद्यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति॥
अथ आत्मने अन्न-अद्यम् आगायत् – Next it secured eatable food for itself by chanting, यद् हि किञ्च अन्नम् अद्यते – for whatever food is eaten, अनेन एव तद् अद्यते – is eaten by the vital force (Prāṇa) alone, इह प्रतितिष्ठति – and it rests on that.
♬
❚❚
BrhU.1.3.18
ते देवा अब्रुवन्नेतावद्वा इदं सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माभिसंविशतेति तथेति तं समन्तं परिण्यविशन्त।
ते देवाः अब्रुवन् – The gods said, एतावद् वै इदम् – ‘Whatever (food) there is, is just this much, सर्वं यद् अन्नं तद् आत्मने आगासीः – and you have secured it all for yourself by chanting. अनु नः अस्मिन् अन्ने आभजस्व इति – Now let us have a share in this food’.
ते वै मा अभिसंविशत इति – ‘Then sit around facing me,’ (said the vital force).
तथा इति तं समन्तं परि-ण्यविशन्त – ‘All right,’ (said the gods and) sat down around it.
तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद
तस्मात् यद् अनेन अन्नम् अत्ति तेन एताः तृप्यन्ति – Hence whatever food one eats through the vital force satisfies these (deities). एवं ह वै एनं स्वाः अभिसंविशन्ति यः एवं वेद – So do his relatives sit around facing him who knows thus, भर्ता स्वानाम् – and he becomes their support, श्रेष्ठः पुरः एताः भवति – the greatest among them and their leader, अन्न-अदः अधिपतिः – a good eater of food and the ruler of them.
य उ हैवंविदं स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति॥
यः उ ह एवं-विदं स्वेषु प्रति प्रतिः बुभूषति – That one among his relatives who desires to rival a man of such knowledge न ह एव अलं भार्येभ्यः भवति – is powerless to support his dependents. अथ यः एव एतम् अनु भवति – But one who follows him, यः वा एतम् अनु भार्यान् बुभूर्षति – or desires to maintain one’s dependents being under him, सः ह एव अलं भार्येभ्यः भवति – is alone capable of supporting them.
♬
❚❚
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः॥
सः अयास्यः आङ्गि-रसः अङ्गानां हि रसः – It is called Ayāsya Āṅgirasa, for it is the essence of the members (of the body). प्राणः वै अङ्गानां रसः – The vital force is indeed the essence of the members. प्राणः हि वै अङ्गानां रसः तस्मात् – Of course it is their essence. यस्मात् कस्मात् च अङ्गात् प्राणः उत्क्रामति – (For instance), from whichever member the vital force departs, तद् एव तद् शुष्यति – right there it withers. एषः हि वै अङ्गानां रसः – Therefore this is of course the essence of the members.
♬
❚❚
BrhU.1.3.20
एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः॥
एषः उ एव बृहस्-पतिः – This alone is also Bṛhas-pati (lord of the Ṛc). वाक् वै बृहती – Speech is indeed Bṛhatī (Ṛc) तस्या एषः पतिः – and this is its lord. तस्मात् उ बृहस्-पतिः – Therefore this is also Bṛhas-pati.
♬
❚❚
BrhU.1.3.21
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः॥
एषः उ एव ब्रह्मणस्-पतिः – This alone is also Brahmaṇas-pati (lord of the Yajus). वाक् वै ब्रह्म – Speech is indeed Brahman (Yajus), तस्या एषः पतिः – and this is its lord. तस्मात् उ ब्रह्मणस्-पतिः – Therefore this is also Brahmaṇas-pati.
♬
❚❚
BrhU.1.3.22
एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम्। यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद॥
एषः उ एव साम – This alone is also Sāman. वाक् वै सा – Speech is indeed Sā (everything feminine), अमः एषः – and this is Ama (everything masculine). सा च अमः च इति – Because it is Sā (speech) and Ama (vital force), तद् साम्नः सामत्वम् – therefore Sāman is so called. यद् उ एव समः प्लुषिणा – Or because it is equal to a white ant, समः मशकेन – equal to a mosquito, समः नागेन – equal to an elephant, समः एभिः त्रिभिः लोकैः – equal to these three worlds, समः अनेन सर्वेण – equal to this universe, तस्मात् उ एव साम – therefore this is also Sāman. यः एवम् एतद् साम वेद – He who knows this Sāman (vital force) to be such अश्नुते साम्नः सा-युज्यम् – attains union with it, स-लोकताम् – or lives in the same world as it.
♬
❚❚
BrhU.1.3.23
एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः॥
एषः उ वै उद्-गीथः – This indeed is also Ud-gītha. प्राणः वै उद् – The vital force is indeed Ud, प्राणेन हि इदं सर्वम् उत्-तब्धम् – for all this is held aloft by the vital force, वाक् एव गीथा – and speech alone is Gīthā. उत् च गीथा च इति सः उद्गीथः – This is Udgītha, because it is Ud and Gīthā.
♬
❚❚
BrhU.1.3.24
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति॥
तद् ह अपि – Regarding this (there is) also (a story): ब्रह्म-दत्तः चैकितानेयः राजानं भक्षयन् उवाच – Brahma-datta, the great-grandson of Cikitāna, while drinking Rājan (Soma), said, अयं त्यस्य राजा मूर्धानं विपातयतात् – ‘Let this Soma strike off my head यद् इतः अ-यास्य आङ्गि-रसः अन्येन उदगायत् इति – if I say that A-yāsya Āṅgi-rasa chanted the Udgītha through any other than this (vital force and speech)’. वाचा च हि एव सः प्राणेन च उदगायत् इति – Indeed he chanted through speech and the vital force.
♬
❚❚
BrhU.1.3.25
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात्
तस्य ह एतस्य साम्नः यः स्वं वेद – He who knows the wealth of this Sāman (vital force) भवति ह अस्य स्वं – attains wealth. तस्य वै स्वरः एव स्वं – Tone is indeed its wealth. तस्मात् आर्त्विज्यं करिष्यन् – Therefore one who is going to officiate as a priest वाचि स्वरम् इच्छेत – should desire to have a rich tone in his voice, तया वाचा स्वर-सम्पन्नया आर्त्विज्यं कुर्यात् – and he should do his priestly duties through that voice with a fine tone.
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव। अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद॥
तस्मात् यज्ञे स्वरवन्तं दिदृक्षन्ते एव – Therefore in a sacrifice people long to see a priest with a good voice, अथ उ यस्य स्वं भवति – like one who has wealth. यः एवम् एतद् साम्नः स्वं वेद – He who knows the wealth of Sāman to be such भवति ह अस्य स्वम् – attains wealth.
♬
❚❚
BrhU.1.3.26
तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद॥
तस्य ह एतस्य साम्नः यः सुवर्णं वेद – He who knows the gold of this Sāman (vital force) भवति ह अस्य सुवर्णम् – obtains gold. तस्य वै स्वरः एव सु-वर्णम् – Tone is indeed its gold. यः एवम् एतद् साम्नः सुवर्णं वेद – He who knows the gold of Sāman to be such भवति ह अस्य सुवर्णम् – obtains gold.
♬
❚❚
BrhU.1.3.27
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः॥
तस्य ह एतस्य साम्नः यः प्रतिष्ठां वेद – He who knows the support of this Sāman (vital force) प्रति ह तिष्ठति – gets a resting place (Prati-tiṣṭhati). तस्य वै वाक् एव प्रतिष्ठा – Speech (certain parts of the body) is indeed its support. वाचि हि खलु एषः एतद् प्राणः प्रतिष्ठितः गीयते – For resting on speech is the vital force thus chanted. अन्ने इति उ ह एके आहुः – Some say, resting on food (body).
♬
❚❚
BrhU.1.3.28
अथातः पवमानानामेवाभ्यारोहः स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत्।
अथ अतः पवमानानाम् एव अभ्यारोहः – Now therefore the edifying repetition (Abhyāroha) only of the hymns called Pavamānas. सः वै खलु प्रस्तोता साम प्रस्तौति – The priest called Prastotṛ indeed recites the Sāman. सः यत्र प्रस्तुयात् तद् – While he recites it, एतानि जपेत् – these Mantras are to be repeated:
असतो मा सद्गमय
तमसो मा ज्योतिर्गमय
मृत्योर्मामृतं गमयेति।
● अ-सतः मा सद् गमय – ‘From evil lead me to good.
● तमसः मा ज्योतिर् गमय – From darkness lead me to light.
● मृत्योः मा अ-मृतं गमय इति – From death lead me to immortality’.
स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह
सः यद् आह – When the Mantra says, अ-सतः मा सद् गमय इति – ‘From evil lead me to good’, मृत्युः वै अ-सद् – ‘evil’ means death, सद् अ-मृतम् – and ‘good’ immortality; इति एव एतद् आह – so it says, मृत्योः मा अ-मृतं गमय – ‘From death lead me to immortality, अ-मृतं मा कुरु – i.e. make me immortal’.
तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्ति।
तमसः मा ज्योतिर् गमय इति – When it says, ‘From darkness lead me to light’, मृत्युः वै तमस् – ‘darkness’ means death, ज्योतिः अ-मृतम् – and ‘light,’ immortality; इति एव एतद् आह – so it says, मृत्योः मा अ-मृतं गमय – From death lead me to immortality, अ-मृतं मा कुरु – or make me immortal’. मृत्योः म अ-मृतं गमय इति – In the dictum, ‘From death lead me to immortality’, न अत्र तिरोहितम् इव अस्ति – the meaning does not seem to be hidden.
अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरं वृणीत यं कामं कामयेत तं स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति
अथ यानि इतराणि स्तोत्राणि तेषु – Then through the remaining hymns आत्मने अन्न-अद्यम् आगायेत् – (the chanter) should secure eatable food for himself by chanting. तस्मात् उ तेषु – Therefore, while they are being chanted, वरं वृणीत – the sacrificer should ask for a boon — यं कामं कामयेत तं – anything that he desires. सः एषः एवं-विद् उद्गाता – Whatever (objects) this chanter possessed of such knowledge आत्मने वा यजमानाय वा यं कामं कामयते – desires, either for himself or for the sacrificer, तम् आगायति – he secures them (by chanting).
तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद॥
तद् हि एतद् लोक-जित् एव – This (meditation) certainly wins the world (Hiraṇya-garbha). यः एवम् एतद् साम वेद – He who knows the Sāman (vital force) as such न ह एव अ-लोक्यतायै आश अस्ति – has not to pray lest he be unfit for this world.
BrhU.1.4
♬
❚❚
BrhU.1.4.1
आत्मैवेदमग्र आसीत्पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्
आत्मा एव इदम् अग्रे आसीत् – In the beginning, this (universe) was but the self (Virāj) पुरुष-विधः – of a human form. सः अनुवीक्ष्य न अन्यद् आत्मनः अपश्यत् – He reflected and found nothing else but himself. सः अहम् अस्मि इति अग्रे व्याहरत् – He first uttered, ‘I (Aham) am he’. ततः अहम् नाम अभवत् – Therefore he was called Aham (I).
तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद॥
तस्मात् अपि एतर्हि आमन्त्रितः – Hence, to this day, when a person is addressed, अहम् अयम् इति एव अग्रे उक्त्वा – he first says, ‘It is I’, अथ अन्यद् नाम प्रब्रूते यद् अस्य भवति – and then says the other name that he may have. सः यद् पूर्वः – Because he was first (Pūr-va) अस्मात् सर्वस्मात् सर्वान् पाप्मनः औषत् – and before this whole (band of aspirants) burnt (Auṣat) all evils, तस्मात् पुरुषः – therefore he is called Pur-uṣa. यः एवं वेद – He who knows thus ओषति ह वै सः तं यः अस्मात् पूर्वः बुभूषति – indeed burns (Oṣati) one who wants to be (Virāj) before him.
♬
❚❚
BrhU.1.4.2
सोऽबिभेत्तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभेष्यद्द्वितीयाद्वै भयं भवति॥
सः अबिभेत् – He was afraid. तस्मात् एकाकी बिभेति – Therefore people (still) are afraid to be alone. सः ह अयम् ईक्षां-चक्रे – He thought, यद् मद् अन्यद् न अस्ति – ‘If there is nothing else but me, कस्मात् नु बिभेमि इति – what am I afraid of’? ततः एव अस्य भयं वीयाय – From that alone his fear was gone, कस्मात् हि अभेष्यत् – for what was there to fear? द्वितीयात् वै भयं भवति – It is from a second that fear comes.
♬
❚❚
BrhU.1.4.3
स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत्। स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधापातयत्ततः पतिश्च पत्नी चाभवतां
सः वै न एव रेमे – He was not at all happy. तस्मात् एकाकी न रमते – Therefore people (still) are not happy when alone. सः द्वितीयम् ऐच्छत् – He desired a mate. सः ह एतावान् आस यथा स्त्री-पुमांसौ – He became as big as man and wife सम्परिष्वक्तौ – embracing each other. सः इमम् एव आत्मानं द्वेधा अपातयत् – He parted this very body into two. ततः पतिः च पत्नी च अभवताम् – From that came husband and wife.
तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त॥
तस्मात् इदम् अर्ध-बृगलम् इव स्वः इति ह स्म आह याज्ञ-वल्क्यः – Therefore, said Yājña-valkya, this (body) is one-half of oneself like (one of the two halves of a split pea). तस्मात् अयम् आकाशः स्त्रिया पूर्यते एव – Therefore this space is indeed filled by the wife. तां समभवत् – He was united with her. ततः मनुष्याः अजायन्त – From that men were born.
♬
❚❚
BrhU.1.4.4
सो हेयमीक्षाञ्चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्तां समेवाभवत्ततो गावोऽजायन्त बडबेतराभवदश्ववृष इतरो…
सा उ ह इयम् ईक्षाञ्-चक्रे – She thought, कथं नु मा आत्मनः एव जनयित्वा सम्भवति – ‘How can he be united with me after producing me from himself? हन्त तिरस् असानि इति – Well, let me hide myself’. सा गौः अभवत् ऋषभः इतरः तां सम् एव अभवत् – She became a cow, the other became a bull and was united with her; ततः गावः अजायन्त – from that cows were born. बडबा इतरा अभवत् अश्व-वृष इतरः – The one became a mare (Baḍabā or vaḍavā), the other a stallion;
गर्दभीतरा गर्दभ इतरस्तां समेवाभवत्तत एकशफमजायताजेतराभवद्बस्त इतरोऽविरितरा मेष इतरस्तां समेवाभवत्ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत॥
गर्दभी इतरा गर्दभः इतरः तां सम् एव अभवत् – the one became a she-ass, the other became a he-ass and was united with her; ततः एक-शफम् अजायत – from that one-hoofed animals were born. अजा इतरा अभवत् बस्तः इतरः – The one became a she-goat, the other a he-goat; अविः इतरा मेषः इतरः तां सम् एव अभवत् – the one became a ewe, the other became a ram and was united with her; ततः अज-अवयः अजायन्त – from that goats and sheep were born. एवम् एव यद् इदं किञ्च मिथुनम् आ पिपीलिकाभ्यः तद् सर्वम् असृजत – Thus did he project everything that exists in pairs (Mithunas), down to the ants.
♬
❚❚
BrhU.1.4.5
सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्यां हास्यैतस्यां भवति य एवं वेद॥
सः अवेत् – He knew, अहं वाव सृष्टिः अस्मि – ‘I indeed am the creation, अहं हि इदं सर्वम् असृक्षि इति – for I projected all this’. ततः सृष्टिः अभवत् – Therefore he was called Creation. यः एवं वेद – He who knows this as such सृष्ट्यां ह अस्य एतस्यां भवति – becomes (a creator) in this creation (of Virāj).
♬
❚❚
BrhU.1.4.6
अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतः।
अथ इति अभ्यमन्थत् – Then he rubbed back and forth thus, सः मुखात् च योनेः हस्ताभ्यां च अग्निम् असृजत – and produced fire from its source, the mouth and the hands. तस्मात् एतद् उभयम् अ-लोमकम् अन्तरतः अ-लोमका हि योनिः अन्तरतः – Therefore both (mouth and hands) these are without hair at the inside, अ-लोमका हि योनिः अन्तरतः – because the (Yoni, the vagina) has no hair inside.
तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः।
तद् यद् इदम् आहुः – When they talk (of particular gods), saying, अमुं यज अमुं यज इति – ‘Sacrifice to him,’ ‘Sacrifice to the other one’, एक-एकं देवम् एतस्य एव सा विसृष्टिः – (they are wrong, since) these particular gods are all his projection, एषः उ हि एव सर्वे देवाः – for he is all the gods.
अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोमः
अथ यद् किञ्च इदम् आर्द्रं – Now all this that is liquid, तद् रेतसः असृजत – he produced from the seed. तद् उ सोमः – That is Soma.
एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः
एतावत् वै इदं सर्वम् – This universe is indeed this much अन्नं च एव अन्न-अदः च – food and the eater of food. सोमः एव अन्नम् अग्निः अन्न-अदः – Soma is food, and fire the eater of food.
सैषा ब्रह्मणोऽतिसृष्टिः। यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद॥
सा एषा ब्रह्मणः अति-सृष्टिः – This is the super-creation of Virāj (Brahman) यद् श्रेयसः देवान् असृजत – that he projected the gods, who are even superior to him. अथ यद् मर्त्यः सन् अ-मृतान् असृजत – Because he, although mortal himself, projected the immortals, तस्मात् अति-सृष्टिः – therefore this is a super-creation. अति-सृष्ट्यां ह अस्य एतस्यां भवति यः एवं वेद – He who knows this as such becomes (a creator) in this super-creation of Virāj.
♬
❚❚
BrhU.1.4.7
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः।
तद् ह इदं तर्हि अ-व्याकृतम् आसीत् – This (universe) was then undifferentiated. तद् नाम-रूपाभ्याम् एव व्याक्रियत – It differentiated only into name and form — असौ-नामा अयम् इदं-रूपः इति – it was called such and such, and was of such and such form. तद् इदम् अपि एतर्हि – So to this day नाम-रूपाभ्याम् एव व्याक्रियते – it is differentiated only into name and form — असौ-नामा अयम् इदं-रूप इति – it is called such and such, and is of such and such form. सः एषः इह प्रविष्टः – This Self has entered into these bodies…
आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति। अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति।
आ नख-अग्रेभ्यः – up to the tip of the (growing finger and toe) nails — यथा क्षुरः क्षुर-धाने अवहितः स्याद् – as a razor may (noticeably) be enclosed in (part of) its bag, विश्वम्-भरः वा विश्वम्-भर-कुलाये – or as fire (energy) which sustains the entire world is (unnoticeable) in any one of its dwellings (e.g. within wood). तं न पश्यन्ति – People do not see It. अ-कृत्स्नः हि – for (viewed in Its aspects) It is incomplete. सः प्राणन् एव – When It does the function of living, प्राणः नाम भवति – It is called the vital force;
वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव।
वदन् वाक् – when It speaks, the organ of speech; पश्यन् चक्षुस् – when It sees, the eye; शृण्वन् श्रोत्रम् – when It hears, the ear; मन्वानः मनस् – and when It thinks, the mind. तानि अस्य एतानि कर्म-नामानि एव – These are merely Its names according to functions.
स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति।
सः यः अतः एक-एकम् उपास्ते – He who meditates upon each one apart from this (totality of aspects) न सः वेद – does not know, अ-कृत्स्नः हि एषः – for It is incomplete, अतः एक-एकेन भवति – (being divided) from this totality by possessing a single characteristic. आत्मा इति एव उपासीत – The Self alone is to be meditated upon, अत्र हि एते सर्वे एकं भवन्ति – for all these are unified in It.
तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद। यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद॥
तद् एतद् पदनीयम् अस्य सर्वस्य यद् अयम् आत्मा – Of all these, this Self alone should be realized (Padanīya, found), अनेन हि एतद् सर्वं वेद – for one knows all these through It, यथा ह वै पदेन अनुविन्देत् एवम् – just as one may get (an animal) through its foot-prints. कीर्तिं श्लोकं विन्दते यः एवं वेद – He who knows It as such obtains fame and association (Śloka, with his relatives).
♬
❚❚
BrhU.1.4.8
तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा। स योऽन्यमात्मानः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत
तद् एतद् प्रेयः पुत्रात् – This Self is dearer than a son, वित्तात् प्रेयः अन्यस्मात् सर्वस्मात् – dearer than wealth, dearer than everything else, अन्तरतरं यद् अयम् आत्मा – and is innermost. सः यः अन्यम् आत्मानः प्रियं ब्रुवाणं ब्रूयात् – Should a person (holding the Self as dear) say to one calling anything else dearer than the Self, प्रियं रोत्स्यति इति – ‘(What you hold) dear will die’ — ईश्वरः ह तथा एव स्यात् – he is certainly competent (Īśvara, to say so) – it will indeed come true. आत्मानम् एव प्रियम् उपासीत – One should meditate upon the Self alone as dear.
स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति॥
सः यः आत्मानम् एव प्रियम् उपास्ते – Of him who meditates upon the Self alone as dear, न ह अस्य प्रियं प्रमायुकं भवति – the dear ones are not mortal (Pra-māy-uka, √mī to disappear).
♬
❚❚
BrhU.1.4.9
तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते। किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति॥
तद् आहुः यद् ब्रह्म-विद्यया सर्वं भविष्यन्तः मनुष्याः मन्यन्ते – They say: Men think, ‘Through the knowledge of Brahman we shall become all (infinite)’. यस्मात् तद् सर्वम् अभवत् इति – Well, what did that Brahman know (किम् उ तद् ब्रह्म अवेत्) by which It became all?
♬
❚❚
BrhU.1.4.10
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत्। अहं ब्रह्मास्मीति।
ब्रह्म वै इदम् अग्रे आसीत् – This (self) was indeed Brahman in the beginning. तद् आत्मानम् एव अवेत् – It knew only Itself अहं ब्रह्म अस्मि इति – as, ‘I am Brahman’.
तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति।
तस्मात् तद् सर्वम् अभवत् – Therefore It became all. तद् यः यः देवानां प्रत्यबुध्यत सः एव तद् अभवत् – And whoever among the gods knew It also became That; तथा ऋर्षीणां तथा मनुष्याणाम् – and the same with sages and men. तद् ह एतद् पश्यन् ऋषिः वाम-देवः प्रतिपेदे – The sage Vāma-deva, while realizing this (self) as That, knew, अहं मनुः अभवं सूर्यः च इति – ‘I was Manu, and the sun’.
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते। आत्मा ह्येषां स भवति
तद् इदम् अपि एतर्हि यः एवं वेद – And to this day whoever in like manner knows It अहं ब्रह्म अस्मि इति – as, ‘I am Brahman’, सः इदं सर्वं भवति – becomes all this (universe). तस्य ह न देवाः चना अभूत्यै ईशते – Even the gods cannot prevail against him, आत्मा हि एषां सः भवति – for he becomes their self.
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्।
अथ यः अन्यां देवताम् उपास्ते – While he who worships another god thinking, अन्यः असौ अन्यः अहम् अस्मि इति – ‘He is one, and I am another’, न सः वेद – does not know. यथा पशुः एवं सः देवानाम् – He is like an animal to the gods.
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः॥
यथा ह वै बहवः पशवः मनुष्यं भुञ्ज्युः – As many animals serve a man, एवम् एक-एकः पुरुषः देवान् भुनक्ति – so does each man serve the gods. एकस्मिन् एव पशौ आदीयमाने – Even if one animal is taken away, अ-प्रियं भवति – it causes anguish. किम् उ बहुषु – What should one say of many animals? तस्मात् एषां तद् न प्रियम् – Therefore it is not liked by them यद् एतद् मनुष्याः विद्युः – that men should know this.
♬
❚❚
BrhU.1.4.11
ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत्।
ब्रह्म वै इदम् अग्रे आसीत् – In the beginning this (the Kṣatriya and other castes) was indeed Brahman (Virāj in the form Fire, who was a Brāhmaṇa), एकम् एव – one only, तद् एकं सन् – Being one, न व्यभवत् – he did not flourish.
तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति।
तद् श्रेयो-रूपम् अति असृजत क्षत्रम् – He specially (Ati) projected an excellent form, the Kṣatriya — यानि एतानि देवत्रा क्षत्राणि – those who are Kṣatriyas among the gods: इन्द्रः वरुणः सोमः रुद्रः – Indra, Varuṇa, the moon, Rudra, पर्जन्यः यमः मृत्युः ईशानः इति – Parjanya, Yama, Death, and Īśāna.
तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्रह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म।
तस्मात् क्षत्रात् परं न अस्ति – Therefore there is none higher than the Kṣatriya. तस्मात् ब्रह्मणः क्षत्रियम् अधस्तात् उपास्ते राज-सूये – Hence the Brāhmaṇa worships the Kṣatriya from a lower position in the Rāja-sūya sacrifice. क्षत्रे एव तद् यशस् दधाति – He imparts that glory (the title of Brahman) to the Kṣatriya. सा एषा क्षत्रस्य योनिः यद् ब्रह्म – Brahman (the Brāhmaṇa under discussion) is the source of the Kṣatriya.
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान्भवति यथा श्रेयांसं हिंसित्वा॥
तस्मात् यदि अपि राजा परमतां गच्छति – Therefore, although the king attains supremacy (in the sacrifice), ब्रह्म एव अन्ततः उपनिश्रयति स्वां योनिम् – at the end of it he resorts to the Brāhmaṇa, his source. यः उ एनं हिनस्ति – He who slights the Brāhmaṇa, स्वां सः योनिम् ऋच्छति – strikes at his own source. सः पापीयान् भवति – He becomes more wicked, यथा श्रेयांसं हिंसित्वा – as one is by slighting one’s superior.
♬
❚❚
BrhU.1.4.12
स नैव व्यभवत्स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति॥
सः न एव व्यभवत् – Yet he did not flourish. सः विशम् असृजत – He projected the Vaiśya (entrepreneurs) — यानि एतानि देव-जातानि गणशः आख्यायन्ते – those species of gods who are designated in groups: वसवः रुद्राः आदित्याः विश्वे-देवाः मरुतः इति – The (8) Vasus, (11) Rudras, (12) Ādityas, (13) Viśva-devas and (49) Maruts.
♬
❚❚
BrhU.1.4.13
स नैव व्यभवत्स शौद्रं वर्णममृजत पूषणमियं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च॥
सः न एव व्यभवत् – He did not still flourish. सः शौद्रं वर्णम् अमृजत – He projected the Śūdra (worker) class — पूषणम् – Pūṣan (the one who nourishes). इयं वै पूषा – This (earth) is Pūṣan. इयं हि इदं सर्वं पुष्यति यद् इदं किञ्च – For it nourishes all this that exists.
♬
❚❚
BrhU.1.4.14
स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत्क्षत्रस्य क्षत्त्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो अबलीयान्बलीयांसमाशंसते धर्मेण यथा राज्ञैवं
सः न एव व्यभवत् – Yet he did not flourish. तद् श्रेयो-रूपम् अति असृजत धर्मम् – He specially projected that excellent form, righteousness (Dharma). तद् एतद् क्षत्रस्य क्षत्त्रं यद् धर्मः – This righteousness is the controller of the Kṣatriya. तस्मात् धर्मात् परं न अस्ति – Therefore there is nothing higher than that. अथ उ अ-बलीयान् बलीयांसम् आशंसते धर्मेण – (So) even a weak man hopes (to defeat) a stronger man through righteousness, यथा राज्ञा एवम् – as (one contending) with the king (or ‘As (one does) through the king’).
यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति॥
यः वै सः धर्मः सत्यं वै तद् – That righteousness is verily truth (Satya). तस्मात् सत्यं वदन्तम् आहुः – Therefore they say about a person speaking of truth, धर्मं वदति इति – ‘He speaks of righteousness’, धर्मं वा वदन्तं – or about a person speaking of righteousness, सत्यं वदति इति – ‘He speaks of truth’, एतद् हि एव एतद् उभयं भवति – for both these are but this righteousness.
♬
❚❚
BrhU.1.4.15
तदेतद्ब्रह्म क्षत्रं विट्शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्…
तद् एतद् ब्रह्म क्षत्रं विट् शूद्रः – (So) these (four classes projected) – the Brāhmaṇa, Kṣatriya, Vaiśya and Śūdra तद् अग्निना एव देवेषु ब्रह्म अभवत् ब्राह्मणः – He became a Brāhmaṇa among the gods as Fire. मनुष्येषु क्षत्रियेण क्षत्रियः – (He became) a Kṣatriya through the (divine) Kṣatriyas, वैश्येन वैश्यः – a Vaiśya through the (divine) Vaiśyas शूद्रेण शूद्रः – and a Śūdra through the (divine) Śūdra.
तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां हि रूपाभ्यां ब्रह्माभवत्।
तस्मात् अग्नौ एव देवेषु लोकम् इच्छन्ते – Therefore people desire to attain the results of their rites among the gods through fire, ब्राह्मणे मनुष्येषु – and among men as the Brāhmaṇa. एताभ्यां हि रूपाभ्यां ब्रह्म अभवत् – For Brahman was in these two forms.
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतं
अथ यः ह वै अस्मात् लोकात् स्वं लोकम् अ-दृष्ट्वा प्रैति – If, however, anybody departs from this world without realizing his own world (the Self), सः एनम् अ-विदितः न भुनक्ति – It, being unknown, does not protect him — यथा वेदः वा अन्-अनूक्तः अन्यद् वा कर्म अ-कृतम् – as the Vedas not studied, or any other work not undertaken (do not).
यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव…
यद् इह वै अपि अन्-एवंविद् महत् पुण्यं कर्म करोति – Even if a man who does not know It as such performs a great many meritorious acts in the world, तद् ह अस्य अन्ततः क्षीयत एव – those acts of his are surely exhausted in the end.
आत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते। अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते॥
आत्मानम् एव लोकम् उपासीत – One should meditate only upon the world of the Self. सः यः आत्मानम् एव लोकम् उपास्ते – He who meditates only upon the world called the Self न ह अस्य कर्म क्षीयते – never has his work exhausted. अस्मात् हि एव आत्मनः यद् यद् कामयते तद् तद् सृजते – From this very Self he projects whatever he wants.
♬
❚❚
BrhU.1.4.16
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः
अथ उ अयं वै आत्मा – Now this self (the ignorant man) सर्वेषां भूतानां लोकः – is an object of enjoyment to all beings.
स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृणाम्
सः यद् जुहोति यद् यजते – That he makes oblations in the fire and performs sacrifices तेन देवानां लोकः – is how he becomes such an object (Loka) to the gods. अथ यद् अनुब्रूते – That he studies (the Vedas) तेन ऋषीणाम् – is how he becomes (an object of enjoyment) to the Ṛṣis (sages). अथ यद् पितृभ्यः निपृणाति – That he makes offerings to the Manes यद् प्रजाम् इच्छते – and desires children तेन पितृणाम् – is how he becomes (such an object) to the Manes.
अथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्युभ्य उपजीवन्ति तेन तेषां लोको…
अथ यद् मनुष्यान् वासयते – That he gives shelter to men अयद् एभ्यः अशनं ददाति – as well as food तेन मनुष्याणाम् – is how he becomes (an object of enjoyment) to men. अथ यद् पशुभ्यः तृण-उदकं विन्दति – That he gives fodder and water to the animals अथ यद् पशुभ्यः तृण-उदकं विन्दति – is how he becomes (such an object) to them. यद् अस्य गृहेषु श्वा-पदाः वयांस्या पिपीलिकाभ्यः उपजीवन्ति – And that beasts, (with) birds and even the ants, feed in his homes तेन तेषां लोकः – is how he becomes an object of enjoyment (Loka) to these.
यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम्॥
यथा ह वै स्वाय लोकाय अ-रिष्टिम् इच्छेत् – Just as one wishes safety to one’s body, एवं ह एवं-विदे सर्वाणि भूतानि अ-रिष्टिम् इच्छन्ति – so do all beings wish safety to him who knows it as such. तद् वै एतद् विदितम् – This indeed has been known, मीमांसितम् – and discussed.
♬
❚❚
BrhU.1.4.17
आत्मैवेदमग्र आसीदेक एव
आत्मा एव इदम् अग्रे आसीत् – This (aggregate of desirable objects) was but the self in the beginning — एकः एव – the only entity.
सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छंश्चनातो भूयो विन्देत्
सः अकामयत – He desired, जाया मे स्याद् अथ प्रजायेय – ‘Let me have a wife, so that I may be born (as the child). अथ वित्तं मे स्याद् अथ कर्म कुर्वीय इति – And let me have wealth, so that I may perform rites’. एतावान् वै कामः – This much indeed is (the range of) desire. न इच्छन् चन अतः भूयः विन्देत् – Even (Cana) if one wishes, one cannot get more than this.
तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते
तस्मात् अपि एतर्हि एकाकी कामयते – Therefore to this day a man being single desires, जाया मे स्यात् – ‘Let me have a wife, अथ प्रजायेय – so that I may be born. अथ वित्तं मे स्यात् – And let me have wealth, अथ कर्म कुर्वीय इति – so that I may perform rites’. सः यावत् अपि एतेषाम् एक-एकं न प्राप्नोति – Until he obtains each one of these, अ-कृत्स्नः एव तावत् मन्यते – he considers himself incomplete.
तस्यो कृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं देवं श्रोत्रेण हि तच्छृणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति
तस्य उ कृत्स्नता – His completeness also (comes thus): मनस् एव अस्य आत्मा – The mind is his self, वाक् जाया – speech his wife, प्राणः प्रजा – the vital force his child, चक्षुः मानुषं वित्तं – the eye his human wealth, चक्षुषा हि तद् विन्दते – for he obtains it through the eye, श्रोत्रं देवम् – the ear his divine wealth, श्रोत्रेण हि तद् शृणोति – for he hears of it through the ear, आत्मा एव अस्य कर्म – and the body is its (instrument of) rite, आत्मना हि कर्म करोति – for he performs rites through the body.
स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद॥
सः एषः पाङ्क्तः यज्ञः – (So) this sacrifice has five factors (Pāṅkta, via mind, speech, vital force, eye and ear) पाङ्क्तः पशुः – the animals have five factors, पाङ्क्तः पुरुषः – the men have five factors, पाङ्क्तम् इदं सर्वं यद् इदं किञ्च – and all this that exists has five factors. तद् इदं सर्वम् आप्नोति यः एवं वेद – He who knows it as such attains all this.
BrhU.1.5
♬
❚❚
BrhU.1.5.1
यत्सप्तान्नानि मेधया तपसाजनयत्पिता।
एकमस्य साधारणं द्वे देवानभाजयत्॥
● यद् सप्त अन्नानि – In regard to the seven kinds of food, मेधया – by meditation
○ तपसा – and by ritual अजनयत् पिता – the father produced.
● एकम् अस्य साधारणम् – One is common to all (eaters).
○ द्वे देवान् अभाजयत् – Two he apportioned to the gods.
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्।
तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न॥
● त्रीणि आत्मने अकुरुत – Three he designed for himself.
○ पशुभ्यः एकं प्रायच्छत् – And one he gave to the animals.
● तस्मिन् सर्वं प्रतिष्ठितम् – On it (the latter) rests everything
○ — यद् च प्राणिति यद् च न – what lives and what does not.
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा।
यो वैतामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन॥
● कस्मात् तानि न क्षीयन्ते – Why are they not exhausted,
○ अद्यमानानि सर्वदा – although they are always being eaten?
● यः वै एताम् अ-क्षितिं वेद – He who knows (this cause of) their permanence,
○ सः अन्नम् अत्ति प्रतीकेन – eats food with pre-eminence.
स देवानपिगच्छति स ऊर्जमुपजीवति॥
इति श्लोकाः॥
● सः देवान् अपिगच्छति – He attains (identity with) the gods.
○ सः ऊर्जम् उपजीवति – and lives on nectar.
इति श्लोकाः – These are the verses.
♬
❚❚
BrhU.1.5.2
यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता।
यद् सप्त अन्नानि मेधया तपसा अजनयत् पिता इति – ‘That the father produced seven kinds of food through meditation and rites’ मेधया हि तपसा अजनयत् पिता – means that the father indeed produced them through meditation and rites.
एकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते। स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत्।
एकम् अस्य साधारणम् इति – ‘One is common to all eaters’ इदम् एव अस्य तद् साधारणम् अन्नं यद् इदम् अद्यते – means this food that is eaten is the common food of all eaters. सः य एतद् उपास्ते – He who adores (monopolises) this food न सः पाप्मनः व्यावर्तते – is never free from evil, मिश्रं हि एतद् – for this is general food.
द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात्।
द्वे देवान् अभाजयत् इति – ‘Two he apportioned to the gods हुतं च प्रहुतं च – means making oblations in the fire, and offering presents (Prahuta, otherwise). तस्मात् देवेभ्यः जुह्वति च प्र च जुह्वति – Therefore people perform both these to the gods. अथ उ आहुः दर्श-पूर्ण-मासौ इति – Some, however, say, those two are the new and full moon sacrifices. तस्मात् न इष्टि-याजुकः स्यात् – Therefore one should not be engrossed with sacrifices for material ends.
पशुभ्य एकं प्रायच्छदिति तत्पयः। पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति।
पशुभ्यः एकं प्रायच्छत् इति – ‘One he gave to the animals’ — तद् पयस् – it is milk. पयस् हि एव अग्रे मनुष्याः च पशवः च उपजीवन्ति – For men and (‘observably kept’ √dṛś, or ‘tethered’ pāśena) animals (Paśus) first live on milk alone. तस्मात् कुमारं जातं घृतं वै एव अग्रे प्रतिलेहयन्ति – Therefore they first make a new-born babe lick clarified butter स्तनं वै अनुधापयन्ति – or suckle it. अथ वत्सं जातम् आहुः अ-तृणात् इति – And they speak of a new-born calf as not yet eating grass.
तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न।
तस्मिन् सर्वं प्रतिष्ठितं यद् च प्राणिति यद् च न इति – ‘On it rests everything – what lives and what does not’ पयसि हि इदं सर्वं प्रतिष्ठितं यद् च प्राणिति यद् च न – means that on milk indeed rests all this that lives and that does not.
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान्सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति।
तद् यद् इदम् आहुः संवत्सरं पयसा जुह्वत् – It is said that by making offerings of milk in the fire for a year अप पुनर्-मृत्युं जयति इति – one conquers further death. न तथा विद्यात् – One should not think like that. यद् अहर् एव जुहोति तद् अहर् पुनर्-मृत्युम् उपजयति एवं विद्वान् – He who knows as above conquers further death the very day he makes that offering, सर्वं हि देवेभ्यः अन्न-अद्यं प्रयच्छति – for he offers all eatable food to the gods.
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते।
कस्मात् तानि न क्षीयन्ते – ‘Why are they not exhausted अद्यमानानि सर्वदा इति – although they are always being eaten’? — पुरुषः वै अ-क्षितिः – means that the being (Puruṣa, the eater) is indeed the cause of their permanence, सः हि इदम् अन्नं पुनः पुनः जनयते – for he produces this food again and again.
यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत ह
यः वै एताम् अ-क्षितिं वेद इति – ‘He who knows this cause of their permanence’ पुरुषः वै अ-क्षितिः – means that the being (eater) is indeed the cause of their permanence, सः हि इदम् अन्नं धिया धिया जनयते कर्मभिः – for he produces this (seven kinds of) food through his meditation for the time being (Dhiyā dhiyā) and rites (Karmabhiḥ). यद ह एतद् न कुर्यात् – If he does not do this, क्षीयेत ह – it will be exhausted.
सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत्। स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा॥
सः अन्नम् अत्ति प्रतीकेन इति – ‘He eats food with Pratīka’; प्रतीकेन इति मुखं प्रतीकं मुखेन इति एतद् – ‘Pratīka’ means pre-eminence; hence the meaning is, pre-eminently; सः देवान् अपिगच्छति सः ऊर्जम् उपजीवति इति – ‘He attains the gods and lives on nectar’ प्रशंसा – is a eulogy.
♬
❚❚
BrhU.1.5.3
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति।
त्रीणि आत्मने अकुरुत इति – ‘Three he designed for himself’ मनस् वाचं प्राणम् – means: The mind, the organ of speech and the vital force; तानि आत्मने अकुरुत – these he designed for himself. अन्यत्र-मनाः अभूवं न अ-दर्शम् – (They say), ‘I was absent-minded, I did not see it’, अन्यत्र-मनाः अभूवं न अश्रौषम् इति – ‘I was absent-minded, I did not hear it’. मनसा हि एव पश्यति मनसा शृणोति – It is through the mind that one sees and hears.
कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव
कामः सङ्कल्पः विचिकित्सा श्रद्धा अ-श्रद्धा – Desire, resolve, doubt, faith, want of faith, धृतिः अ-धृतिः ह्रीः धीः भीः इति – steadiness, unsteadiness, shame, intelligence and fear — एतद् सर्वं मनस् एव – all these are but the mind.
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा। एषा ह्यन्तमायत्तैषा हि न
तस्मात् अपि पृष्ठतः उपस्पृष्टः मनसा विजानाति – Even if one is touched from behind one knows it through the mind (Tasmāt manasā, and therefore the mind exists apart from the senses); यः कः च शब्दः – And any kind of sound वाक् एव सा – is but the organ of speech एषा हि अन्तम् आयत्ता – for it serves (Āyattā, or āyat tā) to determine (Anta, i.e. to reveal) a thing, एषा हि न – but it cannot itself be revealed.
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः॥
प्राणः अपानः व्यानः उदानः समानः अनः इति – Prāṇa (outward breath, etc.), Apāna, Vyāna, Udāna, Samāna and Ana (the general activity of the body) — एतद् सर्वं प्राणः एव – all these are but the one vital force (Prāṇa). एतद्-मयः वै अयम् आत्मा – This (individual) body (Ātman, what we take ourselves to be) is identified with these — वाङ्-मयः मनो-मयः प्राण-मयः – with the organ of speech, the mind and the vital force.
♬
❚❚
BrhU.1.5.4
त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः॥
त्रयः लोकाः एते एव – These are the three worlds. वाक् एव अयं लोकः – The organ of speech is this world (the earth), मनस् अन्तर्-ईक्ष-लोकः – the mind is the sky, प्राणः असौ लोकः – and the vital force is that yonder world (heaven).
♬
❚❚
BrhU.1.5.5
त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः॥
त्रयः वेदाः एते एव – These are the three Vedas. वाक् एव ऋग्-वेदः मनस् यजुर्-वेदः प्राणः साम-वेदः – The organ of speech is the Ṛg-Veda, the mind is the Yajur-Veda and the vital force the Sāma-Veda.
BrhU.1.5.6
देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः॥
देवाः पितरः मनुष्याः एते एव – These are the gods, the Manes and men. वाक् एव देवाः मनस् पितरः प्राणः मनुष्याः – The organ of speech is the gods, the mind the Manes, and the vital force men.
BrhU.1.5.7
पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा॥
पिता माता प्रजा एते एव – These are the father, mother and child. मनस् एव पिता वाक् माता प्राणः प्रजा – The mind is the father, the organ of speech the mother, and the vital force the child.
♬
❚❚
BrhU.1.5.8
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वावति॥
विज्ञातं विजिज्ञास्यम् अ-विज्ञातम् एते एव – These are what is known, what it is desirable to know, and what is unknown. यद् किञ्च विज्ञातं वाचः तद् रूपम् – Whatever is known is a form of the organ of speech, वाक् हि विज्ञाता – for it is the knower. वाक् एनं तद् भूत्वा अवति – The organ of speech protects him (who knows this) by becoming that (which is known).
♬
❚❚
BrhU.1.5.9
यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं तद्भूत्वावति॥
यद् किञ्च विजिज्ञास्यं मनसः तद् रूपम् – Whatever it is desirable to know is a form of the mind, मनस् हि विजिज्ञास्यम् – for the mind is what it is desirable to know. मनस् एनं तद् अ्भूत्वा अवति – The mind protects him (who knows this) by becoming that (which it is desirable to know).
♬
❚❚
BrhU.1.5.10
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वावति॥
यद् किञ्च अ-विज्ञातं प्राणस्य तद् रूपम् – Whatever is unknown is a form of the vital force, प्राणः हि अ-विज्ञातः – for the vital force is what is unknown. प्राणः एनं तद् भूत्वा अवति – The vital force protects him (who knows this) by becoming that (which is unknown).
♬
❚❚
BrhU.1.5.11
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः॥
तस्यै वाचः पृथिवी शरीरम् – The earth is the body of that organ of speech, ज्योती-रूपम् अयम् अग्निः – and this fire is its luminous organ. तद् यावति एव वाक् – And as far as the organ of speech extends, तावती पृथिवी – so far extends the earth तावान् अयम् अग्निः – and so far does this fire.
♬
❚❚
BrhU.1.5.12
अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनं समैतां ततः प्राणोऽजायत
अथ एतस्य मनसः द्यौः शरीरम् – Heaven is the body of this mind, शरीरं ज्योती-रूपम् असौ आदित्यः – and that sun is its luminous organ. तद् यावद् एव मनस् – And as far as the mind extends, तावती द्यौः – so far extends heaven, तावान् असौ आदित्यः – and so far does that sun. तौ मिथुनं समैताम् – The two were united, ततः प्राणः अजायत – and from that the vital force emanated.
स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद॥
सः इन्द्रः – It is the Supreme Lord. सः एषः अ-सपत्नः – It is without a rival. द्वितीयः वै सपत्नः – A second being is indeed a rival. न अस्य सपत्नः भवति यः एवं वेद – He who knows it as such has no rival.
♬
❚❚
BrhU.1.5.13
अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽनन्ताः
अथ एतस्य प्राणस्य आपः शरीरम् – Water is the body of this vital force, ज्योती-रूपम् असौ चन्द्रः – and that moon is its luminous organ. यावान् एव प्राणः – And as far as the vital force extends, तावद् यः आपः – so far extends water, तावान् असौ चन्द्रः – and so far does that moon. ते एते सर्वे एव समाः – These are all equal, सर्वे अन्-अन्ताः – and all infinite.
स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति॥
सः यः ह एतान् अन्तवतः उपास्ते – He who meditates upon these as finite अन्तवन्तं सः लोकं जयति – wins a finite world, अथ यः ह एतान् अन्-अन्तान् उपास्ते – but he who meditates upon these as infinite अन्-अन्तं सः लोकं जयति – wins an infinite world.
♬
❚❚
BrhU.1.5.14
स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते
सः एषः संवत्सरः प्रजा-पतिः षो-डश-कलः – This Prajā-pati (Hiraṇya-garbha) has sixteen digits and is represented by the year. तस्य रात्रयः एव पञ्च-दश-कलाः – The nights (and days) are his fifteen digits, ध्रुवा एव अस्य षो-डशी कला – and the constant one is his sixteenth digit. सः रात्रिभिः एव आ च पूर्यते अप च क्षीयते – He (as the moon) is filled (Ā-pūryate) as well as wasted (Apa-kṣīyate) by the nights (and days).
सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै॥
सः अमावास्यां रात्रिम् एतया षो-डश्या कलया सर्वम् इदं प्राण-भृत् अनुप्रविश्य – Through this sixteenth digit he permeates (Anupraviśya) all these living beings on the new-moon night (amāvāsī) ततः प्रातर् जायते – and rises the next morning. तस्मात् एतां रात्रिं प्राण-भृतः प्राणं न विच्छिन्द्यात् – Therefore on this night one should not take the life of living beings, अपि कृकलासस्य – not even of a chameleon, एतस्याः एव देवतायाः अपचित्यै – in adoration of this deity alone.
♬
❚❚
BrhU.1.5.15
यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते
यः वै सः संवत्सरः प्रजा-पतिः षो-डश-कलः – That Prajā-pati who has sixteen digits and is represented by the year अयम् एव सः यः अयम् एवं-विद् पुरुषः – is indeed this man who knows as above. तस्य वित्तम् एव पञ्च-दश कलाः – Wealth constitutes his fifteen digits, आत्मा एव अस्य षो-डशी कलाः – and the body his sixteenth digit. सः वित्तेन एव आ च पूर्यते अप च क्षीयते – He is filled as well as wasted by wealth.
तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः॥
तद् एतद् नभ्यं यद् अयम् आत्मा – This body stands for a nave (Nabhya, center), प्रधिः वित्तम् – and wealth is the rim (Pradhi). तस्मात् यदि अपि सर्व-ज्यानिं जीयते – Therefore if a man loses (Api-jīyate) everything, आत्मना चेद् जीवति – but he himself lives, प्रधिना अगात् इति एव आहुः – people say that he has only lost his out-fit (Pra-dhi).
♬
❚❚
BrhU.1.5.16
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति
अथ त्रयः वाव लोकाः – There are indeed three worlds: मनुष्य-लोकः पितृ-लोकः देव-लोकः इति – the world of men, the world of the Manes and the world of the gods.
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति॥
सः अयं मनुष्य-लोकः पुत्रेण एव जय्यः – This world of men is to be won through the son alone, न अन्येन कर्मणा – and by no other rite; कर्मणा पितृ-लोकः – the world of the Manes through rites; विद्यया देव-लोकः – and the world of the gods through meditation (Vidyā, inculcating the subtle knowledge, the larger context, behind the ritual). देव-लोकः वै लोकानां श्रेष्ठः – The world of the gods is the best of the worlds. तस्मात् विद्यां प्रशंसन्ति – Therefore they praise meditation.
♬
❚❚
BrhU.1.5.17
अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता।
अथ अतः सम्प्रत्तिः – Now therefore the entrusting: यदा प्रैष्यन् मन्यते – When a man thinks he will die, अथ पुत्रम् आह – he says to his son, त्वं ब्रह्म त्वं यज्ञः त्वं लोकः इति – ‘You are Brahman, you are the sacrifice, and you are the world’, सः पुत्रः प्रत्याह – The son replies, अहं ब्रह्म अहं यज्ञः अहं लोकः इति – ‘I am Brahman, I am the sacrifice, and I am the world’. यद् वै किञ्च अनूक्तम् – (The father thinks:) ‘Whatever is studied तस्य सर्वस्य ब्रह्म इति एकता – is all unified in the word “Brahman”.
ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकतैतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितोऽभुनजदिति
ये वै के च यज्ञाः – Whatever sacrifices there are, तेषां सर्वेषां यज्ञः इति एकता – are all unified in the word “sacrifice”. ये वै के च लोकाः – And whatever worlds there are, तेषां सर्वेषां लोकः इति एकता – are all unified in the word “world”. एतावत् वै इदं सर्वम् – All this (the duties of a householder) is indeed this much. एतद् मा सर्वं सन् अयम् इतः अभुनजत् इति – He, being all this, will protect me (Mā abhunajat) from (the ties of) this world’.
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति।
तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः – Therefore they speak of an educated son as being conducive to the world. तस्मात् एनम् अनुशासति – Hence (a father) teaches his son. सः यद् एवं-विद् अस्मात् लोकात् प्रैति – When a father who knows as above departs from this world, अथ एभिः एव प्राणैः सह पुत्रम् आविशति – he penetrates (enters) his son together with the organ of speech, the mind and the vital force (Prāṇaiḥ saha).
स यद्यनेन किञ्चिदक्ष्णयाकृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम स पुत्रेणैवास्मिंल्लोके प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति॥
सः यदि अनेन किञ्चिद् अक्ष्णया अ-कृतं भवति – Should anything be left undone by him through any sideways (slip) तस्मात् एनं सर्वस्मात् पुत्रः मुञ्चति – the son exonerates him from all that. तस्मात् पुत्रः नाम सः – Therefore he is called a son. पुत्रेण एव अस्मिन् लोके प्रतितिष्ठति – The father lives in this world through the son. अथ एनम् एते दैवाः प्राणाः अ-मृताः आविशन्ति – Divine and immortal speech, mind and vital force permeate him (this father).
♬
❚❚
BrhU.1.5.18
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति॥
पृथिव्यै च एनम् अग्नेः च दैवी वाक् आविशति – The divine organ of speech from the earth and fire permeates him. सा वै दैवी वाक् – That is the divine organ of speech, यया यद् यद् एव वदति तद् तद् भवति – through which whatever he says is fulfilled.
♬
❚❚
BrhU.1.5.19
दिवश्चैनमादित्याच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति॥
दिवः च एनम् आदित्यात् च दैवं मनस् आविशति – The divine mind from heaven and the sun permeates him. तद् वै दैवं मनस् – That is the divine mind येन आनन्दी एव भवति – through which he only becomes happy अथ उ न शोचति – and never mourns.
♬
❚❚
BrhU.1.5.20
अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति
अद्भ्यः च एनं चन्द्रमसः च दैवः प्राणः आविशति – The divine vital force from water and the moon permeates him. सः वै दैवः प्राणः – That is the divine vital force यः सञ्चरन् च अ-सञ्चरन् च – which, when it moves or does not move, न व्यथते – feels no pain अथ उ न रिष्यति nor is injured.
स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्यैवं हैवंविदं सर्वाणि भूतान्यवन्ति।
सः एवं-विद् सर्वेषां भूतानाम् आत्मा भवति – He who knows as above becomes the self of all things. यथा एषा देवता एवं सः – As is this deity (Hiraṇya-garbha), so is he. यथा एतां देवतां सर्वाणि भूतानि अवन्ति – As all beings take care of this deity, एवं ह एवं-विदं सर्वाणि भूतानि अवन्ति – so do they take care of him.
यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति॥
यद् उ किञ्च इमाः प्रजाः शोचन्ति – Howsoever these beings may grieve, अमा एव आसां तद् भवति – that (grief) of theirs is connected with them (Amā eva). पुण्यम् एव अमुं गच्छति – But only merit goes to him. न ह वै देवान् पापं गच्छति – No demerit ever goes to the gods.
♬
❚❚
BrhU.1.5.21
अथातो व्रतमीमांसा
अथ अतः व्रत-मीमांसा – Now a consideration of the vow:
प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि यथाकर्म
प्रजा-पतिः ह कर्माणि ससृजे – Prajā-pati projected the organs. तानि सृष्टानि – These, on being projected, अन्योन्येन अस्पर्धन्त – quarrelled with one another. वदिष्यामि एव अहम् इति वाक् दध्रे – The organ of speech took a vow, ‘I will go on speaking’. द्रक्ष्यामि अहम् इति चक्षुः – The eye: ‘I will see’. श्रोष्यामि अहम् इति श्रोत्रम् – The ear: ‘I will hear’. एवम् अन्यानि कर्माणि यथा-कर्म – And so did the other organs according to their functions.
तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्तान्याप्त्वा मृत्युरवारुन्ध तस्माच्छ्राम्यत्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नाप्नोद्योऽयं मध्यमः प्राणस्तानि ज्ञातुं दध्रिरे।
तानि मृत्युः श्रमः भूत्वा उपयेमे – Death captured them in the form of fatigue — तानि आप्नोत् – it overtook them, तानि आप्त्वा मृत्युः अवारुन्ध – and having overtaken them it controlled them. तस्मात् श्राम्यति एव वाक् – Therefore the organ of speech invariably gets tired, श्राम्यति चक्षुः श्राम्यति श्रोत्रम् – and so do the eye and the ear. अथ इमम् एव न आप्नोत् यः अयं मध्यमः प्राणः – But (death) did not overtake this vital force in the body. तानि ज्ञातुं दध्रिरे – The organs resolved to know it.
अयं वै नः श्रेष्ठो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवंस्…
अयं वै नः श्रेष्ठः – ‘This is the greatest among us यः सञ्चरन् च अ-सञ्चरन् च – that, when it moves or does not move, न व्यथते अथ उ न रिष्यति – feels no pain nor is injured. हन्त अस्य एव सर्वे रूपम् असाम इति – Well, let us all be of its form’. ते एतस्य एव सर्वे रूपम् अभवन् – They all assumed its form.
तस्मादेत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम्॥
तस्मात् एते एतेन आख्यायन्ते प्राणाः इति – Therefore they are called by this name of ‘Prāṇas’. तेन ह वाव तद् कुलम् आचक्षते यस्मिन् कुले भवति यः एवं वेद – That family in which a man is born who knows as above, is indeed named after him. यः उ ह एवं-विदा स्पर्धते अनुशुष्यति – And he who competes with one who knows as above shrivels, अनुशुष्य ह एव अन्ततः म्रियते – and after shrivelling dies at the end. इति अध्यात्मम – This is with reference to the body.
♬
❚❚
BrhU.1.5.22
अथाधिदैवतं
अथ अधि-दैवतम् – Now with reference to the gods:
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतं
ज्वलिष्यामि एव अहम् इति अग्निः दध्रे – Fire took a vow, ‘I will go on burning’. तप्स्यामि अहम् इति आदित्यः – The sun: ‘I will give heat’. भास्यामि अहम् इति चन्द्रमाः – The moon: ‘I will shine’. एवम् अन्याः देवताः यथा-दैवतम् – And so did the other gods according to their functions.
स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुः सैषानस्तमिता देवता यद्वायुः॥
सः यथा एषां प्राणानां मध्यमः प्राणः – As is the vital force in the body among these organs, एवम् एतासां देवतानां वायुः – so is Vāyu (Air) among these gods. म्लोचन्ति हि अन्याः देवताः – Other gods sink, न वायुः – but not air. सा एषा अन्-अस्तम्-इता देवता यद् वायुः – Air is the deity that never sets.
♬
❚❚
BrhU.1.5.23
अथैष श्लोको भवति
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति।
प्राणाद्वा एष उदेति प्राणेऽस्तमेति।
अथ एषः श्लोकः भवति – Now there is this verse:
● यतः च उदेति सूर्यः – ‘From it the sun rises.
○ अस्तं यत्र च गच्छति इति – and in it sets’,
● प्राणात् वै एषः उदेति – ‘Indeed from the (cosmic) vital force (Prāṇa) it rises
○ प्राणे अस्तम् एति – and in the vital force it sets’.
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति।
यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति।
● तं देवाः चक्रिरे धर्मम् – ‘The gods observed this vow (Dharma).
○ सः एव अद्य सः उ श्वः इति – It is (followed) today, and it will be (followed) tomorrow’.
● यद् वै एते अमुर्हि अध्रियन्त – What these (gods) observed at that time,
○ तद् एव अपि अद्य कुर्वन्ति – they observe to this day.
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नुवदिति
तस्मात् एकम् एव व्रतं चरेत् – Therefore a man should observe a single vow:
यात् च एव अपान्यात् च – Do the functions of the Prāṇa and Apāna (respiration and excretion), न इद् मा पाप्मा मृत्युः आप्नुवत् इति – lest (Na id) the evil of death (fatigue) should overtake him.
यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति॥
यदि उ चरेत् – And if he observes it, समापिपयिषेत् – he should seek to finish it. तेन उ एतस्यै देवतायै सायुज्यं स-लोकतां जयति – Through it he attains identity (Sā-yujya) with this deity, or lives in the same world with it (Sa-lokatā).
BrhU.1.6
♬
❚❚
BrhU.1.6.1
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति।
त्रयं वै इदं नाम रूपं कर्म – This (universe) indeed consists of three things: name (Nāma), form (Rūpa), and action (Karma). तेषां नाम्नाम् – Of those names, वाक् इति एतद् एषाम् उक्थम् – speech (Vāk, sound in general) is the Uktha (i.e. source), अतः हि सर्वाणि नामानि उत्तिष्ठन्ति – for all names spring from it (speech).
एतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति॥
एतद् एषां साम – It is their Sāman (common feature), एतद् हि सर्वैः नामभिः समम् – for it is common (Sāma) to all names. एतद् एषां ब्रह्म – It is their Brahman (self), एतद् हि सर्वाणि नामानि बिभर्ति – for it sustains all names.
♬
❚❚
BrhU.1.6.2
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति॥
अथ रूपाणाम् – Now of forms (Rūpas) चक्षुः इति एतद् एषाम् उक्थम् – the eye (anything visible) is the Uktha (source), अतः हि सर्वाणि रूपाणि उत्तिष्ठन्ति – for all forms spring from it (vision). एतद् एषां साम – It is their Sāman (common feature), एतद् हि सर्वैः रूपैः समम् – for it is common to all forms. एतद् एषां ब्रह्म – It is their Brahman (self), एतद् हि सर्वाणि रूपाणि बिभर्ति – for it sustains all forms.
♬
❚❚
BrhU.1.6.3
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति
अथ कर्मणाम् – And of actions (Karmas) आत्मा इति एतद् एषाम् उक्थम् – the body (Ātman) is the Uktha (source), अतः हि सर्वाणि कर्माणि उत्तिष्ठन्ति – for all actions spring from it (the body). एतद् एषां साम – It is their Sāman (common feature), एतद् हि सर्वैः कर्मभिः समम् – for it is common to all actions. एतद् एषां ब्रह्म – It is their Brahman (self), एतद् हि सर्वाणि कर्माणि बिभर्ति – for it sustains all actions.
तदेतत्त्रयं सदेकमयमात्मात्मो एकः सन्नेतत्त्रयं तदेतदमृतं सत्त्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्त्यं ताभ्यामयं प्राणश्छन्नः॥
तद् एतद् त्रयं सत् एकम् – These three together are one — अयम् आत्मा आत्मा उ एकः सन् – this body, and the body, although one, एतद् त्रयम् – is these three. तद् एतद् अ-मृतं सत्त्येन छन्नम् – This immortal entity is covered by truth (Sattya, i.e. the five elements): प्राणः वै अ-मृतम् – The vital force is the immortal entity, नाम-रूपे सत्त्यं – and name and form are truth; ताभ्याम् अयं प्राणः छन्नः – (so) this vital force is covered by them.
Bṛhad-Āraṇyaka द्वितीयोऽध्यायः (२.)
BrhU.2.1
♬
❚❚
BrhU.2.1.1
ओं दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति॥
ओं दृप्त-बालाकिः ह अनूचानः गार्ग्यः आस – Om. There was a man of the Garga family called Proud Bālāki, who was a speaker. सः ह उवाच अजात-शत्रुं काश्यम् – He said to Ajāta-śatru, the King of Benares, ब्रह्म ते ब्रवाणि इति – ‘I will tell you about Brahman’.
Ajāta-śatru said, सहस्रम् एतस्यां वाचि दद्मः – ‘For this proposal I give you a thousand (cows). जनकः जनकः इति वै जनाः धावन्ति इति – People indeed rush saying, “Janaka, Janaka”’.
♬
❚❚
BrhU.2.1.2
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ आदित्ये पुरुषः – ‘That being who is in the sun, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him, अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा इति वै अहम् एतम् उपासे इति – I meditate upon him as all-surpassing (Ati-ṣṭhās), as the head of all beings and as resplendent (Rājan). सः यः एतम् एवम् उपास्ते – He who meditates upon him as such अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति – becomes all-surpassing, the head of all beings and resplendent.
♬
❚❚
BrhU.2.1.3
स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति
Gārgya said (सः ह उवाच गार्ग्यः), ‘That being who is in the moon (यः एव असौ चन्द्रे पुरुषः), I meditate upon as Brahman’ (एतम् एव अहं ब्रह्म उपासे इति).
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. बृहन् पाण्डर-वासाः सोमः राजा इति वै अहम् एतम् उपासे इति – I meditate upon him as the great, white-robed, radiant Soma’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such अहर्-अहर् ह सुतः प्रसुतः भवति – has abundant (Pra-suta) (Soma) pressed (Suta) (in his principal and auxiliary sacrifices) every day, न अस्य अन्नं क्षीयते – and his food never gets short.
♬
❚❚
BrhU.2.1.4
स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ विद्युति पुरुषः – ‘That being who is in lightning, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. तेजस्वी इति इति वै अहम् एतम् उपासे इति – I meditate upon him as the powerful’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such तेजस्वी ह भवति – becomes powerful, तेजस्विनी ह अस्य प्रजा भवति – and his progeny too becomes powerful.
♬
❚❚
BrhU.2.1.5
स होवाच गार्ग्यो य एवायमाकाशे पुरष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ आकाशे पुरुषः – ‘That being who is the space, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. पूर्णम् अ-प्रवर्ति इति इति वै अहम् एतम् उपासे इति – I meditate upon him as the full and unmoving’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such तेपूर्यते प्रजया पशुभिः – is filled with progeny and cattle, न अस्य अस्मात् लोकात् प्रजा उद्वर्तते – and his progeny is never extinct from this world.
♬
❚❚
BrhU.2.1.6
स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ वायौ पुरुषः – ‘That being who is in air, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. इन्द्रः वैकुण्ठः अ-परा-जिता सेना इति इति वै अहम् एतम् उपासे इति – I meditate upon him as the Lord, as irresistible, and as the unvanquished army’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such जिष्णुः ह अ-परा-जिष्णुः भवति – ever becomes victorious and invincible, अन्यतस्त्य-जायी – and conquers his enemies (Anya-tas-tya-jāyī).
♬
❚❚
BrhU.2.1.7
स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ अग्नौ पुरुषः – ‘That being who is in fire, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. विषासहिः इति इति वै अहम् एतम् उपासे इति – I meditate upon him as forbearing (vi-sāsahi)’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such विषासहिः – becomes forbearing, विषासहिः ह अस्य प्रजा भवति – and his progeny too becomes forbearing.
♬
❚❚
BrhU.2.1.8
स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ अप्सु पुरुषः – ‘That being who is in water, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. प्रतिरूपः इति इति वै अहम् एतम् उपासे इति – I meditate upon him as agreeable’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such प्रतिरूपं ह एव एनम् उपगच्छति – has only agreeable things coming to him, न अ-प्रतिरूपम् – and not contrary ones; अथ उ प्रतिरूपः अस्मात् जायते – also from him are born children who are agreeable.
♬
❚❚
BrhU.2.1.9
स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव असौ आदर्शे पुरुषः – ‘That being who is in a looking-glass, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वां स्तानतिरोचते॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. रोचिष्णुः इति इति वै अहम् एतम् उपासे इति – I meditate upon him as shining’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such रोचिष्णुः ह भवति – becomes shining, रोचिष्णुः ह अस्य प्रजा भवति – and his progeny too becomes shining. अथ उ यैः सन्निगच्छति सर्वान् तान् अतिरोचते – He also outshines all those with whom he comes in contact.
♬
❚❚
BrhU.2.1.10
स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति
Gārgya said (सः ह उवाच गार्ग्यः), ‘This sound that issues behind a man as he walks (यः एव अयं यन्तं पश्चात् शब्दः अनूदेति), I meditate upon as Brahman’ (एतम् एव अहं ब्रह्म उपासे इति).
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. असुः इति इति वै अहम् एतम् उपासे इति – I meditate upon him as life’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such सर्वं ह एव अस्मिन् लोके आयुस् एति – attains his full term of life in this world, न एनं पुरा कालात् प्राणः जहाति – and life does not depart from him before the completion of that term.
♬
❚❚
BrhU.2.1.11
स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव अयं दिक्षु पुरुषः – ‘This beings who is in the quarters, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. द्वितीयः अन्-अपगः इति इति वै अहम् एतम् उपासे इति – I meditate upon him as second and as non-separating’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such द्वितीयवान् ह भवति – gets companions, न अस्मात् गणः छिद्यते – and his followers never depart from him.
♬
❚❚
BrhU.2.1.12
स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति
सः ह उवाच गार्ग्यः – Gārgya said, यः एव अयं छायाम् अयः पुरुषः – ‘This being who identifies himself with the shadow, एतम् एव अहं ब्रह्म उपासे इति – I meditate upon as Brahman’.
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, मा मा एतस्मिन् संवदिष्ठाः – ‘Please don’t talk about him. मृत्युः इति इति वै अहम् एतम् उपासे इति – I meditate upon him as death’. सः यः एतम् एवम् उपास्ते – He who meditates upon him as such सर्वं ह एव अस्मिन् लोके आयुस् एति – attains his full term of life in this world, न एनं पुरा कालात् मृत्युः आगच्छति – and death does not overtake him before the completion of that term.
♬
❚❚
BrhU.2.1.13
स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति
Gārgya said (सः ह उवाच गार्ग्यः), ‘This being who is in the self (in the intellect and the heart) (यः एव अयम् आत्मनि पुरुषः), I meditate upon as Brahman’ (एतम् एव अहं ब्रह्म उपासे इति).
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः॥
Ajāta-śatru said (सः ह उवाच अजात-शत्रुः), ‘Please don’t talk about him (मा मा एतस्मिन् संवदिष्ठाः). I meditate upon him as self-possessed’ (आत्मन्वी इति इति वै अहम् एतम् उपासे इति). He who meditates upon him as such (सः यः एतम् एवम् उपास्ते) becomes self-possessed (आत्मन्वी ह भवति), and his progeny too becomes self-possessed (आत्मन्विनी ह अस्य प्रजा भवति). Gārgya remained silent (सः ह तूष्णीम् आस गार्ग्यः).
♬
❚❚
BrhU.2.1.14
स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वा यानीति॥
सः ह उवाच अजात-शत्रु – Ajāta-śatru said, एतावत् नू ३ इति – ‘Is this all’?
एतावत् हि इति – ‘This is all’.
न एतावता विदितं भवति इति – ‘By knowing this much one cannot know (Brahman)’.
सः ह उवाच गार्ग्यः – Gārgya said, उप त्वा यानि इति – ‘I approach (Upa-yāni) you (as a student)’.
♬
❚❚
BrhU.2.1.15
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, प्रतिलोमं च एतद् यद् ब्राह्मणः क्षत्रियम् उपेयात् – ‘It is contrary to usage that a Brāhmaṇa should approach a Kṣatriya ब्रह्म मे वक्ष्यति इति – thinking, “He will teach me about Brahman”. वि एव त्वा ज्ञपयिष्यामि इति – However I will instruct (Vi-jñapayiṣyāmi) you’.
तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ॥
तं पाणौ आदाय उत्तस्थौ – Taking Gārgya by the hand he rose. तौ ह पुरुषं सुप्तम् आजग्मतुः – They came to a sleeping man. तम् एतैः नामभिः आमन्त्रयाञ्-चक्रे – (Ajāta-śatru) addressed him by these names, बृहन् पाण्डर-वासः सोम राजन् इति – Great, White-robed, Radiant, Soma’. सः न उत्तस्थौ – The man did not get up. तं पाणिना आपेषं बोधयाञ्-चकार – (The King) pushed him with the hand till he awoke. सः ह उत्तस्थौ – Then he got up.
♬
❚❚
BrhU.2.1.16
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः॥
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, यत्र एषः एतद् सुप्तः अभूत् यः एषः विज्ञानमयः पुरुषः – ‘When this being (Puruṣa) full of consciousness (Vijñānamaya, identified with the mind) was thus asleep, कुतः एतद् आगात् इति – where was it then (क्व एषः तदा अभूत्), and whence did it thus come’? तद् उ ह न मेने गार्ग्यः – Gārgya did not know (Mene) that.
♬
❚❚
BrhU.2.1.17
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते
सः ह उवाच अजात-शत्रुः – Ajāta-śatru said, यत्र एषः एतद् सुप्तः अभूत् यः एषः विज्ञानमयः पुरुषः – ‘When this being full of consciousness is thus asleep (Supta, तद् एषां प्राणानां विज्ञानेन विज्ञानम् आदाय – it absorbs at the time the functions (Vijñāna) of the organs through its own consciousness, यः एषः अन्तर्-हृदये आकाशः तस्मिन् शेते – and lies in the Ākāśa (Supreme Self) that is in the heart.
तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः॥
तानि यदा गृह्णाति – When this being absorbs them, अथ ह एतद् पुरुषः स्वपिति नाम – it is called (the being has the name) Svapiti. तद् गृहीतः एव प्राणः भवति – Then the nose (sense of smell) is absorbed, गृहीता वाक् – the organ of speech is absorbed, गृहीतं चक्षुस् – the eye is absorbed, गृहीतं श्रोत्रम् – the ear is absorbed, गृहीतं मनस् – and the mind is absorbed’.
♬
❚❚
BrhU.2.1.18
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति
सः यत्र एतद् स्वप्न्यया चरति – When it thus remains (Carati, wanders about) in the dream state, ते ह अस्य लोकाः – these are its achievements (Lokas): तद् उत इव महा-राजः भवति – It then becomes an emperor, as it were, उत इव महा-ब्राह्मणः – or a noble Brāhmaṇa, as it were, उत इव उच्च-अवचं निगच्छति – or attains states high or low, as it were.
स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते॥
सः यथा महा-राजः जान-पदान् गृहीत्वा – As an emperor, taking his citizens, स्वे जन-पदे यथा-कामं परिवर्तेत – moves about as he pleases in his own territory, एवम् एव एषः एतद् प्राणान् गृहीत्वा – so does it, thus taking the organs, स्वे शरीरे यथा-कामं परिवर्तते – move about as it pleases in its own body.
♬
❚❚
BrhU.2.1.19
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते
अथ यदा सुषुप्तः भवति – Again when it becomes fast asleep (Suṣupta, su-supta) — यदा न कस्यचन वेद – when it does not know anything — हिताः नाम नाड्यः द्वा-सप्ततिः सहस्राणि हृदयात् पुरीततम् अभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य – it comes back (Pratyavasṛpya) along the seventy-two thousand nerves called Hitā, which extend (Abhipratiṣṭhante) from the heart to the pericardium (Parītat, the whole body), पुरीतति शेते – and remains in the body.
स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते॥
यथा कुमारः वा महा-राजः वा महा-ब्राह्मणः वा – As a baby, or an emperor, or a noble Brāhmaṇa सः अतिघ्नीम् आनन्दस्य गत्वा शयीत – lives (Śayīta), having attained the acme (Atighnīm) of bliss, एवम् एव एषः एतद् शेते – so does it remain.
♬
❚❚
BrhU.2.1.20
स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति
सः यथा ऊर्ण-नाभिः तन्तुना उच्चरेत् – As a (ceiling) spider moves (down and up) along the thread (it produces and consumes), यथ अग्नेः क्षुद्राः विस्फुल्-इङ्गाः व्युच्चरन्ति – and as from a fire tiny sparks (identical to fire) fly in all directions, एवम् एव अस्मात् आत्मनः – so from this Self सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति – emanate all organs, all worlds, all gods and all beings.
तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्॥
तस्य उपनिषद् – Its secret name (Upaniṣad) सत्यस्य सत्यम् इति – is ‘the Truth of truth’. प्राणाः वै सत्यम् – The vital force is truth, तेषाम् एषः सत्यम् – and It is the Truth of that.
BrhU.2.2
♬
❚❚
BrhU.2.2.1
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि। अयं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम॥
यः ह वै वेद – He who knows शिशुं स-आधानम् – the calf with its abode, स-प्रत्याधानम् – its special resort, स-स्थूणं स-दामम् – its post and its tether सप्त ह द्विषतः भ्रातृव्यान् अवरुणद्धि – kills his seven envious kinsmen: अयं वाव शिशुः यः अयं मध्यमः प्राणः – The vital force in the body is indeed the calf, तस्य इदम् एव आधानम् – this (body) is its abode, इदं प्रत्याधानं – this (head) its special resort, प्राणः स्थूण अन्नं दाम – strength its post, and food its tether.
♬
❚❚
BrhU.2.2.2
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षन्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो…
तम् एताः सप्त-अ-क्षितयः उपतिष्ठन्ते – These seven gods that prevent decay worship (Upatiṣṭhante, wait upon) it: तद् या इमाः अक्षन् लोहिन्यः राजयः ताभिः – Through these pink lines (Rājis) in the eye एनं रुद्रः अन्वायत्तः – Rudra attends on it; अथ याः अक्षन् आपः ताभिः – through the water that is in the eye, पर्जन्यः – Parjanya;
या कनीनका तयादित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद॥
या कनीनका तया – through the pupil, आदित्यः – the sun; यद् कृष्णं तेन – through the dark portion, अग्निः – fire; यद् शुक्लं तेन – through the white portion, इन्द्रः – Indra; अधरया एनं वर्तन्या पृथिवी अन्वायत्ता – through the lower eye-lid the earth attends on it; द्यौः उत्तरया – and through the upper eye-lid, heaven. न अस्य अन्नं क्षीयते यः एवं वेद – He who knows it as such never has any decrease of food.
♬
❚❚
BrhU.2.2.3
तदेष श्लोको भवति।
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्।
तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति॥
Regarding this there is the following pithy verse (तद् एषः श्लोकः भवति):
● अर्वाक् बिलः चमसः ऊर्ध्व-बुध्नः – ‘There is a bowl (Camasa) that has its opening (Bila) below and bulges at the top;
○ तस्मिन् यशस् निहितं विश्व-रूपम् – various kinds of knowledge (Yasas, glories) have been put in it;
● seven sages sit by its side (तस्य आसतः ऋषयः सप्त तीरे),
○ वाक् अष्टमी ब्रह्मणा संविदाना इति – and the organ of speech, which has communication with the Vedas, is the eighth’.
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह
अर्वाक् बिलः चमसः ऊर्ध्व-बुध्न इति – The ‘bowl that has its opening below and bulges at the top’ इदं तद् शिरः – is this head of our),एषः हि अर्वाक् बिलः चमसः ऊर्ध्व-बुध्नः – for it is the bowl that has its opening below and bulges at the top. तस्मिन् यशस् निहितं विश्व-रूपम् इति – ‘Various kinds of knowledge have been put in it’, प्राणाः वै – refers to the organ; यशस् विश्व-रूपं प्राणान् एतद् आह – these indeed represent various kinds of knowledge, says the (Mantra).
तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते॥
तस्य आसते ऋषयः सप्त तीरे इति – ‘Seven sages sit by its side’, प्राणाः वै ऋषयः एतद् आह – refers to the organs; they indeed are the sages, says the (Mantra). वाक् अष्टमी ब्रह्मणा संविदाना इति – ‘The organ of speech, which has communication with the Vedas, is the eighth’, वाक् हि अष्टमी – because the organ of speech is the eighth ब्रह्मणा संवित्ते – and communicates with the Vedas.
♬
❚❚
BrhU.2.2.4
इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निर्…
इमौ एव गोतम-भरद्-वाजौ – These two (ears) are Gotama and Bharad-vaja: अयम् एव गोतमः – this one (right, or the left?) is Gotama, अयं भरद्-वाजः – and this one Bharad-vaja. इमौ एव विश्वा-मित्र-जमद्-अग्नी – These two (eyes) are Viśvā-mitra and Jamad-agni: अयम् एव विश्वा-मित्रः – this one is Viśvā-mitra, अयं जमद्-अग्निः – and this one Jamad-agni.
इमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद॥
इमौ एव वसिष्ठ-कश्यपौ – These two (nostrils) are Vasiṣṭha, and Kaśyapa: अयम् एव वसिष्ठः – this one is Vasiṣṭha, अयं कश्यपः – and this one Kaśyapa. वाक् एव अत्रिः – The tongue is Atri, वाचा हि अन्नम् अद्यते – for through the tongue food is eaten. अत्तिः ह वै नाम एतद् यद् अत्रिः इति – ‘Atri’ is but this name ‘Atti’. यः एवं वेद – He who knows it as such सर्वस्य अत्ता भवति – becomes the eater of all, सर्वम् अस्य अन्नं भवति – and everything becomes his food.
BrhU.2.3
♬
❚❚
BrhU.2.3.1
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च॥
द्वे वाव ब्रह्मणः रूपे – Brahman has but two forms — रूपे मूर्तं च एव अ-मूर्तं च – gross (Mūrta) and subtle, मर्त्यं च अ-मृतं च – mortal (Martya) and immortal, स्थितं च यद् च – limited (Sthita, what stops) and unlimited (‘the other,’ or what keeps going, yāti iti), सत् च त्यद् च – defined (Sat) and undefined (Tyad, the “other,” Veda pronominal stem equal to Tad, i.e. undefined).
♬
❚❚
BrhU.2.3.2
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः॥
तद् एतद् मूर्तं यद् अन्यद् वायोः च अन्तर्-ईक्षात् च – The gross (form) is that which is other than (the elements) air and the space (i.e. movement and dimension). एतद् मर्त्यम् – It is mortal, एतद् स्थितम् – it is limited, एतद् सत् – and it is defined. तस्य एतस्य मूर्तस्य एतस्य मर्त्यस्य एतस्य स्थितस्य एतस्य सतः एषः रसः – The essence (Rasa) of that which is gross, mortal, limited and defined यः एषः तपति – is (the sun) that shines, सतः हि एषः रसः – for it is the essence of the defined (Sat).
♬
❚❚
BrhU.2.3.3
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम्॥
अथ अ-मूर्तम् – Now the subtle:
वायुः च अन्तर्-इक्षं च – It is air and the space. एतद् अ-मृतम् – It is immortal, एतद् यद् – it is unlimited, एतद् त्यद् – and it is undefined. तस्य एतस्य अ-मूर्तस्य एतस्य अ-मृतस्य एतस्य यतः एतस्य त्यस्य एषः रसः – The essence of that which is subtle, immortal, unlimited and undefined यः एषः एतस्मिन् मण्डले पुरुषः – is the being (Puruṣa) that is in the sun, त्यस्य हि एषः रसः – for that is the essence of the undefined. इति अधि-दैवतम् – This is with reference to the gods.
♬
❚❚
BrhU.2.3.4
अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः॥
अथ अध्यात्मम् – Now with reference to the body:
इदम् एव मूर्तं – The gross form is but this — यद् अन्यद् प्राणात् च यः च अयम् अन्तर्-आत्मन् आकाशः – what is other than (the corporeal) air (Prāṇa) and (other than) the space that is in the body (Antar-ātman). एतद् मर्त्यम् – It is mortal, एतद् स्थितम् – it is limited, एतद् सत् – and it is defined. तस्य एतस्य मूर्तस्य एतस्य मर्त्यस्य एतस्य स्थितस्य एतस्य सतः एषः रसः – The essence of that which is gross, mortal, limited and defined यद् चक्षुस् – is the eye, सतः हि एषः रसः – for it is the essence of the defined.
♬
❚❚
BrhU.2.3.5
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः॥
अथ अ-मूर्तम् – Now the subtle:
प्राणः च यः च अयम् अन्तर्-आत्मन् आकाशः – It is (the corporeal) air and the space that is in the body. एतद् अ-मृतम् – It is immortal, एतद् यद् – it is unlimited, एतद् त्यद् – and it is undefined. तस्य एतस्य अ-मूर्तस्य एतस्य अ-मृतस्य एतस्य यतः एतस्य त्यस्य एषः रसः – The essence of that which is subtle, immortal, unlimited and undefined is this being यः अयं दक्षिणे अक्षन् पुरुषः – that is in the right eye, त्यस्य हि एषः रसः – for this is the essence of the undefined.
♬
❚❚
BrhU.2.3.6
तस्य हैतस्य पुरुषस्य रूपम्। यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद…
तस्य ह एतस्य पुरुषस्य रूपम् – The form of that ‘being’ is as follows: यथा माहा-रजनं वासः – Like a cloth dyed with turmeric, यथा पाण्डु-आविकम् – or like gray sheep’s wool, यथा पाण्डु-आविकं – or like the (scarlet) insect called Indra-gopa, यथा अग्नि-अर्चिः – or like a tongue of fire, यथा पुण्डरीकम् – or like a white lotus, यथा सकृत् विद्युत्तम् – or like a flash of lightning. यः एवं वेद – He who knows it as such सकृत् विद्युत्ता इव ह वै अस्य श्रीः भवति – attains splendor like a flash of lightning.
अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्॥
अथ अतः आदेशः – Now therefore the description (of Brahman):
नेति नेति – ‘Not this (Na iti), not this (Na iti)’. न हि एतस्मात् इति नेति अन्यद् परम् अस्ति – Because there is no (Na) other and more appropriate description than this (Iti) ‘Not this’. अथ नाम-धेयम् – Now Its name: सत्यस्य सत्यम् इति – ‘The Truth of truth’. प्राणाः वै सत्यम् – The vital force(s) is truth, तेषाम् एषः सत्यम् – and It is the Truth of that.
BrhU.2.4
♬
❚❚
BrhU.2.4.1
मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति॥
मैत्रेयी इति ह – ‘Maitreyī’, उवाच याज्ञवल्क्यः – said Yājña-valkya, उद्यास्यन् वै अरे अहम् अस्मात् स्थानात् अस्मि – ‘my dear, I am going to renounce this life. हन्त ते अनया कात्यायन्या अन्तं करवाणि इति – Allow (me) to finish your (Te) (relationship) with (my) other (wife) Kātyāyanī’.
♬
❚❚
BrhU.2.4.2
सा होवाच मैत्रेयी। यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति
सा ह उवाच मैत्रेयी – Thereupon Maitreyī said, यद् नु मे इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् – ‘Sir, if indeed this whole earth full of wealth be mine, कथं तेन अ-मृता स्याम् इति – shall I be immortal through that’?
नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति॥
न इति ह उवाच याज्ञवल्क्यः – ‘No,’ replied Yājña-valkya, यथा एव उपकरणवतां जीवितं तथा एव ते जीवितं स्यात् – ‘your life will be just like that of people who have plenty of things (Upakaraṇavats), अ-मृतत्वस्य तु न आशा अस्ति वित्तेन इति – but there is no hope (Āśā) of immortality through wealth’.
♬
❚❚
BrhU.2.4.3
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति॥
सा ह उवाच मैत्रेयी – Then Maitreyī said, किम् अहं तेन कुर्यम् – ‘What shall I do with that येन अहं न अ-मृता स्याम् – which will not make me immortal? यद् एव भगवान् वेद तद् एव मे ब्रूहि इति – Tell me, sir, of that alone which you know (to be the only means of immortality)’.
♬
❚❚
BrhU.2.4.4
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति॥
सः ह उवाच याज्ञवल्क्यः – Yājña-valkya said, प्रिया बत अरे नः सती – ‘My dear, you have been my beloved (even before), प्रियं भाषसे – and you say what is after my heart. एहि आस्स्व – Come, take your seat, व्याख्यास्यामि ते – I will explain it to you. व्याचक्षाणस्य तु मे – As I explain it, निदिध्यासस्व इति – meditate (on its meaning).
♬
❚❚
BrhU.2.4.5
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति।
सः ह उवाच – He said: न वै अरे पत्युः कामाय पतिः प्रियः भवति – ‘It is not for the sake of the husband, my dear, that he is loved, आत्मनः तु कामाय – but for one’s own sake (for the sake of one’s own self) पतिः प्रियः भवति – that he is loved.
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति।
न वा अरे जायायै कामाय जाया प्रिया भवति – It is not for the sake of the wife, my dear, that she is loved, आत्मनः तु कामाय जाया प्रिया भवति – but for one’s own sake that she is loved.
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति।
न वै अरे पुत्राणां कामाय पुत्राः प्रियाः भवन्ति – It is not for the sake of the sons, my dear, that they are loved, आत्मनः तु कामाय पुत्राः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति।
न वै अरे वित्तस्य कामाय वित्तं प्रियं भवति – It is not for the sake of wealth, my dear, that it is loved, आत्मनः तु कामाय वित्तं प्रियं भवति – but for one’s own sake that it is loved.
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति।
न वै अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति – It is not for the sake of the Brāhmaṇa, my dear, that he is loved, आत्मनः तु कामाय ब्रह्म प्रियं भवति – but for one’s own sake that he is loved.
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति।
न वै अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति – It is not for the sake of the Kṣatriya, my dear, that he is loved, आत्मनः तु कामाय क्षत्रं प्रियं भवति – but for one’s own sake that he is loved.
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति।
न वै अरे लोकानां कामाय लोकाः प्रियाः भवन्ति – It is not for the sake of worlds, my dear, that they are loved, आत्मनः तु कामाय लोकाः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति।
न वै अरे देवानां कामाय देवाः प्रियाः भवन्ति – It is not for the sake of the gods, my dear, that they are loved, आत्मनः तु कामाय देवाः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति।
न वै अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति – It is not for the sake of beings, my dear, that they are loved, आत्मनः तु कामाय भूतानि प्रियाणि भवन्ति – but for one’s own sake that they are loved.
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति।
न वैअरे सर्वस्य कामाय सर्वं प्रियं भवति – It is not for the sake of all, my dear, that all is loved, आत्मनः तु कामाय सर्वं प्रियं भवति – but for one’s own sake that it is loved.
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि
आत्मा वै अरे द्रष्टव्यः मैत्रेयि – The Self, my dear Maitreyī, should be realized (Draṣṭavya, should be known as obvious):
श्रोतव्यः – Should (first) be heard of (Śrotavya, from a teacher), मन्तव्यः – reflected on (Mantavya, till no doubts), निदिध्यासितव्यः – and meditated upon (Nididhyāsitavya, until assimilated first-person knowledge).
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्॥
आत्मनः वै अरे दर्शनेन – By the realization of the Self, my dear, श्रवणेन मत्या विज्ञानेन – through (repeated) hearing, reflection and meditation, इदं सर्वं विदितम् – all this is known.
♬
❚❚
BrhU.2.4.6
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽन्यत्रात्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद
ब्रह्म तं परा-दात् – The Brāhmaṇa ousts (slights) यः अन्यत्र आत्मनः ब्रह्म वेद – one who knows him as different from the Self. क्षत्त्रं तं परा-दात् – The Kṣatriya ousts one यः अन्यत्र आत्मनः क्षत्त्रं वेद who knows him as different from the Self. लोकाः तं परा-दुः – Worlds oust one यः अन्यत्र आत्मनः लोकान् वेद – who knows them as different from the Self.
देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद…
देवाः तं परा-दुः – The gods oust one भूतानि तं परा-दुः – who knows them as different from the Self (यः अन्यत्र आत्मनः देवान् वेद). Beings oust one यः अन्यत्र आत्मनः भूतानि वेद – who knows them as different from the Self. सर्वं तं परा-दात् – All ousts one यः अन्यत्र आत्मनः सर्वं वेद – who knows it as different from the Self.
इदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा॥
इदं ब्रह्म इदं क्षत्त्रम् इमे लोकाः इमे देवाः इमानि भूतानि इदं सर्वं – This Brāhmaṇa, this Kṣatriya, these worlds, these gods, these beings, and this all यद् अयम् आत्मा – are this Self.
♬
❚❚
BrhU.2.4.7
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः॥
सः यथा दुन्दुभेः हन्यमानस्य – As it is, when a drum is beaten, न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय – one cannot distinguish the external (Bāhya, i.e. its various particular) notes, दुन्दुभेः तु ग्रहणेन – but on knowing the drum (itself) दुन्दुभि-आघातस्य वा – or its (kinds of) beating, शब्दः गृहीतः – the (general) sound (of a drum) becomes known.
♬
❚❚
BrhU.2.4.8
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः॥
सः यथा शङ्खस्य ध्मायमानस्य – As it is, when a conch is blown, न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय – one cannot distinguish the external (i.e. its various particular) notes, शङ्खस्य तु ग्रहणेन – but on knowing the conch (itself) शङ्ख-ध्मस्य वा – or its (kinds of) playing शब्दः गृहीतः – the (general) sound (of a conch) becomes known.
♬
❚❚
BrhU.2.4.9
स यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः॥
सः यथा वीणायै वाद्यमानायै – As it is, when a Vīṇā is played, न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय – one cannot distinguish its various particulars notes, वीणायै तु ग्रहणेन – but on knowing the Vīṇā (itself) वीणा-वादस्य वा – or its (kinds of) playing शब्दः गृहीतः – the (general) sound (of a Vīṇā) becomes known.
♬
❚❚
BrhU.2.4.10
स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस…
सः यथा आर्द्र-एध-अग्नेः अभ्याहितात् – As it is from a fire kindled with wet fagot पृथक्-धूमाः विनिश्चरन्ति – diverse kinds of smoke (sparks, etc.) issue, एवं वै अरे यद् ऋक्-वेदः यजुर्-वेदः साम-वेदः अथर्व-अङ्गिरसः – even so, my dear, the Ṛg-Veda, Yajur-Veda, Sāma-Veda, Atharvāṅgirasa,
इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि॥
इति-हासः पुराणं विद्या – history, mythology, arts, उपनिषदः श्लोकाः सूत्राणि – Upaniṣads, pithy verses, aphorisms, अनुव्याख्यानानि व्याख्यानानि – elucidations and explanations, अस्य महतः भूतस्य निश्वसितम् एतद् – are (like) the breath of this infinite Reality. अस्य एव एतानि निश्वसितानि – They are like the breath of this (Supreme Self).
♬
❚❚
BrhU.2.4.11
स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनम्…
सः यथा सर्वासाम् अपां समुद्रः एक-अयनम् – As the ocean is the one goal (where they merge or are unified) of all sorts of water, एवं सर्वेषां स्पर्शानां त्वक् एक-अयनम् – as the skin is the one goal of all kinds of touch, एवं सर्वेषां गन्धानां नासिके एक-अयनम् – as the nostrils are the one goal of all odors,
एवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनम्
एवं सर्वेषां रसानां जिह्वा एक-अयनम् – as the tongue is the one goal of all savors, एवं सर्वेषां रूपाणां चक्षुस् एक-अयनम् – as the eye is the one goal of all colors, एवं सर्वेषां शब्दानां श्रोत्रम् एक-अयनम् – as the ear is the one goal of all sounds,
एवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनम्…
एवं सर्वेषां सङ्कल्पानां मनस् एक-अयनम् – As the Manas is the one goal of all deliberations, एवं सर्वासां विद्यानां हृदयम् एक-अयनम् – as the intellect (Hṛdaya) is the one goal of all kinds of knowledge, एवं सर्वेषां कर्मणां हस्तौ एक-अयनम् – as the hands are the one goal of all sort of work,
एवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम्॥
एवं सर्वेषाम् आनन्दानाम् उपस्थः एक-अयनम् – as the organ of generation is the one goal of all kinds of enjoyment, एवं सर्वेषां विसर्गाणां पायुः एक-अयनम् – as the anus is the one goal of all excretions, एवं सर्वेषाम् अध्वनां पादौ एक-अयनम् – as the feet are the one goal of all kinds of walking, एवं सर्वेषां वेदानां वाक् एक-अयनम् – as the organ of speech is the one goal of all Vedas.
♬
❚❚
BrhU.2.4.12
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात्। यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव।
सः यथा सैन्धव-खिल्यः उदके प्रास्तः – As a lump of salt dropped into water उदकम् एव अनुविलीयेत – dissolves with (its component) water, न ह अस्य उद्ग्रहणाय इव स्यात् – and no one is able to pick it (the lump) up, यतः यतः तु आददीत – but from wheresoever one takes it, लवणम् एव – it tastes salt, एवं वै अरे इदं महत्-भूतम् अन्-अन्तम् अ-पारम् – even so, my dear, this great, endless, infinite (A-pāra) Reality विज्ञान-घनः एव – is but Pure Intelligence.
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य सञ्ज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः॥
एतेभ्यः भूतेभ्यः समुत्थाय – (The Self) comes out (as a separate entity) from these elements, तानि एव अनु विनश्यति – and (this separateness) is destroyed with them. न प्रेत्य सञ्ज्ञा अस्ति – After attaining (this oneness) it has no more consciousness (that is, particular consciousness). इति अरे ब्रवीमि – This is what I say, my dear. इति ह उवाच याज्ञवल्क्यः – So said Yājña-valkya.
♬
❚❚
BrhU.2.4.13
सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य सञ्ज्ञास्तीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय॥
सा ह उवाच मैत्रेयी – Maitreyī said, अत्र एव मा भगवान् अमूमुहत् – ‘Just here you have thrown me into confusion, sir न प्रेत्य सञ्ज्ञा अस्ति इति – by saying that after attaining (oneness) (the self has) no more consciousness (Sañjñā)’.
सः ह उवाच न वै अरे अहं मोहं ब्रवीमि – Yājña-valkya said, ‘Certainly I am not saying anything confusing, my dear; अलं वै अरे इदं विज्ञानाय – this is quite sufficient for knowledge, O Maitreyī’.
♬
❚❚
BrhU.2.4.14
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति
यत्र हि द्वैतम् इव भवति – Because when there is duality, as it were, तद् इतरः इतरं जिघ्रति – then (Tad) one (thing) smells something (else), तद् इतरः इतरं पश्यति – one sees something, तद् इतरः इतरं शृणोति – one hears something, तद् इतरः इतरम् अभिवदति – one speaks something, तद् इतरः इतरं मनुते – one thinks something, तद् इतरः इतरं विजानाति – one knows something.
यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात्।
यत्र वै अस्य सर्वम् आत्मा एव अभूत् – (But) when (to the knower of Brahman) everything has become the Self तद् केन कं जिघ्रेत् – then what should one smell and through what, तद् केन कं पश्येत् – what should one see and through what, तद् केन कं शृणुयात् – what should one hear and through what, तद् केन कम् अभिवदेत् – what should one speak and through what, तद् केन कं मन्वीत – what should one think and through what, तद् केन कं विजानीयात् – what should one know and through what?
येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयादिति॥
येन इदं सर्वं विजानाति तं केन विजानीयात् – Through what should one know That owing to which all this is known — विज्ञातारम् अरे केन विजानीयात् इति – through what, O Maitreyī, should one know the Knower?
BrhU.2.5
♬
❚❚
BrhU.2.5.1
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषो…
इयं पृथिवी सर्वेषां भूतानां मधु – This earth is (like) honey (i.e. an effect, or mutually helpful) to all beings, अस्यै पृथिव्यै सर्वाणि भूतानि मधु – and all beings are (like) honey to this earth. यः च अयम् अस्यां पृथिव्यां तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining immortal being who is in this earth, यः च अयम् अध्यात्मं शारीरः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal, corporeal being in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality; इदं ब्रह्म – this (underlying unity) is Brahman; इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.2
इमा आपः सर्वेषां भूतानां मध्वासामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषो…
इमा आपः सर्वेषां भूतानां मधु – This water is like honey to all beings, आसाम् अपां सर्वाणि भूतानि मधु – and all beings are like honey to this water. यः च अयम् आसु अप्सु तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this water, यः च अयम् अध्यात्मं रैतसः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with the seed in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self, इद अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.3
अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषो…
अयम् अग्निः सर्वेषां भूतानां मधु – This fire is like honey to all beings, अस्य अग्नेः सर्वाणि भूतानि मधु – and all beings are like honey to this fire. यः च अयम् अस्मिन् अग्नौ तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this fire, यः च अयम् अध्यात्मं वाङ्-मयः तेजोमयः अ-मृतम् अयः पुरुषः – and the shining, immortal being identified with the organ of speech in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.4
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो…
अयं वायुः सर्वेषां भूतानां मधु – This air is like honey to all beings, अस्य वायोः सर्वाणि भूतानि मधु – and all beings are like honey to this air. यः च अयम् अस्मिन् वायौ तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this air, यः च अयम् अध्यात्मं प्राणः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being who is the vital force in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.5
अयमादित्यः सर्वेषां भूतानां मध्वस्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषो…
अयम् आदित्यः सर्वेषां भूतानां मधु – This sun is like honey to all beings, अस्य आदित्यस्य सर्वाणि भूतानि मधु – and all beings are like honey to this sun. यः च अयम् अस्मिन् आदित्ये तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this sun, यः च अयम् अध्यात्मं चाक्षुषः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with the eye in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.6
इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषो…
इमाः दिशः सर्वेषां भूतानां मधु – These quarters are like honey to all beings, आसां दिशां सर्वाणि भूतानि मधु – and all beings are like honey to these quarters. यः च अयम् आसु दिक्षु तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is these quarters, यः च अयम् अध्यात्मं श्रौत्रः प्राति-श्रुत्कः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with the ear and with the time of hearing in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.7
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषो…
अयं चन्द्रः सर्वेषां भूतानां मधु – This moon is like honey to all beings, अस्य चन्द्रस्य सर्वाणि भूतानि मधु – and all beings are like honey to this moon. यः च अयम् अस्मिन् चन्द्रे तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this moon, यः च अयम् अध्यात्मं मानसः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with the mind in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.8
इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषो…
इयं विद्युत् सर्वेषां भूतानां मधु – This lightning is like honey to all beings, अस्यै विद्युतः सर्वाणि भूतानि मधु – and all beings are like honey to this lightning. यः च अयम् अस्यां विद्युति तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this lightning, यः च अयम् अध्यात्मं तैजसः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with light in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.9
अयं स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषो…
अयं स्तनयित्नुः सर्वेषां भूतानां मधु – This cloud is like honey to all beings, अस्य स्तनयित्नोः सर्वाणि भूतानि मधु – and all beings are like honey to this cloud. यः च अयम् अस्मिन् स्तनयित्नौ तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this cloud, यः च अयम् अध्यात्मं शाब्दः सौवरः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with sound and voice in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.10
अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषो…
अयम् आकाशः सर्वेषां भूतानां मधु – This space is like honey to all beings, अस्य आकाशस्य सर्वाणि भूतानि मधु – and all beings are like honey to this space. यः च अयम् अस्मिन् आकाशे तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this space, यः च अयम् अध्यात्मं हृदि आकाशः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being who is (identified with) the space in the heart, in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.11
अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषो…
अयं धर्मः सर्वेषां भूतानां मधु – This righteousness (Dharma) is like honey to all beings, अस्य धर्मस्य सर्वाणि भूतानि मधु – and all beings are like honey to this righteousness. यः च अयम् अस्मिन् धर्मे तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this righteousness, यः च अयम् अध्यात्मं धार्मः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with righteousness in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.12
इदं सत्यं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषो…
इदं सत्यं सर्वेषां भूतानां मधु – This truth is like honey to all beings, अस्य सत्यस्य सर्वाणि भूतानि मधु – and all beings are like honey to this truth. यः च अयम् अस्मिन् सत्ये तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this truth, यः च अयम् अध्यात्मं सात्यः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with truth in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.13
इदं मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषो…
इदं मानुषं सर्वेषां भूतानां मधु – This human (This includes the other species) is like honey to all beings, अस्य मानुषस्य सर्वाणि भूतानि मधु – and all beings are like honey to this human species. यः च अयम् अस्मिन् मानुषे तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this human species, यः च अयम् अध्यात्मं मानुषः तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being identified with the human species in the body.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.14
अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषो…
अयम् आत्मा सर्वेषां भूतानां मधु – This (cosmic) body is like honey to all beings, अस्य आत्मनः सर्वाणि भूतानि मधु – and all beings are like honey to this (cosmic) body. यः च अयम् अस्मिन् आत्मनि तेजोमयः अ-मृतमयः पुरुषः – (The same with) the shining, immortal being who is in this (cosmic) body, यः च अयम् आत्मा तेजोमयः अ-मृतमयः पुरुषः – and the shining, immortal being who is this (individual) self.
…अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्॥
अयम् एव सः यः अयम् आत्मा – (These four) are but this Self. इदम् अ-मृतम् – This (Self-knowledge) is (the means of) immortality, इदं ब्रह्म – this (underlying unity) is Brahman, इदं सर्वम् – this (knowledge of Brahman) is (the means of becoming) all.
♬
❚❚
BrhU.2.5.15
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा॥
सः वै अयम् आत्मा सर्वेषां भूतानाम् अधिपतिः This Self, already mentioned, is the ruler of all beings, सर्वेषां भूतानां राजा – and the king of all beings.
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः॥
तद् यथा रथ-नाभौ च रथ-नेमौ च अराः सर्वे समर्पिताः – Just as all the spokes (Aras) are fixed (Samarpita) in the nave and the rim of a chariot-wheel, एवम् एव अस्मिन् आत्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्वे एते आत्मानः समर्पिताः – so are all beings, all gods, all worlds, all organs and all these (individual) selves fixed in this Self.
♬
❚❚
BrhU.2.5.16
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्।
इदं वै तद् मधु – This is that (meditation on things) mutually helpful (Madhu) दध्यङ् आथर्वणः अश्विभ्याम् उवाच – which Dadhyac, versed in the Atharva-Veda, taught the Asvins. तद् एतद् ऋषिः पश्यन् अवोचत् – Perceiving this the Ṛṣi said (this Mantra),
तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम्।
दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति॥
● तद् वां नराः सनये दंसः उग्रम् – ‘O Asvins in human form, that terrible deed called Daṃsa which you.
○ आविस् कृणोमि तन्यतुः न वृष्टिम् – committed out of greed. I will disclose as (Na) a cloud does rain,
● — दध्यङ् ह यद् मधु आथर्वणः वाम् – (how you learnt) the meditation on things mutually helpful that Dadhyac, versed in the Atharva-Veda, to you
○ अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच इति – taught through a horse’s head’.
♬
❚❚
BrhU.2.5.17
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्।
इदं वै तद् मधु – This is that (meditation on things) mutually helpful (Madhu) दध्यङ् आथर्वणः अश्विभ्याम् उवाच – which Dadhyac, versed in the Atharva-Veda, taught the Asvins. तद् एतद् ऋषिः पश्यन् अवोचत् – Perceiving this the Ṛṣi said,
आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम्।
स वां मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति॥
● आथर्वणाय अश्विनौ – ‘O Asvins, versed in the Atharva-Veda, दधीचे – on (the shoulders of) Dadhyac
○ अश्व्यं शिरः प्रत्यैरयतम् – you set a horse’s head.
● सः वां मधु प्रवोचत् – He taught you the (ritualistic) meditation on things mutually helpful, ऋतायन् – to keep his word,
○ त्वाष्ट्रम् – connected with the sun, यद् दस्रौ अपि कक्ष्यं वाम् इति – O terrible ones, as also the secret (spiritual) meditation (Kaṣya) on them to you’.
♬
❚❚
BrhU.2.5.18
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्।
इदं वै तद् मधु – This is that (meditation on things) mutually helpful (Madhu) दध्यङ् आथर्वणः अश्विभ्याम् उवाच – which Dadhyac, versed in the Atharva-Veda, taught the Asvins. तद् एतद् ऋषिः पश्यन् अवोचत् – Perceiving this the Ṛṣi said,
पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः।
पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति॥
● पुरस् चक्रे द्वि-पदः – ‘He made bodies with two feet.
○ पुरस् चक्रे चतुष्-पदः – and bodies with four feet.
● पुरः सः पक्षी भूत्वा – As a bird (the subtle body), the bodies he,
○ पुरुषः आविशत् इति – the Supreme Being, entered’.
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्॥
सः वै अयं पुरुषः सर्वासु पूर्षु पुरि-शयः – On account of his dwelling (Puri-śaya) in all bodies, He is called the Puruṣa, न एनेन किञ्चन अन्-आवृतम् – There is nothing that is not covered by Him, न एनेन किञ्चन अ-संवृतम् – nothing that is not pervaded by Him.
♬
❚❚
BrhU.2.5.19
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच। तदेतदृषिः पश्यन्नवोचत्।
इदं वै तद् मधु – This is that (meditation on things) mutually helpful (Madhu) दध्यङ् आथर्वणः अश्विभ्याम् उवाच which Dadhyac, versed in the Atharva-Veda, taught the Asvins. तद् एतद् ऋषिः पश्यन् अवोचत् – Perceiving this the Ṛṣi said,
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति।
● रूपं रूपं प्रतिरूपः बभूव – ‘(He) transformed Himself in accordance with each form;
○ तद् अस्य रूपं प्रतिचक्षणाय – that form of His was for the sake of making Him known.
● इन्द्रः मायाभिः पुरु-रूपः ईयते – The Lord on account of Māyā is perceived as manifold (Puru-rūpa).
○ युक्ताः हि अस्य हरयः शताः दश इति – for to Him are yoked ten (Daśa) organs, nay, hundreds śatas) of them.
अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्॥
अयं वै हरयः – He is the organs (Haris, like horses); अयं वै दश – He is ten च सहस्राणि – and thousands — बहूनि च अन्-अन्तानि च – many and infinite. तद् एतद् ब्रह्म अ-पूर्वम् अन्-अपरम् – That Brahman is without prior or posterior, अन्-अन्तरम् अ-बाह्यम् – without interior or exterior. अयम् आत्मा ब्रह्म सर्व-अनुभूः – This self, the perceiver of everything, is Brahman. इति अनुशासनम् – This is the teaching.
BrhU.2.6
♬
❚❚
BrhU.2.6.1
अथ वंशः पौतिमाष्यो गौपवनाद्गौपवनः पौतिमाष्यात्पौतिमाष्यो गौपवनाद्गौपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः॥
अथ वंशः – Now the line of teachers:
पौतिमाष्यः गौपवनात् – Pautimāṣya (received it) from Gaupa-vana,
गौपवनः पौतिमाष्यात् – Gaupa-vana from another Pautimāṣya.
पौतिमाष्यः गौपवनात् – This Pautimāṣya from another Gaupa-vana.
गौपवनः कौशिकात् – This Gaupa-vana from Kauśika.
कौशिकः कौण्डिन्यात् – Kauśika from Kauṇḍinya.
कौण्डिन्यः शाण्डिल्यात् – Kauṇḍinya from Śaṇḍilya.
शाण्डिल्यः कौशिकात् च गौतमात् च – Śaṇḍilya from Kauśika and Gautama.
गौतमः – Gautama…
♬
❚❚
BrhU.2.6.2
आग्निवेश्यादाग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात आनभिम्लातादानभिम्लात आनभिम्लातादानभिम्लातो गौतमाद्गौतमः सैतवप्राचीनयोग्याभ्यां सैतवप्राचीनयोग्यौ पाराशर्यात्पारशर्यो भारद्वाजाद्भारद्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भारद्वाजाद्भारद्वाजः पाराशर्यात्पाराशर्यो बैजवापायनाद्बैजवापायनः कौशिकायनेः कौशिकायनिः॥
…आग्निवेश्यात् – from Āgniveśya.
आग्निवेश्यः शाण्डिल्यात् च आनभिम्लातात् च – Āgniveśya from Śaṇḍilya and Ānabhimlāta.
आनभिम्लातः आनभिम्लातात् – Ānabhimlāta from another of that name.
आनभिम्लातः आनभिम्लातात् – He from a third Ānabhimlāta.
आनभिम्लातः गौतमात् – This Ānabhimlāta from Gautama.
गौतमः सैतव-प्राचीनयोग्याभ्याम् – Gautama from Saitava and Prācīnayogya.
सैतव-प्राचीनयोग्यौ पाराशर्यात् – They from Pārāśarya.
पारशर्यः भारद्वाजात् – Pārāśarya from Bhārad-vaja.
भारद्वाजः भारद्वाजात् च गौतमात् च – He from Bhārad-vaja and Gautama.
गौतमः भारद्वाजात् – Gautama from another Bhārad-vaja.
भारद्वाजः पाराशर्यात् – He from another Pārāśarya.
पाराशर्यः बैजवापायनात् – Pārāśarya from Baijavāpāyana.
बैजवापायनः कौशिकायनेः – He from Kauśikāyani.
कौशिकायनि – Kauśikāyani…
♬
❚❚
BrhU.2.6.3
घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्
गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः॥
घृतकौशिकात् – …from Ghṛtakauśika.
घृतकौशिकः पाराशर्यायणात् – Ghṛtakauśika from Pārāśaryāyana.
पाराशर्यायणः पाराशर्यात् – He from Pārāśarya.
पाराशर्यः जातूकर्ण्यात् – Pārāśarya from Jātūkarṇya.
जातूकर्ण्यः आसुरायणात् च यास्कात् च – Jātūkarṇya from Āsurāyaṇa and Yāska.
आसुरायणः त्रैवणेः – Āsurāyaṇa from Traivaṇi.
त्रैवणिः औपजन्धनेः – Traivaṇi from Aupajandhani.
औपजन्धनिः आसुरेः – He from Āsuri.
आसुरिः भारद्वाजात् – Āsuri from Bhārad-vaja.
भारद्वाजः आत्रेयात् – Bhārad-vaja from Ātreya.
आत्रेयः माण्टेः – Ātreya from Māṇṭi.
माण्टिः गौतमात् – Māṇṭi from Gautama.
गौतमः गौतमात् – Gautama from another Gautama.
गौतमः वात्स्यात् – He from Vātsya.
वात्स्यः शाण्डिल्यात् – Vātsya from Śāṇḍilya.
शाण्डिल्यः कैशोर्यात् काप्यात् – Śāṇḍilya from Kaiśorya Kāpya.
कैशोर्यः काप्यः कुमारहारितात् – He from Kumārahārita.
कुमारहारितः गालवात् – Kumārahārita from Gālava.
गालवः विदर्भी-कौण्डिन्यात् – Gālava from Vidarbhī-kauṇḍinya.
विदर्भी-कौण्डिन्यः वत्सनपातः बाभ्रवात् – He from Vatsanapāt Bābhrava.
वत्सनपाद् बाभ्रवः पथः सौभरात् – He from Pathin Saubhara.
पन्थाः सौभरः अयास्यात् आङ्गिरसात् – He from Ayāsya Āṅgirasa.
अयास्यः आङ्गिरसः आभूतेः त्वाष्ट्रात् – He from Ābhūti Tvāṣṭra.
आभूतिः त्वाष्ट्रः विश्वरूपात् त्वाष्ट्रात् – He from Viśvarūpa Tvāṣṭra.
विश्वरूपः त्वाष्ट्रः अश्विभ्याम् – He from the Aśvins.
अश्विनौ दधीचः आथर्वणात् – They from Dadhyac Ātharvaṇa.
दध्यङ् अथर्वणः अथर्वणः दैवात् – He from Atharvan Daiva.
अथर्वा दैवः मृत्योः प्राध्वंसनात् – He from Mṛtyu Prādhvaṃsana.
मृत्युः प्राध्वंसनः प्रध्वंसनात् – He from Prādhvaṃsana
प्रध्वंसनः एकर्षेः – Prādhvaṃsana from Ekarṣi.
एकर्षिः विप्रचित्ते – Ekarṣi from Viprachitti.
विप्रचित्तिः व्यष्टेः – Viprachitti from Vyaṣṭi.
व्यष्टिः सनारोः – Vyaṣṭi from Sanāru.
सनारुः सनातनात् – Sanāru from Sanātana.
सनातनः सनगात् – Sanātana from Sanaga.
सनगः परमेष्ठिनः – Sanaga from Parameṣṭhin (Virāj).
परमेष्ठी ब्रह्मणः – He from Brahman (Hiraṇya-garbha).
ब्रह्म स्वयम्-भु – Brahman is self born. ब्रह्मणे नमः – Salutation to Brahman.
Bṛhad-Āraṇyaka तृतीयोऽध्यायः (३.)
BrhU.3.1
♬
❚❚
BrhU.3.1.1
ओं जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्…
ओं जनकः ह वैदेहः बहु-दक्षिणेन यज्ञेन इजे – Om. Janaka, Emperor of Videha, performed a sacrifice in which gifts were freely distributed. तत्र ह कुरु-पञ्चालानां ब्राह्मणाः अभिसमेताः बभूवुः – Veda scholars from Kuru and Pañcāla were assembled there.
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कःस्विदेषां ब्राह्मणानामनूचानतम इति स ह गवां सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः॥
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव – Emperor Janaka of Videha had a desire to know, कःस्विद् एषां ब्राह्मणानाम् अनूचानतमः इति – ‘Which is the most erudite of these Veda scholars’? सः ह गवां सहस्रम् अवरुरोध – He had a thousand cows confined in a pen, दश दश पादाः एक-एकस्याः शृङ्गयोः आबद्धाः बभूवुः – and on the horns of each cow were fixed ten Pādas (one Pāda = about one-third of an ounce, of gold).
♬
❚❚
BrhU.3.1.2
तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति। ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इति ता होदाचकार
तान् ह उवाच – He said to them, ब्राह्मणाः भगवन्तः – ‘Revered Brāhmaṇas, यः वः ब्रह्मिष्ठः सः एताः गाः उदजताम् इति – let him who is the best Veda scholar among you drive these cows (home)’. ते ह ब्राह्मणाः न दधृषुः – None of the Brāhmaṇas dared.
अथ ह याज्ञ-वल्क्यः स्वम् एव ब्रह्म-चारिणम् उवाच – Then Yājña-valkya said to a pupil of his, एताः सोम्य उदज साम-श्रवा इति – ‘Dear Sāma-śravas, please drive these cows (home)’. ताः ह उदाचकार – He drove them.
ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्ठो ब्रुवीतेति
अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति
ते ह ब्राह्मणाः चुक्रुधुः – The Brāhmaṇas were enraged. कथं नः ब्रह्मिष्ठः ब्रुवीत इति – ‘How does he dare to call himself the best Veda scholar among us’?
अथ ह जनकस्य वैदेहस्य होता अश्वलः बभूव – There was a Hotṛ (priest) of Emperor Janaka of Videha named Aśvala. सः ह एनं पप्रच्छ – He now asked Yājña-valkya, त्वं नु खलु नः याज्ञ-वल्क्य ब्रह्मिष्ठः असी इति – ‘Yājña-valkya, are you indeed the best Veda scholar among us’?
स होवाच नामो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति तं ह तत एव प्रष्टुं दध्रे होताश्वलः॥
सः ह उवाच – Yājña-valkya replied, नामस् वयं ब्रह्मिष्ठाय कुर्मः – ‘I bow (Namas-kurmaḥ) to the best Veda scholar, गो-कामाः एव वयं स्मः इति – I just want the cows’. तं ह ततः एव प्रष्टुं दध्रे होता अश्वलः – Thereupon the Hotṛ Aśvala determined to interrogate him.
♬
❚❚
BrhU.3.1.3
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति
याज्ञवल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he (Aśvala), यद् इदं सर्वं मृत्युना आप्तम् – ‘since all this is overtaken by death, सर्वं मृत्युना अभिपन्नम् – and swayed by it, केन यजमानः मृत्योः आप्तिम् अतिमुच्यते इति – by what means does the sacrificer go beyond the clutches of death’?
होत्रर्त्विजाग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक्सोऽयमग्निः स होता स मुक्तिः सातिमुक्तिः॥
होत्रा ऋर्त्विजा अग्निना वाचा – (Yājña-valkya replied) ‘Through the organ of speech – through fire, which is the (real) priest called Hotṛ (Ṛg-Veda priest in charge of invocations). वाक् वै यज्ञस्य होता – The sacrifice(r)’s organ of speech is the Hotṛ. तद् या इयं वाक् सः अयम् अग्निः – This organ of speech is fire; सः होता – this (fire) is the Hotṛ; सः मुक्तिः – this (fire) is liberation; सा अतिमुक्तिः – this (liberation) is emancipation’.
♬
❚❚
BrhU.3.1.4
याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति…
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यद् इदं सर्वम् अहो-रात्राभ्याम् आप्तम् – ‘since all this is overtaken by day and night, सर्वम् अहो-रात्राभ्याम् अभिपन्नम् – and swayed by them, केन यजमानः अहो-रात्रयोः आप्तिम् अतिमुच्यते इति – by what means does the sacrificer go beyond the clutches of day and night’?
…अध्वर्युणर्त्विजा चक्षुषादित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः सातिमुक्तिः॥
अध्वर्युणा ऋत्विजा चक्षुषा आदित्येन – ‘Through the eye – through the sun, which is the (real) priest called Adhvaryu (Yajur-Veda priest in charge of accessories and oblations). चक्षुः वै यज्ञस्य अध्वर्युः – The eye of the sacrifice(r) is the Adhvaryu. तद् यद् इदं चक्षुः सः असौ आदित्यः – This eye is the sun; सः अध्वर्युः – this (sun) is the Adhvaryu; सः मुक्तिः – this (sun) is liberation; सा अतिमुक्तिः – this (liberation) is emancipation’.
♬
❚❚
BrhU.3.1.5
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति…
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यद् इदं सर्वं पूर्वपक्ष-अपरपक्षाभ्याम् आप्तम् – since all this is overtaken by the bright and dark fortnights, सर्वं पूर्वपक्ष-अपरपक्षाभ्याम् अभिपन्नम् – and swayed by them, केन यजमानः पूर्वपक्ष-अपरपक्षयोः आप्तिम् अतिमुच्यते इति – by what means does the sacrificer go beyond the bright and dark fortnights’?
…उद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः सातिमुक्तिः॥
उद्गात्रा ऋत्विजा वायुना प्राणेन – ‘Through the vital force – through air, which is the (real) priest called Udgātṛ (Sāma-Veda priest chanter). प्राणः वै यज्ञस्य उद्गाता – The vital force of the sacrifice(r) is the Udgātṛ. तद् यः अयं प्राणः सः वायुः – This vital force is air, सः उद्गाता – and it is the Udgātṛ; सः मुक्तिः – this (air) is liberation; सा अतिमुक्तिः – this (liberation) is emancipation’.
♬
❚❚
BrhU.3.1.6
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यद् इदम् अन्तर्-इक्षम् अन्-आरम्बणम् इव – ‘since the sky is, as it were, without a support, केन आक्रमेण यजमानः स्वर्गं लोकम् आक्रमते इति – through what support does the sacrificer go to heaven’?
ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिर्…
ब्रह्मणा ऋत्विजा मनसा चन्द्रेण – ‘Through the mind – through the moon, which is the (real) priest called Brahman (the multi-Veda priest who supervises the ritual). मनस् वै यज्ञस्य ब्रह्मा – The mind of the sacrifice(r) is the Brahman. तद् यद् इदं मनस् सः असौ चन्द्रः – This mind is the moon; सः ब्रह्मा – the (moon) is the Brahman; सः मुक्तिः – this (moon) is liberation; सा अतिमुक्तिः – this (liberation) is emancipation’.
इत्यतिमोक्षा अथ सम्पदः॥
इति अतिमोक्षाः – So far about the ways of emancipation; अथ सम्पदः – now about the meditations based on resemblance (Sampads).
♬
❚❚
BrhU.3.1.7
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृभिरिति
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he,
कतिभिः अयम् अद्य ऋग्भिः होता अस्मिन् यज्ञे करिष्यति इति – ‘with how many kinds of Ṛc will the Hotṛ do his part in this sacrifice today’?
तिसृभिः इति – ‘With three kinds’.
कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति॥
कतमाः ताः तिस्रः इति – ‘Which are those three’?
पुरोऽनुवाक्या च याज्या च शस्या एव तृतीया – ‘The preliminary, the sacrificial, and the eulogistic hymns as the third’.
किं ताभिः जयति इति – ‘What does he win through them’?
यद् किञ्च इदं प्राण-भृत् इति – ‘All this that is living (the three worlds: earth, sky and heaven)’.
♬
❚❚
BrhU.3.1.8
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, कति अयम् अद्य अध्वर्युः अस्मिन् यज्ञे आहुतीः होष्यति इति – ‘how many kinds of oblations will the Adhvaryu offer in this sacrifice today’?
तिस्रः इति – ‘Three’.
कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते
कतमाः ताः तिस्रः इति – ‘Which are those three’?
याः हुताः उज्ज्वलन्ति – ‘Those that blaze up on being offered, याः हुताः अतिनेदन्ते – those that make a great noise, when offered, याः हुताः अधिशेरते – and those that sink on being offered’.
किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको…
किं ताभिः जयति इति – ‘What does he win through them’?
याः हुताः उज्ज्वलन्ति देव-लोकम् एव ताभिः जयति – ‘Through those (Tābhiḥ) that blaze up on being offered he wins the world of the gods, दीप्यते इव हि देव-लोकः – for this world shines, as it were.
या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः॥
याः हुताः अतिनेदन्ते पितृ-लोकम् एव ताभिः जयति – Through those that make a great noise, when offered, he wins the world of the Manes, अति इव हि पितृ-लोकः – for this world is full of uproar (Ati, atinedate). याः हुताः अधिशेरते मनुष्य-लोकम् एव ताभिः जयति – And through those that sink on being offered, he wins the human world, अधस् इव हि मनुष्य-लोकः – for this world is lower’.
♬
❚❚
BrhU.3.1.9
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, कतिभिः अयम् अद्य ब्रह्मा यज्ञं दक्षिणतः देवताभिः गोपायति इति – ‘through how many gods does this Brahman from the right protect the sacrifice today’?
एकया इति – ‘Through one’.
कतमा सैकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति॥
कतमा सा एका इति – ‘Which is that one’?
‘The mind (मनस् एव इति). The mind is indeed infinite (अन्-अन्तं वै मनस्), and infinite are the Viśva-devas (अन्-अन्ताः विश्वे देवाः). Through this meditation he wins an infinite world’ (अन्-अन्तम् एव सः तेन लोकं जयति).
♬
❚❚
BrhU.3.1.10
याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, कति अयम् अद्य उद्गाता अस्मिन् यज्ञे स्तोत्रियाः स्तोष्यति इति – ‘how many classes of hymns will the Udgātṛ chant in this sacrifice today’?
तिस्रः इति – ‘Three classes’.
कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया
कतमाः ताः तिस्रः इति – ‘Which are those three’?
पुरोऽनुवाक्या च याज्या च शस्या एव तृतीया – ‘The preliminary, the sacrificial, and the eulogistic hymns as the third’.
कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या
कतमाः ताः याः अध्यात्मम् इति – ‘Which are those that have reference to the body’?
प्राणः एव पुरोऽनुवाक्या – ‘The Prāṇa is the preliminary hymn, अपानः याज्या – the Apāna is the sacrificial hymn, व्यानः शस्या – and the Vyāna is the eulogistic hymn’.
किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया
ततो ह होताश्वल उपरराम॥
किं ताभिः जयति इति – ‘What does he win through them’?
पृथिवी-लोकम् एव पुरोऽनुवाक्यया जयति – ‘Through the preliminary hymns he wins the earth, अन्तरिक्ष-लोकं याज्यया – through the sacrificial hymns he wins the sky, द्यु-लोकं शस्यया – and through the eulogistic hymns he wins heaven’.
ततः ह होता अश्वलः उपरराम – Thereupon the Hotṛ Aśvala kept silent
BrhU.3.2
♬
❚❚
BrhU.3.2.1
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति। अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति॥
अथ ह एनं जारत्-कारवः आर्त-भागः पप्रच्छ – Then Ārta-bhāga, of the line of Jarat-kāru, asked him. याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, कति ग्रहाः – ‘how many are the Grahas (organs, ‘graspers’), कति अतिग्रहाः इति – and how many are the Atigrahas (objects, ‘beyond the graspers’)’?
अष्टौ ग्रहाः अष्टौ अतिग्रहाः इति – ‘There are eight Grahas and eight Atigrahas’.
कतमे ते इति – ‘Which are those (eight Grahas and eight Atigrahas)?
♬
❚❚
BrhU.3.2.2
प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति॥
प्राणः वै ग्रहः – The Prāṇa (nose) indeed is (one of) the Graha(s); सः अपानेन अतिग्राहेण गृहीतः – it is controlled by the Atigraha (‘Atigrāha’), the Apāna (odor), अपानेन हि गन्धान् जिघ्रति – for one smells odors through the Apāna (the air breathed in).
♬
❚❚
BrhU.3.2.3
वाग्वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति॥
वाक् वै ग्रहः – The organ of speech indeed is the Graha; सः नाम्ना अतिग्राहेण गृहीतः – it is controlled by the Atigraha, the Atigraha, name, वाचा हि नामानि अभिवदति – for one utters names through the organ of speech.
BrhU.3.2.4
जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति॥
जिह्वा वै ग्रहः – The tongue indeed is the Graha; सः रसेन अतिग्राहेण गृहीतः – it is controlled by the Atigraha, taste, जिह्वया हि रसान् विजानाति – for one knows tastes through the tongue.
BrhU.3.2.5
चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति॥
चक्षुस् वै ग्रहः – The eye indeed is the Graha; सः रूपेण अतिग्राहेण गृहीतः – it is controlled by the Atigraha, color, चक्षुषा हि रूपाणि पश्यति – for one sees colors through the eye.
BrhU.3.2.6
श्रोत्रं वै ग्रहः स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति॥
श्रोत्रं वै ग्रहः – The ear indeed is the Graha; सः शब्देन अतिग्राहेण गृहीतः – it is controlled by the Atigraha, sound, श्रोत्रेण हि शब्दान् शृणोति – for one hears sounds through the ear.
BrhU.3.2.7
मनो वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते॥
मनस् वै ग्रहः – The mind indeed is the Graha; सः कामेन अतिग्राहेण गृहीतः – it is controlled by the Atigraha, desire, मनसा हि कामान् कामयते – for one wishes desires through the mind.
BrhU.3.2.8
हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति॥
हस्तौ वै ग्रहः – The hands indeed are the Graha; सः कर्मणा अतिग्राहेण गृहीतः – they are controlled by the Atigraha, work, हस्ताभ्यां हि कर्म करोति – for one does work through the hands.
BrhU.3.2.9
त्वग्वै ग्रहः स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः॥
त्वच् वै ग्रहः – The skin indeed is the Graha; सः स्पर्शेन अतिग्राहेण गृहीतः – it is controlled by the Atigraha, touch, त्वचा हि स्पर्शान् वेदयते – for one feels touch through the skin.
इति एते अष्टौ ग्रहाः अष्टौ अतिग्रहाः – These are the eight Grahas and eight Atigrahas.
♬
❚❚
BrhU.3.2.10
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति॥
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यद् इदं सर्वं मृत्योः अन्नम् – ‘since all this is the food of death, का स्विद् सा देवता यस्याः मृत्युः अन्नम् इति – who is that god whose food is death’?
अग्निः वै मृत्युः – ‘Fire is death; सः अपाम् अन्नम् – it is the food of water. अप पुनर्-मृत्युं जयति – (One who knows thus) conquers (Apa-jayati) further death’.
♬
❚❚
BrhU.3.2.11
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते॥
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यत्र अयं पुरुषः म्रियते – ‘when this (liberated) man dies, उद् अस्मात् प्राणाः क्रामन्ति – do his organs go up (Ud-krāmanti) from him, आहो न इति – or do they not’?
न इति ह उवाच याज्ञ-वल्क्यः – ‘No,’ replied Yājña-valkya, अत्र एव समवनीयन्ते – ‘(they) merge in him only. सः उच्छ्वयति – The body swells, आध्मायति – is inflated, आध्मातः मृतः शेते – and in that state lies dead’.
♬
❚❚
BrhU.3.2.12
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति॥
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यत्र अयं पुरुषः म्रियते – ‘when this man dies किम् एनं न जहाति इति – , what is it that does not leave him’?
नाम इति – ‘Name. अन्-अन्तं वै नाम – The name indeed is infinite, अन्-अन्ताः विश्वे देवाः – and infinite are the Viśva-devas. अन्-अन्तम् एव स तेन लोकं जयति – He (who knows thus) wins thereby a really infinite world’.
♬
❚❚
BrhU.3.2.13
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं
याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, यत्र अस्य पुरुषस्य मृतस्य अग्निं वाक् अप्येति – ‘when the vocal organ (i.e. its presiding deity) of a man who dies is merged in fire, वातं प्राणः – the nose in air, चक्षुस् आदित्यम् – the eye in the sun, मनस् चन्द्रम् – the mind in the moon,
दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतितीति
दिशः श्रोत्रम् – the ear in the quarters, पृथिवीं शरीरम् – the body in the earth, आकाशम् आत्मा – the space of the heart (Ātmā) in the external space, ओषधीः लोमानि – the hair on the body in herbs, वनस्-पतीन् केशाः – that on the head in trees, अप्सु लोहितं च रेतस् च निधीयते – and the blood and the seed are deposited in water,
क्व अयं तदा पुरुषः भवति इति – where is then the man?
आहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति।
आहर सोम्य हस्तम् आर्तभाग – ‘Give me your hand, dear Ārta-bhāga, आवाम् एव एतस्य वेदिष्यावः – we will decide this between ourselves, न नौ एतत् सजने इति – we cannot do it in a crowded place.’
तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम॥
तौ ह उत्क्रम्य मन्त्रयाञ्-चक्राते – They (Yājña-valkya and Ārta-bhāga) went out and talked it over. तौ ह यद् ऊचतुः कर्म ह एव तद् ऊचतुः – What they mentioned there was only work (Karma), अथ यद् प्रशशंसतुः कर्म ह एव तद् प्रशशंसतुः – and what they praised there was also work alone. पुण्यः वै पुण्येन कर्मणा भवति – (Therefore) one indeed becomes good through good work, पापः पापेन इति – and evil through evil work.
ततः ह जारत्-कारवः आर्त-भागः उपरराम – Thereupon Ārta-bhāga, of the line of Jarat-kāru, kept silent.
BrhU.3.3
♬
❚❚
BrhU.3.3.1
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच।
अथ ह एनं भुज्युः लाह्य-अयनिः पप्रच्छ – Then Bhujyu, the grandson of Lahya, asked him. याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he,
मद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिरस इति
मद्रेषु चरकाः पर्यव्रजाम – ‘We travelled in Madra as students (Cakarakas), ते पतञ्जलस्य काप्यस्य गृहान् ऐम – and we came to the house of Patañcala of the line of Kapi. तस्य आसीत् दुहिता गन्धर्व-गृहीता – His daughter was possessed by a Gandharva.
तम् अपृच्छाम कः असि इति – We asked him (the Gandharva), “Who are you”?
सः अब्रवीत् सुधन्वा अङ्गिरसः इति – He said, “I am Sudhanvan, of the line of Aṅgiras”.
तं यदा लोकानामन्तानपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन्स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति॥
तं यदा लोकानाम् अन्तान् अपृच्छाम – When we asked him about the limits of the world, अथ एनम् अब्रूम क्व पारिक्षिताः अभवन् इति – we said to him, “Where were the descendants of Parikṣit”?
क्व पारिक्षिताः अभवन् सः त्वा पृच्छामि – And I ask you, Yājña-valkya, where were the descendants of Parikṣit? क्व पारिक्षिताः अभवन् इति – (Tell me) where were the descendants of Parikṣit’?
♬
❚❚
BrhU.3.3.2
स होवाचोवाच वै सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति
सः ह उवाच – Yājña-valkya said, उवाच वै सः अगच्छन् वै ते तद् – ‘The Gandharva evidently told you that they went यत्र अश्व-मेध-याजिनः गच्छन्ति इति – where the performers of the horse sacrifice go’.
क्व नु अश्वमेध-याजिनः गच्छन्ति इति – ‘And where do the performers of the horse sacrifice go’?
द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं पृथिवी द्विस्तावत्पर्येति तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति
द्वा-त्रिं-शतं वै देव-रथ-अह्न्यानि अयं लोकः – ‘Thirty-two times the space covered by the sun’s chariot in a day makes this world (Loka, cosmically, the habited area(s) by mankind); तं समन्तं पृथिवी द्विस्-तावत् पर्येति – around it, covering twice the area, is the earth (Pṛthivī, cosmically, this is the uninhabited area(s) including the intermediary space and planets); तां समन्तं पृथिवीं द्विस्-तावत् समुद्रः पर्येति – around the earth, covering twice the area, is the ocean (Samudra, cosmically, it would be the heavens including the Milky Way and other galaxies beyond the sun and its solar winds).
तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्…
तद् यावती क्षुरस्य धारा यावद् वा मक्षिकायाः पत्रम् – Now, as is the edge of a razor, or the wing of a fly, तावान् अन्तरेण आकाशः – so is there just that much opening at the junction (of the two halves of the cosmic shell, hence Virāj’s cosmos is the intended context in this imagery).
तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशंस
तान् इन्द्रः सु-पर्णः भूत्वा वायवे प्रायच्छत् – (Through that they go out) Fire, in the form of a falcon, delivered them to the air; तान् वायुः आत्मनि धित्वा – the air, putting them in itself, यत्र अश्वमेध-याजिनः अभवन् इति – took them (to heaven) where the (previous) performers of the horse sacrifice were’. एवम् इव वै सः वायुम् एव प्रशशंस – Thus did the Gandharva praise the air (As symbolizing the cosmic vital force, movement).
तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम॥
तस्मात् वायुः एव व्यष्टिः – Therefore the air is the diversity of individuals, वायुः समष्टिः – and the air is the aggregate. अप पुनर्-मृत्युं जयति यः एवं वेद – He who knows it as such conquers (Apa-jayati) further death.
ततः ह भुज्युः लाह्यायनिः उपरराम – Thereupon Bhujyu, the grandson of Lahya, kept silent.
BrhU.3.4
♬
❚❚
BrhU.3.4.1
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः
अथ ह एनम् उषस्तः चाक्रायणः पप्रच्छ – Then Uṣasta, the son of Cakra, asked him, याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya’, said he, तं मे व्याचक्ष्व – ‘explain to me यद् साक्षात् अ-परोक्षात् ब्रह्म – the Brahman that is immediate (Sa-akṣāt, not obstructed) and direct (A-paras-akṣāt, not indirect) — यः आत्मा सर्व-अन्तरः इति – the self that is within all’.
एषः ते आत्मा सर्व-अन्तरः – ‘This is your self that is within all’.
कतमो याज्ञवल्क्य सर्वान्तरो
कतमः याज्ञ-वल्क्य सर्व-अन्तरः – ‘Which is within all, Yājña-valkya’?
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः॥
यः प्राणेन प्राणिति सः ते आत्मा सर्व-अन्तरः – ‘That which breathes through the Prāṇa is your self that is within all. यः अपानेन अपानीति सः ते आत्मा सर्व-अन्तरः – That which moves downwards through the Apāna is your self that is within all. यः व्यानेन व्यानीति सः ते आत्मा सर्व-अन्तरः – That which pervades through the Vyāna is your self that is within all. यः उदानेन उदानिति सः ते आत्मा सर्व-अन्तरः – That which goes out through the Udāna is your self that is within all. एषः ते आत्मा सर्व-अन्तरः – This is your self that is within all’.
♬
❚❚
BrhU.3.4.2
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति
सः ह उवाच उषस्तः चाक्रायणः – Uṣasta, the son of Cakra said, यथा विब्रूयात् असौ गौः असौ अश्वः इति एवम् एव एतद् व्यपदिष्टं भवति – ‘You have indicated (Vyapadiṣṭa) it as one may say (Vibrūyāt) that a cow is such and such, or a horse is such and such.
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः
तं मे व्याचक्ष्व – Explain to me यद् एव साक्षात् अ-परोक्षात् ब्रह्म – the Brahman that is immediate and direct — यः आत्मा सर्व-अन्तरः इति – the self that is within all’.
एषः ते आत्मा सर्व-अन्तरः – ‘This is your self that is within all’.
कतमो याज्ञवल्क्य सर्वान्तरः। न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः।
कतमः याज्ञ-वल्क्य सर्व-अन्तरः – ‘Which is within all, Yājña-valkya’?
न दृष्टेः द्रष्टारं पश्येः – ‘You cannot see that which is the witness of vision; न श्रुतेः श्रोतारं शृणुयाः – you cannot hear that which is the hearer of hearing; न मतेः मन्तारं मन्वीथाः – you cannot think that which is the thinker of thought; न विज्ञातेः विज्ञातारं विजानीयाः – you cannot know that which is the knower of knowledge.
एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम॥
एषः ते आत्मा सर्व-अन्तरः – This is your (immediate, direct) self that is within all, अतः अन्यद् आर्तम् – everything else but this is perishable (Ārta, comes-and-goes, ā-ṛ-ta – ār-ta, i.e. saṃsāra)’.
ततः ह उषस्तः चाक्रायणः उपरराम – Thereupon Uṣasta, the son of Cakra, kept silent.
BrhU.3.5
♬
❚❚
BrhU.3.5.1
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः।
अथ ह एनं कहोलः कौषीतकेयः पप्रच्छ – Then Kahola, the son of Kuṣītaka, asked him, याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ said he, तं मे व्याचक्ष्व – ‘explain to me यद् एव साक्षात् अ-परोक्षात् ब्रह्म – the Brahman that is immediate and direct — यः आत्मा सर्व-अन्तरः इति – the self that is within all’.
एषः ते आत्मा सर्व-अन्तरः – ‘This is your self that is within all’.
कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति।
कतमः याज्ञ-वल्क्य सर्व-अन्तरः – ‘Which is within all, Yājña-valkya’?
यः अशनाया-पिपासे शोकं मोहं जरां मृत्युम् अत्येति – ‘That which transcends hunger (Aśanāyā) and thirst (Pipāsa), grief, delusion, decay and death.
एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति
एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः – Knowing this very Self the Brāhmaṇas पुत्र-एषणायाः च वित्त-एषणायाः च लोक-एषणायाः च व्युत्थाय – renounce (Vyutthāya) the desire (Eṣaṇā, in 5th case ‘from the desire’) for sons, for wealth and for the worlds, अथ भिक्षा-चर्यं चरन्ति – and lead a mendicant’s life.
या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः।
या हि एव पुत्र-एषणा – That which is the desire for sons सा वित्त-एषणा – is the desire for wealth, या वित्त-एषणा – and that which is the desire for wealth सा लोक-एषणा – is the desire for worlds, उभे हि एते एषणे एव भवतः – for both these are but desires.
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः
तस्मात् ब्राह्मणः – Therefore the knower of Brahman, पाण्डित्यं निर्विद्य – having known all about scholarship, बाल्येन तिष्ठासेत् – should try to live upon that strength (which comes of knowledge); बाल्यं च पाण्डित्यं च निर्विद्य – having known all about this strength and scholarship, अथ मुनिः – he becomes meditative; अ-मौनं च मौनं च निर्विद्य – having known all about both meditativeness and its opposite, अथ ब्राह्मणः – he becomes a knower of Brahman.
केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम॥
केन स्यात् – How does that knower of Brahman behave?
येन स्यात् तेन ईदृशः एव – Howsoever he may behave, he is just such. अतः अन्यद् आर्तम् – Except this, everything is perishable’.
ततः ह कहोलः कौषीतकेयः उपरराम – Thereupon Kahola, the son of Kuṣītaka, kept silent.
BrhU.3.6
♬
❚❚
BrhU.3.6.1
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति
अथ ह एनं गार्गी वाचक्नवी पप्रच्छ – Then Gārgī, the daughter of Vacaknu, asked him. याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ she said, कस्मिन् नु खलु आपः ओताः च प्रोताः च इति – ‘if all this is pervaded by water (यद् इदं सर्वम् अप्सु ओतं च प्रोतं च), by what is water pervaded’? वायौ गार्गि इति – ‘By air, O Gārgī’.
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति
कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति
कस्मिन् नु खलु वायुः ओतः च प्रोतः च इति – ‘By what is air pervaded’? अन्तरिक्ष-लोकेषु गार्गि इति – ‘By the world(s) of sky, O Gārgī’.
कस्मिन् नु खलु अन्तरिक्ष-लोकाः ओताः च प्रोताः च इति – ‘By what is the sky pervaded’? गन्धर्व-लोकेषु गार्गि इति – ‘By the world(s) of the Gandharvas (Celestial minstrels), O Gārgī’.
कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति
कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति
कस्मिन् नु खलु गन्धर्व-लोकाः ओताः च प्रोताः च इति – ‘By what is the world(s) of the Gandharvas pervaded’? आदित्य-लोकेषु गार्गि इति – ‘By the sun, O Gārgī’.
कस्मिन् नु खलु आदित्य-लोकाः ओताः च प्रोताः च इति – ‘By what is the sun pervaded’? चन्द्र-लोकेषु गार्गि इति – ‘By the moon, O Gārgī’.
कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति
कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति
कस्मिन्नु खलु चन्द्र-लोकाः ओताः च प्रोताः च इति – ‘By what is the moon pervaded’? नक्षत्र-लोकेषु गार्गि इति – ‘By the stars, O Gārgī’.
कस्मिन् नु खलु नक्षत्र-लोकाः ओताः च प्रोताः च इति – ‘By what are the stars pervaded’? देव-लोकेषु गार्गि इति – ‘By the world(s) of the gods, O Gārgī’.
कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलोकेषु गार्गीति
कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति
कस्मिन् नु खलु देव-लोकाः ओताः च प्रोताः च इति – ‘By what is the world(s) of the gods pervaded’? इन्द्र-लोकेषु गार्गि इति – ‘By the world(s) of Indra, O Gārgī’.
कस्मिन् नु खलु इन्द्र-लोकाः ओताः च प्रोताः च इति – ‘By what is the world(s) of Indra pervaded’? प्रजापति-लोकेषु गार्गि इति – ‘By the world(s) of Prajā-pati (i.e. Virāj), O Gārgī’.
कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति
कस्मिन् नु खलु प्रजापति-लोका ओताः च प्रोताः च इति – ‘By what is the world(s) of Prajā-pati (i.e. Virāj) pervaded’? ब्रह्मलोकेषु गार्गि इति – ‘By the world(s) of Brahman (i.e. Hiraṇya-garbha), O Gārgī’.
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्राक्षीरिति
कस्मिन् नु खलु ब्रह्म-लोकाः ओताः च प्रोताः च इति – ‘By what is the world(s) of Brahman (i.e. Hiraṇya-garbha) pervaded’?
स ह उवाच – He said, गार्गि मा अतिप्राक्षीः – ‘Do not, O Gārgī, push your inquiry too far, मा ते मूर्धा व्यपप्तत् – lest your head should fall off. अन्-अतिप्रश्न्यां वै देवताम् अतिपृच्छसि – You are questioning about a deity that should not be reasoned about. गार्गि मा अतिप्राक्षीः इति – Do not, O Gārgī, push your inquiry too far’.
ततो ह गार्गी वाचक्नव्युपरराम॥
ततः ह गार्गी वाचक्नवी उपरराम – Thereupon Gārgī, the daughter of Vacaknu, kept silent.
BrhU.3.7
♬
❚❚
BrhU.3.7.1
अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद्भार्या गन्धर्वगृहीता
अथ ह एनम् उद्दालकः आरुणिः पप्रच्छ – Then Uddālaka, the son of Aruṇa, asked him. याज्ञ-वल्क्य इति ह उवाच – ‘Yājña-valkya,’ he said, मद्रेषु अवसाम पतञ्जलस्य काप्यस्य गृहेषु – ‘in Madra we lived in the house (the compound) of Patañcala Kāpya (descendant of Kapi), यज्ञम् अधीयानाः – studying the scriptures on sacrifices. तस्य आसीत् भार्या गन्धर्व-गृहीता – His wife was possessed by a Gandharva.
तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति
तम् अपृच्छाम कः असि इति – We asked him (the Gandharva) who he was. सः अब्रवीत् कबन्धः आथर्वणः इति – He said, “Kabandha, the son of Atharvan”.
सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तद्भगवन्वेदेति
सः अब्रवीत् पतञ्जलं काप्यं याज्ञिकान् च – He said to Patañcala Kāpya and those who studied the scriptures on sacrifices, वेत्थ नु त्वं काप्य तद् सूत्रम् – do you know that Sūtra येन अयं च लोकः परः च लोकः – by which this life, the next life सर्वाणि च भूतानि सन्दृब्धानि भवन्ति इति – and all beings are held together”?
सः अब्रवीत् पतञ्जलः काप्यः न अहं तद् भगवन् वेद इति – Patañcala Kāpya said, “I do not know it, sir”.
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तं भगवन्वेदेति
सः अब्रवीत् पतञ्जलं काप्यं याज्ञिकान् च – The Gandharva said to him and the students, वेत्थ नु त्वं काप्य तम् अन्तर्-यामिणम् – “Kāpya, do you know that Internal Ruler यः इमं च लोकं परं च लोकं सर्वाणि च भूतानि यः अन्तरः यमयति इति – who controls this and the next life and all beings from within”?
सः अब्रवीत् पतञ्जलः काप्यः न अहं तं भगवन् वेद इति – Patañcala Kāpya said, “I do not know Him, sir”.
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति
सः अब्रवीत् पतञ्जलं काप्यं याज्ञिकान् च – The Gandharva said to him and the students, यः वै तद् काप्य सूत्रं विद्यात् तं च अन्तर्-यामिणम् इति – “He who knows that Sūtra and that Internal Ruler as above indeed सः ब्रह्म-विद् – knows (the Supreme) Brahman, सः लोक-विद् सः देव-विद् – knows the worlds, knows the gods, सः वेद-विद् सः भूत-विद् – knows the Vedas, knows beings, सः आत्म-विद् सः सर्व-विद् इति – knows the (agent) self, and knows everything”.
तेभ्योऽब्रवीत्तदहं वेद
तेभ्यः अब्रवीत् – He explained it all to them. तद् अहं वेद – I (Uddālaka) know it.
तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति
तद् चेद् त्वं याज्ञ-वल्क्य सूत्रम् अ-विद्वान् – If (Ced = ca id) you, Yājña-valkya, do not know that Sūtra तं च अन्तर्-यामिणम् – and that Internal Ruler, ब्रह्म-गवीः उदजसे – and still take away the cows that belong only to the knowers of Brahman, मूर्धा ते विपतिष्यति इति – your head shall fall off’.
वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो वा इदं कश्चिद्ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति॥
वेद वै अहं गौतम – ‘I know, O Gautama, तद् सूत्रं तं च अन्तर्-यामिणम् इति – that Sūtra and that Internal Ruler’.
यः वै इदं कश्चिद् ब्रूयात् वेद वेद इति – ‘Any one can say, “I know, I know”. यथा वेत्थ तथा ब्रूहि इति – Tell us what you know’.
♬
❚❚
BrhU.3.7.2
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति
स ह उवाच – He said, वायुः वै गौतम तद् सूत्रम् – ‘Vāyu, O Gautama, is that Sūtra. वायुना वै गौतम सूत्रेण – Through this Sūtra or Vāyu, O Gautama, अयं च लोकः परः च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति – this and the next life and all beings are held together.
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहीति॥
तस्मात् वै गौतम पुरुषं प्रेतम् – Therefore, O Gautama, when a man dies, आहुः व्यस्रंसिषत अस्य अङ्गानि इति – they say that his limbs have been loosened, वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्ति इति – for they are held together, O Gautama, by the Sūtra or Vāyu’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘Quite so, Yājña-valkya. अन्तर्-यामिणं ब्रूहि इति – Now describe the Internal Ruler’.
♬
❚❚
BrhU.3.7.3
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः पृथिव्यां तिष्ठन् – He who inhabits the earth, पृथिव्याः अन्तरः – but is within it (i.e. is other than the deity Earth), यं पृथिवी न वेद – whom the earth does not know, यस्य पृथिवी शरीरम् – whose body is earth, यः पृथिवीम् अन्तरः यमयति – and who controls the earth from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
♬
❚❚
BrhU.3.7.4
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः अप्सु तिष्ठन् अद्भ्यः अन्तरः – He who inhabits water, but is within it (i.e. is other than the deity Water), यम् आपः न विदुः – whom water does not know, अस्य आपः शरीरं यः अपः अन्तरः यमयति – whose body is water, and who controls water from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.5
योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः अग्नौ तिष्ठन् अग्नेः अन्तरः – He who inhabits fire, but is within it, यम् अग्निः न वेद – whom fire does not know, यस्य अग्निः शरीरं यः अग्निम् अन्तरः यमयति – whose body is fire, and who controls fire from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.6
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः अन्तरिक्षे तिष्ठन् अन्तरिक्षात् अन्तरः – He who inhabits the sky, but is within it, यम् अन्तरिक्षं न वेद – whom the sky does not know, यस्य अन्तरिक्षं शरीरं यः अन्तरिक्षम् अन्तरः यमयति – whose body is the sky, and who controls the sky from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.7
यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः वायौ तिष्ठन् वायोः अन्तरः – He who inhabits air, but is within it, यं वायुः न वेद – whom air does not know, यस्य वायुः शरीरं यः वायुम् अन्तरः यमयति – whose body is air, and who controls air from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.8
यो दिवि तिष्ठन्दिवोऽन्तरोयं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः दिवि तिष्ठन् दिवः अन्तरः – He who inhabits heaven, but is within it, यं द्यौः न वेद – whom heaven does not know, यस्य द्यौः शरीरं यः दिव, अन्तरः यमयति – whose body is heaven, and who controls heaven from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.9
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः आदित्ये तिष्ठन् आदित्यात् अन्तरः – He who inhabits the sun, but is within it, यम् आदित्यः न वेद – whom the sun does not know, यस्य आदित्यः शरीरं यः आदित्यम् अन्तरः यमयति – whose body is the sun, and who controls the sun from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.10
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः दिक्षु तिष्ठन् दिग्भ्यः अन्तरः – He who inhabits the quarters, but is within them, यं दिशः न विदुः – whom the quarters do not know, यस्य दिशः शरीरं यः दिशः अन्तरः यमयति – whose body is the quarters, and who controls the quarters from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.11
यश्चान्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः चान्द्र-तारके तिष्ठन् चन्द्रतारकात् अन्तरः – He who inhabits the moon and stars, but is within them, यं चन्द्र-तारकं न वेद – whom the moon and stars do not know, यस्य चन्द्र-तारकं शरीरं यः चन्द्र-तारकम् अन्तरः यमयति – whose body is the moon and stars, and who controls the moon and stars from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.12
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः आकाशे तिष्ठन् आकाशात् अन्तरः – He who inhabits the space, but is within it, यम् आकाशः न वेद – whom the space does not know, यस्य आकाशः शरीरं यः आकाशम् अन्तरः यमयति – whose body is the space, and who controls the space from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.13
यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः तमसि तिष्ठन् तमसः अन्तरः – He who inhabits darkness, but is within it, यं तमस् न वेद – whom darkness does not know, यस्य तमस् शरीरं यः तमस् अन्तरः यमयति – whose body is darkness, and who controls darkness from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.14
यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृत इत्यधिदैवतमथाधिभूतम्॥
यः तेजसि तिष्ठन् तेजसः अन्तरः – He who inhabits light, but is within it, यं तेजस् न वेद – whom light does not know, यस्य तेजस् शरीरं यः तेजस् अन्तरः यमयति – whose body is light, and who controls light from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.15
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृत…
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यः भूतेभ्यः अन्तरः – He who inhabits all beings, but is within them, यं सर्वाणि भूतानि न विदुः – whom no beings knows, यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतानि अन्तरः यमयति – whose body is all beings, and who controls all beings from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
इत्यधिभूतमथाध्यात्मम्॥
इति अधिभूतम् – This much with reference to the beings. अथ अध्यात्मम् – Now with reference to the body.
♬
❚❚
BrhU.3.7.16
यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः प्राणे तिष्ठन् प्राणात् अन्तरः – He who inhabits the nose (sense of smell), but is within it (i.e. is other than the deity of the sense of smell), यं प्राणः न वेद – whom the nose does not know, यस्य प्राणः शरीरं यः प्राणम् अन्तरः यमयति – whose body is the nose, and who controls the nose from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.17
यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः वाचि तिष्ठन् वाचः अन्तरः – He who inhabits the organ of speech, but is within it, यं वाक् न वेद – whom the organ of speech does not know, यस्य वाक् शरीरं यो वाचम् अन्तरः यमयति – whose body is the organ of speech, and who controls the organ of speech from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.18
यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः चक्षुषि तिष्ठन् चक्षुषः अन्तरः – He who inhabits the eye, but is within it, यं चक्षुः न वेद – whom the eye does not know, यस्य चक्षुः शरीरं यः चक्षुः अन्तरः यमयति – whose body is the eye, and who controls the eye from within, is the Internal Ruler, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.19
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः श्रोत्रे तिष्ठन् श्रोत्रात् अन्तरः – He who inhabits the ear, but is within it, यं श्रोत्रं न वेद – whom the ear does not know, यस्य श्रोत्रं शरीरं यः श्रोत्रम् अन्तरः यमयति – whose body is the ear, and who controls the ear from within, is the Internal Ruler, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.20
यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः मनसि तिष्ठन् मनसः अन्तरः – He who inhabits the mind (Manas), but is within it, यं मनस् न वेद – whom the mind does not know, यस्य मनस् शरीरं यः मनस् अन्तरः यमयति – whose body is the mind, and who controls the mind from within, is the Internal Ruler, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.21
यस्त्वचि तिष्टं स्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः त्वचि तिष्टन् त्वचः अन्तरः – He who inhabits the skin, but is within it, यं त्वच् न वेद – whom the skin does not know, यस्य त्वच् शरीरं यः त्वचम् अन्तरः यमयति – whose body is the skin, and who controls the the skin from within, is the Internal Ruler, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.22
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः॥
यः विज्ञाने तिष्ठन् विज्ञानात् अन्तरः – He who inhabits the intellect, but is within it, यं विज्ञानं न वेद – whom the intellect does not know, यस्य विज्ञानं शरीरं यः विज्ञानम् अन्तरः यमयति – whose body is the intellect, and who controls the intellect from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
BrhU.3.7.23
यो रेतसि तिष्ठन्रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतो…
यः रेतसि तिष्ठन् रेतसः अन्तरः – He who inhabits the organ of generation (Retas, ‘the seed’), but is within it, यं रेतस् न वेद – whom the organ does not know, यस्य रेतस् शरीरं यः रेतस् अन्तरः यमयति – whose body is the organ, and who controls the organ from within, एषः ते आत्मा अन्तर्-यामि अ-मृतः – is the Internal Ruler, your own immortal self.
…अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञात…
अ-दृष्टः द्रष्टा – He is never seen, but is the Witness; अ-श्रुतः श्रोता – He is never heard, but is the Hearer; अ-मतः मन्ता – He is never thought, but is the Thinker; अ-विज्ञातः विज्ञाता – He is never known, but is the Knower.
न अन्यः अतः अस्ति द्रष्टा – There is no other witness but Him; न अन्यः अतः अस्ति श्रोता – no other hearer but Him; न अन्यः अतः अस्ति मन्ता – no other thinker but Him; न अन्यः अतः अस्ति विज्ञाता – no other knower but Him.
…एष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम॥
एषः ते आत्मा अन्तर्-यामि अ-मृतः – He is the Internal Ruler, your own immortal self. अतः अन्यद् आर्तम् – Everything else but Him is mortal.
ततः ह उद्दालकः आरुणिः उपरराम – Thereupon Uddālaka, the son of Aruṇa kept silent.
BrhU.3.8
♬
❚❚
BrhU.3.8.1
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति पृच्छ गार्गीति॥
अथ ह वाचक्नवी उवाच – Then the daughter of Vacaknu said, ब्राह्मणाः भगवन्तः हन्त अहम् इमं द्वौ प्रश्नौ प्रक्ष्यामि – ‘Revered Brāhmaṇas, I shall ask him two questions. तौ चेद् मे वक्ष्यति – Should he answer me those, न वै जातु युष्माकम् – none of you इमं कश्चिद् ब्रह्म-उद्यं जेता इति – can ever beat him in describing Brahman’.
पृच्छ गार्गि इति – ‘Ask, O Gārgī’ (replied the Brāhmaṇas).
♬
❚❚
BrhU.3.8.2
सा होवाचाहं वै त्वा याज्ञवल्क्य
सा ह उवाच – She said, अहं वै त्वा याज्ञ-वल्क्य – ‘I (shall ask) you (two questions), O Yājña-valkya.
यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपादस्थां तौ मे ब्रूहीति पृच्छ गार्गीति॥
यथा काश्यः वा वैदेहः वा उग्र-पुत्रः – As a man of Banaras or the King of Videha, scion of a warlike dynasty, उज्ज्यं धनुस् अधिज्यं कृत्वा – might string his unstrung (Ujjya) bow उपोत्तिष्ठेत् – and appear close by, हस्ते कृत्वा – carrying in his hand द्वौ बाणवन्तौ – two bamboo-tipped arrows सपत्न-अतिव्याधिनौ – highly painful to the enemy, एवम् एव अहं त्वा द्वाभ्यां प्रश्नाभ्याम् उपादस्थाम् – even so do I confront you with two questions. तौ मे ब्रूहि इति – Answer me those’.
पृच्छ गार्गि इति – ‘Ask, O Gārgī’ (replied Yājña-valkya).
♬
❚❚
BrhU.3.8.3
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति॥
सा ह उवाच – She said, कस्मिन् तद् ओतं च प्रोतं च – ‘By what (Sūtra), O Yājña-valkya, is that pervaded (lit. ‘in what is woven warp and woof that’) यद् ऊर्ध्वं याज्ञ-वल्क्य दिवः – which is above heaven यद् अवाक् पृथिव्याः – and below the earth, यद् अन्तरा द्यावा-पृथिवी अन्तरा द्यावा-पृथिवी इमे – which is this heaven and earth as well as between them, यद् अभूतं च भवत् च भविष्यत् च इति आचक्षते इति – and which they say was, is and will be?
♬
❚❚
BrhU.3.8.4
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति॥
सः ह उवाच – He said, यद् ऊर्ध्वं गार्गि दिवः – That, O Gārgī, which is above heaven यद् अवाक् पृथिव्याः – and below the earth, यद् अन्तरा द्यावा-पृथिवी अन्तरा द्यावा-पृथिवी इमे – which is this heaven and earth as well as between them, यद् अभूतं च भवत् च भविष्यत् च इति आचक्षते – and which they say was, is and will be, आकाशे तद् ओतं च प्रोतं च इति – is pervaded by the (unmanifested) space (lit. ‘is woven warp and woof in space’)’.
♬
❚❚
BrhU.3.8.5
सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति॥
सा ह उवाच – She said, नमस् ते अस्तु याज्ञ-वल्क्य – ‘I bow to you, Yājña-valkya, यः मे एतं व्यवोचः – who have fully answered this question of mine. अपरस्मै धारयस्व इति – Now be ready for the other (question)’.
♬
❚❚
BrhU.3.8.6
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति॥
सा ह उवाच – She said, कस्मिन् तद् ओतं च प्रोतं च – ‘By what (Sūtra), O Yājña-valkya, is that pervaded (lit. ‘in what is woven warp and woof that’) यद् ऊर्ध्वं याज्ञ-वल्क्य दिवः – which is above heaven यद् अवाक् पृथिव्याः – and below the earth, यद् अन्तरा द्यावा-पृथिवी अन्तरा द्यावा-पृथिवी इमे – which is this heaven and earth as well as between them, यद् अभूतं च भवत् च भविष्यत् च इति आचक्षते इति – and which they say was, is and will be? (Same as BrhU.3.8.3–4, repetition to emphasize this important truth)
♬
❚❚
BrhU.3.8.7
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति॥
सः ह उवाच – He said, यद् ऊर्ध्वं गार्गि दिवः – That, O Gārgī, which is above heaven यद् अवाक् पृथिव्याः – and below the earth, यद् अन्तरा द्यावा-पृथिवी अन्तरा द्यावा-पृथिवी इमे – which is this heaven and earth as well as between them, यद् अभूतं च भवत् च भविष्यत् च इति आचक्षते – and which they say was, is and will be, आकाशे एव तद् ओतं च प्रोतं च इति – is pervaded by the (unmanifested) space alone (lit. ‘is woven in unmanifested space alone’)’.
♬
❚❚
BrhU.3.8.8
स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वम् अदीर्घमलोहितमस्नेहमच्छायम् अतमोऽवाय्वनाकाशमसङ्गम् अरसमगन्धम्
सः ह उवाच – He said: एतद् वै तद् अ-क्षरं गार्गि ब्राह्मणाः अभिवदन्ति – O Gārgī, the knowers of Brahman say, this Immutable (Brahman) is that (which you ask). अ-स्थूलम् अन्-अणु – It is neither gross nor minute, अ-ह्रस्वम् अ-दीर्घम् – neither short nor long, अ-लोहितम् अ-स्नेहम् – neither red color nor oiliness, अ-च्छायम् अ-तमः – neither shadow nor darkness, अ-वायु-अन्-आकाशम् अ-सङ्गम् – neither air nor space, unattached, अ-रसम् अ-गन्धम् – neither savor nor odor,
अचक्षुष्कमश्रोतम् अमवागमनोऽतेजस्कमप्राणम् अमुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन॥
अ-चक्षुष्कम् अ-श्रोतम् – without eyes or ears, अ-वाक् अ-मनः without the vocal organ or mind, अ-तेजस्कम् अ-प्राणम् अ-मुखम् – non-luminous, without the vital force or mouth, अ-मात्रम् अन्-अन्तरम् अ-बाह्यम् – not a measure, and without interior or exterior. न तद् अश्नाति किञ्चन – It does not eat anything, न तद् अश्नाति कश्चन – nor is It eaten by anybody.
♬
❚❚
BrhU.3.8.9
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत…
एतस्य वै अ-क्षरस्य प्रशासने गार्गि – Under the mighty rule of this Immutable, O Gārgī, सूर्या-चन्द्रमसौ विधृतौ तिष्ठत – the sun and moon are held in their positions; एतस्य वै अ-क्षरस्य प्रशासने गार्गि – under the mighty rule of this Immutable, O Gārgī, द्यावा-पृथिव्यौ विधृते तिष्ठतः – heaven and earth maintain their positions;
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति
एतस्य वै अ-क्षरस्य प्रशासने गार्गि – under the mighty rule of this Immutable, O Gārgī, निमेषाः मुहूर्ताः अहो-रात्राणि – moments, Muhūrtas (about 48 minute periods, equivalent to our divisions by hour), days and nights, अर्धमासाः मासाः ऋतवः संवत्सराः इति – fortnights, months, seasons and years विधृताः तिष्ठन्ति – are held in their respective places;
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु…
एतस्य वै अ-क्षरस्य प्रशासने गार्गि – Under the mighty rule of this Immutable, O Gārgī, प्राच्यः अन्याः नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः – some rivers flow eastward from the White Mountains, प्रतीच्यः अन्याः – others flowing westward (continue in that direction) यां यां च दिशम् अनु – and still others keep to their respective courses;
एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः॥
एतस्य वै अ-क्षरस्य प्रशासने गार्गि – under the mighty rule of this Immutable, O Gārgī, ददतः मनुष्याः प्रशंसन्ति – men praise those that give, यजमानं देवाः दर्वीं पितरः अन्वायत्ताः – the gods depend (Anvāyatāḥ) on the sacrificer, and the Manes on independent offerings (Devī, the Darvī-homa).
♬
❚❚
BrhU.3.8.10
यो वा एतदक्षरं गार्ग्यविदित्वास्मिँल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति
यः वै एतद् अ-क्षरं गार्गि अ-विदित्वा अस्मिन् लोके – He, O Gārgī, who in this world, without knowing this Immutable, जुहोति – offers oblations in the fire; यजते – performs sacrifices, तपस् तप्यते – and undergoes austerities, बहूनि वर्ष-सहस्राणि – even for many thousand years (lifetimes), अन्तवत् एव अस्य तद् भवति – finds all such acts but perishable;
यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः॥
यः वै एतद् अ-क्षरं गार्गि अ-विदित्वा अस्मात् लोकात् प्रैति – he, O Gārgī, who departs from this world without knowing this Immutable, सः कृपणः – is miserable. अथ यः एतद् अ-क्षरं गार्गि विदित्वा अस्मात् लोकात् प्रैति – But he, O Gārgī, who departs from this world after knowing this Immutable, सः ब्राह्मणः – is a knower of Brahman.
♬
❚❚
BrhU.3.8.11
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ
तद् वै एतद् अ-क्षरं गार्गि – This Immutable, O Gārgī, अ-दृष्टं द्रष्टृ – is never seen but is the Witness; अ-श्रुतं श्रोतृ – It is never heard, but is the Hearer; अ-मतं मन्तृ – It is never thought, but is the Thinker; अ-विज्ञातं विज्ञातृ – It is never known, but is the Knower.
नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति॥
न अन्यद् अतः अस्ति द्रष्टृ – There is no other witness but This, न अन्यद् अतः अस्ति श्रोतृ – no other hearer but This, न अन्यद् अतः अस्ति मन्तृ – no other thinker but This, न अन्यद् अतः अस्ति विज्ञातृ – no other knower but This. एतस्मिन् नु खलु अ-क्षरे गार्गि – By this Immutable, O Gārgī, आकाशः ओतः च प्रोतः च इति – is the (unmanifested) space pervaded (woven).
♬
❚❚
BrhU.3.8.12
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम॥
सा ह उवाच – She said, ब्राह्मणाः भगवन्तः – ‘Revered Brāhmaṇas, तद् एव बहु मन्येध्वम् – you should consider yourselves fortunate यद् अस्मात् नमस्-कारेण मुच्येध्वम् – if you can get off from him through salutations. न वै जातु युष्माकम् इमं कश्चिद् ब्रह्म-उद्यं जेता इति – Never shall any of you beat him in describing Brahman’.
ततः ह वाचक्नवी उपरराम – Then the daughter of Vacaknu kept silent.
BrhU.3.9
♬
❚❚
BrhU.3.9.1
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे
अथ ह एनं विदग्धः शाकल्यः पप्रच्छ – Then Vidagdha, the son of Śakala, asked him. कति देवाः याज्ञ-वल्क्य इति – ‘How many gods are there, Yājña-valkya’?
सः ह एतया एव निविदा प्रतिपेदे – Yājña-valkya decided it through this (group of Mantras known as) Nivid (saying),
यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति
यावन्तः वैश्व-देवस्य निविदि उच्यन्ते – ‘As many as are indicated in the Nivid of the Viśva-devas — त्रयः च त्री च शता – three hundred and three, त्रयः च त्री च सहस्रा इति – and three thousand and three’.
ओम् इति ह उवाच – ‘Very well,’ said Śākalya, कति एव देवाः याज्ञ-वल्क्य इति – ‘how many gods exactly are there, Yājña-valkya’?
त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच
त्रयस्-त्रिंशत् इति – ‘Thirty-three’.
ओम् इति ह उवाच – ‘Very well,’ said the other, कति एव देवाः याज्ञ-वल्क्य इति – ‘how many gods exactly are there, Yājña-valkya’?
षष् इति – ‘Six’.
ओम् इति ह उवाच – ‘Very well’ said Śākalya,
कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच
कति एव देवाः याज्ञ-वल्क्य इति – ‘How many gods exactly are there, Yājña-valkya’?
त्रयः इति – ‘Three’.
ओम् इति ह उवाच – ‘Very well,’ said the other, कति एव देवाः याज्ञ-वल्क्य इति – ‘how many gods exactly are there, Yājña-valkya’?
द्वौ इति – ‘Two’.
ओम् इति ह उवाच – ‘Very well,’ said Śākalya,
कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति…
कति एव देवाः याज्ञ-वल्क्य इति – ‘how many gods exactly are there, Yājña-valkya’?
अधि-अर्धः इति – ‘One and a half (Adhi-ardha, ‘a half more’)’.
ओम् इति ह उवाच – ‘Very well,’ said the other, कति एव देवाः याज्ञ-वल्क्य इति – ‘how many gods exactly are there, Yājña-valkya’?
एक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति॥
एकः इति – ‘One’.
ओम् इति ह उवाच – ‘Very well,’ said Śākalya, कतमे ते त्रयः च त्री च शता – ‘which are those three hundred and three, त्रयः च त्री च सहस्रा इति – and three thousand and three’?
♬
❚❚
BrhU.3.9.2
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति॥
सः ह उवाच – Yājña-valkya said, महिमानः एव एषाम् एते – ‘These are but the manifestations of them, त्रयस्-त्रिंशत् तु एव देवाः इति – but there are only thirty-three gods’.
कतमे ते त्रयस्-त्रिंशत् इति – Which are those thirty-three?’?
अष्टौ वसवः – ‘The eight Vasus, एका-दश रुद्राः – the eleven Rudras द्वा-दश आदित्याः – and the twelve Ādityas — ते एक-त्रिंशत् – these are thirty-one, इन्द्रः च एव प्रजा-पतिः च त्रयस्-त्रिंशौ इति – and Indra and Prajā-pati make up the thirty-three’.
♬
❚❚
BrhU.3.9.3
कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं सर्वं हितमिति तस्माद्वसव इति॥
कतमे वसवः इति – ‘Which are the Vasus’?
अग्निः च पृथिवी च वायुः च – ‘Fire, the earth, air, अन्तर्-इक्षं च आदित्यः च द्यौः च – the sky, the sun, heaven, चन्द्रमाः च नक्षत्राणि च – the moon and the stars — एते वसवः – these are the Vasus (‘the dwellers’, from √Vas), एतेषु हि इदं सर्वं हितम् इति – for in these all this is placed; तस्मात् वसवः इति – therefore they are called Vasus’.
♬
❚❚
BrhU.3.9.4
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति॥
कतमे रुद्राः इति – ‘Which are the Rudras?
दश इमे पुरुषे प्राणाः – ‘The ten organs (Prāṇas) in the human body, आत्मा एका-दशः – with the mind (the prāṇas’ ātmā) as the eleventh. ते यदा अस्मात् शरीरात् मर्त्यात् उत्क्रामन्ति – When they depart from this mortal body, अथ रोदयन्ति – they make (one’s relatives) weep. तद् यद् रोदयन्ति – Because they then make them weep, तस्मात् रुद्राः इति – therefore they are called Rudras’.
♬
❚❚
BrhU.3.9.5
कतम आदित्या इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति॥
कतमे आदित्याः इति – ‘Which are the Ādityas?
द्वा-दश वै मासाः संवत्सरस्य – ‘The twelve months (are parts, the times) of a year; एते आदित्या – these are the Ādityas, एते हि इदं सर्वम् आददानाः यन्ति – for they go taking all this (with them). ते यद् इदं सर्वम् आददानाः यन्ति – Because they go taking all this (with them), तस्मात् आदित्याः इति – therefore they are called Ādityas’.
♬
❚❚
BrhU.3.9.6
कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति॥
कतमः इन्द्रः कतमः प्रजा-पतिः इति – ‘Which is Indra, and which is Prajā-pati’?
स्तनयित्नुः एव इन्द्रः – ‘The cloud itself is Indra, यज्ञः प्रजा-पतिः इति – and the sacrifice is Prajā-pati’.
कतमः स्तनयित्नुः इति – ‘Which is the cloud’?
अशनिःइति – ‘The flash of lightning’.
कतमः यज्ञः इति – ‘Which is the sacrifice’?
पशवः इति – ‘Animals’.
♬
❚❚
BrhU.3.9.7
कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्चैते षडेते हीदं सर्वं षडिति॥
कतमे षष् इति – ‘Which are the six (gods)’?
अग्निः च पृथिवी च वायुः च – ‘Fire, the earth, air, अन्तर्-इक्षं च आदित्यः च द्यौः च – the sky, the sun, and heaven — एते षष् – these are the six. एते हि इदं सर्वं षष् इति – Because all those (other gods) are (comprised in) these six’.
♬
❚❚
BrhU.3.9.8
कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति॥
कतमे ते त्रयः देवाः इति – ‘Which are the three gods’?
इमे एव त्रयः लोकाः – ‘These three worlds alone, एषु हि इमे सर्वे देवाः इति – because in these all those gods are comprised’.
कतमौ तौ द्वौ देवौ इति – ‘Which are the two gods’?
अन्नं च एव प्राणः च इति – ‘Matter and the vital force’.
कतमः अधि-अर्धः इति – ‘Which are the one and a half’?
यः अयं पवते इति – ‘This (air) that blows’.
♬
❚❚
BrhU.3.9.9
तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति
तद् आहुः – ‘Regarding this some say, यद् अयम् एकः इव एव पवते – “Since the air blows as one substance, अथ कथम् अधि-अर्धः इति – how can it be one and a half”?
यद् अस्मिन् इदं सर्वम् अधि-आर्ध्नोत् तेन अधि-अर्धः इति – It is one and a half (Adhi-ardha, ‘a half more’) because through its presence all this attains surpassing glory (Adhi-ārdhnot)’.
कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते॥
कतमः एकः देवः इति – ‘Which is the one god’?
प्राणः इति – ‘The vital force (Hiraṇya-garbha); सः ब्रह्म – it is Brahman, त्यद् इति आचक्षते – which is called Tyat (that)’.
♬
❚❚
BrhU.3.9.10
पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being पृथिवी एव यस्य आयतनम् – whose abode is the earth, अग्निः लोकः – whose instrument of vision (Loka) is fire, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं शारीरः पुरुषः सः एषः – It is the very being who is identified with the body (Śārīra). वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
अ-मृतम् इति ह उवाच – ‘Nectar (chyle),’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.11
काम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being कामः एव यस्य आयतनम् – whose abode is the lust, हृदयं लोकः – whose instrument of vision (Loka) is the intellect, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं काममयः पुरुषः सः एषः – It is the very being who is identified with lust. वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
स्त्रियः इति ह उवाच – ‘Women,’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.12
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being रूपाणि एव यस्य आयतनम् – whose abode is colors, चक्षुः लोकः – whose instrument of vision (Loka) is the eye, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं आदित्ये पुरुषः सः एषः – It is the very being who is in the sun. वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
सत्यम् इति ह उवाच – ‘Truth (the eye),’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.13
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being आकाशः एव यस्य आयतनम् – whose abode is the space, श्रोत्रं लोकः – whose instrument of vision (Loka) is the ear, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरषं सर्वस्यात्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति दिश इति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं श्रौत्रः प्रातिश्रुत्कः पुरुषः सः एषः – It is the very being who is identified with the ear and with the time of hearing (Prātiśruka). वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
दिशः इति ह उवाच – ‘The quarters,’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.14
तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being तमस् एव यस्य आयतनम् – whose abode is darkness, हृदयं लोकः – whose instrument of vision (Loka) is the intellect, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं छायामयः पुरुषः सः एषः – It is the very being who is identified with shadow (ignorance). वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
मृत्युः इति ह उवाच – ‘Death,’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.15
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्यस्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being रूपाणि एव यस्य आयतनम् – whose abode is (particular) colors, चक्षुः लोकः – whose instrument of vision (Loka) is the eye, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यसुरिति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं आदर्शे पुरुषः सः एषः – It is the very being who is in a looking-glass. वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
असुः इति ह उवाच – ‘The vital force,’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.16
आप एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being आपः एव यस्य आयतनम् – whose abode is the water, हृदयं लोकः – whose instrument of vision (Loka) is the intellect, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं अप्सु पुरुषः सः एषः – It is the very being who is in water. वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
वरुणः इति ह उवाच – ‘Varuṇa (rain),’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.17
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात्। याज्ञवल्क्य
यः वै तं पुरुषं विद्यात् – (Śākalya said:) ‘He who knows that being रेतस् एव यस्य आयतनम् – whose abode is the seed, हृदयं लोकः – whose instrument of vision (Loka) is the intellect, मनो-ज्योतिः – whose light is the Manas, सर्वस्य आत्मनः पर-अयणम् – and who is the ultimate resort of the entire body and organs, सः वै वेदिता स्यात् याज्ञ-वल्क्य – knows truly, O Yājña-valkya’.
वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच॥
वेद वै अहं तं पुरुषम् – (Yājña-valkya said) ‘I do know that being सर्वस्य आत्मनः पर-अयणं यम् आत्थ – of whom you speak (Āttha) – who is the ultimate resort of the entire body and organs. यः एव अयं पुत्रमयः पुरुषः सः एषः – It is the very being who is identified with the son. वद एव शाकल्य – Go on, Śākalya’.
तस्य का देवता इति – (Śākalya said) ‘Who is his deity (cause)’?
प्रजा-पतिः इति ह उवाच – ‘Prajā-pati (the father),’ said Yājña-valkya.
♬
❚❚
BrhU.3.9.18
शाकल्येति होवाच याज्ञवल्क्यस्त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति॥
शाकल्य इति ह उवाच याज्ञ-वल्क्यः – ‘Śākalya,’ said Yājña-valkya, त्वां स्विद् इमे ब्राह्मणाः अङ्गार-अवक्षयणम् अक्रता इति – ‘have these Veda scholars made you their instrument for (Avakṣayaṇa, ‘tool for extinguishing’, or handling) burning charcoals (Aṅgāra)’?
♬
❚❚
BrhU.3.9.19
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति
दिशो वेद सदेवाः सप्रतिष्ठा इति
यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः॥
याज्ञ-वल्क्य इति ह उवाच शाकल्यः – ‘Yājña-valkya,’ said Śākalya, किं ब्रह्म विद्वान् – ‘is it because you know Brahman यद् इदं कुरु-पञ्चालानां ब्राह्मणान् अत्यवादीः इति – that you have thus flouted these Veda scholars of Kuru and Pañcāla’?
दिशः वेद स-देवाः स-प्रतिष्ठाः इति – ‘I know the quarters with their deities and supports’.
यद् दिशः वेत्थ स-देवाः स-प्रतिष्ठाः – ‘If you know the quarters with their deities and supports:
♬
❚❚
BrhU.3.9.20
किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति
किं देवतः अस्यां प्राच्यां दिशि असि इति – ‘What deity are you identified with in the east’?
आदित्य-देवतः इति – ‘With the deity, sun’.
कस्मिन् प्रतिष्ठितः इति – ‘On what does the sun rest’?
चक्षुषि इति – ‘On the eye’.
कस्मिन् नु चक्षुः प्रतिष्ठितम् इति – ‘On what does the eye rest’?
रूपेषु इति चक्षुषा हि रूपाणि पश्यति – ‘On colors, for one sees colors with the eye’.
कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञवल्क्य॥
कस्मिन् नु रूपाणि प्रतिष्ठितानि इति – ‘On what do colors rest’?
हृदये इति ह उवाच – ‘On the heart (mind),’ said Yājña-valkya, हृदयेन हि रूपाणि जानाति – ‘for one knows colors through the heart; हृदये हि एव रूपाणि प्रतिष्ठितानि भवन्ति इति – it is on the heart that colors rest’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.3.9.21
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति
किं देवतः अस्यां दक्षिणायां दिशि असि इति – ‘What deity are you identified with in the south’?
यम-देवतः इति – ‘With the deity, Yama (the god of justice)’.
सः यमः कस्मिन् प्रतिष्ठितः इति – ‘On what does Yama rest’?
यज्ञः इति – ‘On the sacrifice’.
कस्मिन् नु यज्ञः प्रतिष्ठितः इति – ‘On what does the sacrifice rest’?
दक्षिणायाम् इति – ‘On the remuneration (of the priests)’.
कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति
कस्मिन् नु दक्षिणा प्रतिष्ठिता इति – ‘On what does the remuneration rest’?
श्रद्धायाम् इति – ‘On faith, यदा हि एव श्रद्धत्ते अथ दक्षिणां ददाति – because whenever a man has faith, he gives remuneration to the priests; श्रद्धायां हि एव दक्षिणा प्रतिष्ठिता इति – therefore it is on faith that the remuneration rest’.
कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य॥
कस्मिन् नु श्रद्धा प्रतिष्ठिता इति – ‘On what does faith rest’?
हृदये इति ह उवाच – ‘On the heart,’ said Yājña-valkya, हृदयेन हि श्रद्धां जानाति – ‘for one knows faith through the heart; हृदये हि एव श्रद्धा प्रतिष्ठिता भवति इति – therefore it is on the heart that faith rests’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.3.9.22
किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रतिष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति
किं देवतः अस्यां प्रतीच्यां दिशि असि इति – ‘What deity are you identified with in the west’?
वरुण-देवतः इति – ‘With the deity, Varuṇa (the god of rain)’.
सः वरुणः कस्मिन् प्रतिष्ठितः इति – ‘On what does Varuṇa rest’?
अप्सु इति – ‘On water’.
कस्मिन् नु आपः प्रतिष्ठिताः इति – ‘On what does water rest’?
रेतसि इति – ‘On the seed’.
कस्मिन्नु रेतः प्रतिष्ठितमिति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य॥
कस्मिन् नु रेतस् प्रतिष्ठितम् इति – ‘On what does the seed rest’?
हृदये इति – ‘On the heart. तस्मात् अपि प्रतिरूपं जातम् आहुः – Therefore do they say of a new-born child who closely resembles (his father), हृदयात् इव सृप्तः – that he has sprung from (his father’s) heart, as it were — हृदयात् इव निर्मितः इति – that he has been made out of (his father’s) heart, as it were. हृदये हि एव रेतस् प्रतिष्ठितं भवति इति – Therefore it is on the heart that the seed rests’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.3.9.23
किन्देवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति
किं देवतः अस्याम् उदीच्यां दिशि असि इति – ‘What deity are you identified with in the north’?
सोम-देवतः इति – ‘With the deity, Soma (the moon and the creeper)’.
सः सोमः कस्मिन् प्रतिष्ठितः इति – ‘On what does Soma rest’?
दीक्षायाम् इति – ‘On initiation.’?
कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति
कस्मिन् नु दीक्षा प्रतिष्ठिता इति – ‘On what does initiation rest’?
सत्ये इति – ‘On truth. तस्मात् अपि दीक्षितमम् आहुः – Therefore do they say to one initiated, सत्यं वद इति – “Speak the truth”; सत्ये हि एव दीक्षा प्रतिष्ठिता इति – for it is on truth that initiation rests’.
कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य॥
कस्मिन् नु सत्यं प्रतिष्ठितम् इति – ‘On what does truth rest’?
हृदये इति ह उवाच – ‘On the heart,’ said Yājña-valkya, हृदयेन हि सत्यं जानाति – ‘for one knows truth through the heart; हृदये हि एव सत्यं प्रतिष्ठितं भवति इति – therefore it is on the heart that truth rests’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.3.9.24
किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति
कस्मिन्नु हृदयं प्रतिष्ठितमिति॥
किं देवतः अस्यां ध्रुवायां दिश्यसि इति – ‘What deity are you identified with in the fixed direction (above)’?
अग्नि-देवतः इति – ‘With the deity, fire’.
सः अग्निः कस्मिन् प्रतिष्ठितः इति – ‘On what does fire rest’?
वाचि इति – ‘On speech’.
कस्मिन् नु वाच् प्रतिष्ठिता इति – ‘On what does speech rest’?
हृदये इति – ‘On the heart’.
कस्मिन् नु हृदयं प्रतिष्ठितम् इति – ‘On what does the heart rest’?
♬
❚❚
BrhU.3.9.25
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति॥
अहल्लिक इति ह उवाच याज्ञ-वल्क्यः – ‘You ghost (Ahan-lika, ‘that which vanishes at day-time),’ said Yājña-valkya, यत्र एतद् अन्यत्र अस्मद् मन्यासै – ‘when you think the heart is elsewhere than in us, (then the body is dead). यद् हि एतद् अन्यत्र अस्मद् स्यात् – Should it be elsewhere than in us, शानः वा एनद् अद्युः – dogs would eat this body, वयांसि वा एनद् विमथ्नीरन् इति – or birds tear it to pieces (‘churn it’)’.
♬
❚❚
BrhU.3.9.26
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति
कस्मिन् नु त्वं च – ‘On what do the body (Tvam, ‘you’) आत्मा च प्रतिष्ठितौ स्थः इति – and the heart (‘(your) self’) rest’?
प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति
प्राणे इति – ‘On the Prāṇa’.
कस्मिन् नु प्राणः प्रतिष्ठितः इति – ‘On what does the Prāṇa rest’?
अपानः इति – ‘On the Apāna’.
कस्मिन् नु अपानः प्रतिष्ठितः इति – ‘On what does the Apāna rest’?
व्यानः इति – ‘On the Vyāna’.
कस्मिन् नु व्यानः प्रतिष्ठितः इति – ‘On what does the Vyāna rest’?
उदानः इति – ‘On the Udāna’.
कस्मिन् नु उदानः प्रतिष्ठितः इति – ‘On what does the Udāna rest’?
समानः इति – ‘On the Samāna’.
स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति।
सः एषः न इति न इति आत्मा – This self is That which has been described as ‘Not this, not this’. अ-गृह्यः न हि गृह्यते – It is imperceptible, for it is never perceived; अ-शीर्यः न हि शीर्यते – undecaying, for It never decays; अ-सङ्गः न हि सज्यते – unattached, for It is never attached; अ-सितः – unfettered — न व्यथते न रिष्यति – It never feels pain, and never suffers injury.
एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि
एतानि अष्टौ आयतनानि – ‘These are the eight abodes, अष्टौ लोकाः – the eight instruments of vision, अष्टौ देवाः अष्टौ पुरुषाः – the eight deities and the eight beings. तं त्वा औपनिषदं पुरुषं पृच्छामि – I ask you of that Being who is to be known only from the Upaniṣads, सः यस्तात् पुरुषान् निरुह्य – who definitely projects those beings प्रत्युह्य – and withdraws them into Himself, अत्यक्रामत् – and who is at the same time transcendent.
तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति।
तं चेद् मे न विवक्ष्यसि – If you cannot clearly tell me of Him, मूर्धा ते विपतिष्यति इति – your head shall fall off’.
तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः॥
तं ह न मेने शाकल्यः – Śākalya did not know Him; तस्य ह मूर्धा विपपात अपि ह – his head fell off; अस्य परिमोषिणः अस्थीनि अपजह्रु – and robbers snatched away his bones, अन्यद् मन्यमानाः – mistaking them for something else.
♬
❚❚
BrhU.3.9.27
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह ब्राह्मणा न दधृषुः॥
अथ ह उवाच – Then he said, ब्राह्मणाः भगवन्तः यः वः कामयते – ‘Revered Brāhmaṇas, whichsoever amongst you wishes सः मा पृच्छतु – may interrogate me सर्वे वा मा पृच्छत – or all of you may. यः वः कामयते तं वः पृच्छामि – Or I shall question whichsoever amongst you wishes, सर्वान् वा वः पृच्छामि इति – or all of you’. ते ह ब्राह्मणाः न दधृषुः – The Brāhmaṇas did not dare.
♬
❚❚
BrhU.3.9.28
तान् हैतैः श्लोकैः पप्रच्छ।
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा।
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः॥१॥
He asked them through these verses (तान् ह एतैः श्लोकैः पप्रच्छ):
● यथा वृक्षः वनस्-पतिः – As a large tree,
○ तथा एव पुरुषः – so indeed is a man. अ-मृषा – (This is) true.
● तस्य लोमानि पर्णानि – His hair is its leaves,
○ त्वच् अस्य उत्पाटिका बहिः – his skin its outer bark.
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः।
तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात्॥२॥
● त्वचः एव अस्य रुधिरम् – It is from his skin that blood
○ प्रस्यन्दि – flows, त्वचः उत्पटः – and from the bark sap.
● तस्मात् तद् आतृण्णात् प्रैति – Therefore when a man is wounded (Ātṛṇna), that blood flows,
○ रसः वृक्षात् इव – as sap from a tree आहतात् – that is injured.
मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम्।
अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता॥३॥
● मांसानि अस्य शकराणि – His flesh is its inner bark,
○ किनाटं स्नाव तद् – and his tendons (Srāva) its innermost layer of bark; स्थिरम् – both are tough.
● अस्थीनि अन्तरतः – His bones lie under, दारूणि – as does its wood;
○ मज्जा मज्जा-उपमा कृता – his marrow (Majā) is comparable to its pith.
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥४॥
● यद् वृक्षः वृक्णः रोहति – If a tree, after it is felled, springs,
○ मूलात् नवतरः पुनः – again from its root in a newer form,
● मर्त्यः स्विद् मृत्युना वृक्णः – after he is cut off by death,
○ कस्मात् मूलात् प्ररोहति – from what root indeed does man spring forth?
रेतस इति मा वोचत जीवतस्तत्प्रजायते।
धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः॥५॥
● रेतसः इति मा वोचत – Do not say, ‘From the seed’,
○ जीवतः तद् प्रजायते – (for) it is produced in a living man.
● धाना-रुहः इव वै वृक्षः – A tree springs also from the seed;
○ अञ्जसा प्रेत्य सम्भवः – after it is dead it certainly springs again (from the seed as well).
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत्।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति॥६॥
● यद् स-मूलम् आवृहेयुः – If someone pulls out a tree with its root,
○ वृक्षं न पुनर् आभवेत् – it no more sprouts.
● मर्त्यः स्विद् मृत्युना वृक्णः – After he is cut off by death,
○ कस्मात् मूलात् प्ररोहति – from what root does a man spring forth?
जात एव न जायते को न्वेनं जनयेत्पुनः।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति॥७॥
● जातः एव – (If you think) he is ever born, न जायते – (I say) no, he is again born.
○ कः नु एनं जनयेत् पुनः – Now who should again bring him forth?
● — विज्ञानम् – Knowledge, आनन्दम् – Bliss, ब्रह्म – Brahman,
○ रातिः दातुः पर-अयणम् – the supreme goal of the dispenser of wealth
○ तिष्ठमानस्य तद्-विदः इति – as well as of him who has realized Brahman and lives in It.
Bṛhad-Āraṇyaka चतुर्थोऽध्यायः (४.)
BrhU.4.1
♬
❚❚
BrhU.4.1.1
ओं जनको ह वैदेह आसाञ्चक्रेऽथ ह याज्ञवल्क्य आवव्राज। तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति। उभयमेव सम्राडिति होवाच॥
ओं जनकः ह वैदेह आसाञ्-चक्रे – Om. Janaka, Emperor of Videha, took his seat, अथ ह याज्ञ-वल्क्य आवव्राज – when there came Yājña-valkya. तं ह उवाच – Janaka said to him, याज्ञ-वल्क्य किम् अर्थम् अचारीः – ‘Yājña-valkya, what has brought you here? पशून् इच्छन् – To have some animals, अण्वन्तान् इति – or to hear some subtle questions asked’?
उभयम् एव सम्राज् इति ह उवाच – ‘Both, O Emperor,’ said Yājña-valkya.
♬
❚❚
BrhU.4.1.2
यत्ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति
यद् ते कश्चिद् अब्रवीत् तद् शृणवाम इति – ‘Let me hear what any one of your teachers may have told you’.
अब्रवीत् मे जित्वा शैलिनिः – ‘Jitvan, the son of Śilina, has told me वाच् वै ब्रह्म इति – that the organ of speech (fire) (i.e. the organs here mean its presiding deity, except when it is the abode) is Brahman’.
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् शैलिनिः अब्रवीत् – so has the son of Śilina said this — वाच् वै ब्रह्म इति – that the organ of speech is Brahman, अ-वदतः हि किं स्यात् इति – for what can a person have who cannot speak?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य।
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode (body) and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् शैलिनिः अब्रवीत् – so has the son of Śilina said this — वाच् वै ब्रह्म इति – that the organ of speech is Brahman, अ-वदतः हि किं स्यात् इति – for what can a person have who cannot speak?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य।
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode (body) and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत। का प्रज्ञता याज्ञवल्क्य।
वाच् एव आयतनम् – ‘The organ of speech is its abode, आकाशः प्रतिष्ठा – and the space (the Undifferentiated) its support. प्रज्ञा इति एनद् उपासीत – It should be meditated upon as intelligence’.
का प्रज्ञता याज्ञ-वल्क्य – ‘What is intelligence, Yājña-valkya’?
वागेव सम्राडिति होवाच। वाचा वै सम्राड्बन्धुः प्रज्ञायत…
वाच् एव सम्राज् इति ह उवाच – ‘The organ of speech itself, O Emperor,’ said Yājña-valkya, वाचा वै सम्राज् बन्धुः प्रज्ञायते – ‘through the organ of speech, O Emperor, a friend is known:
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः
ऋग्-वेदः यजुर्-वेदः साम-वेदः अथर्वाङ्गिरसः – the Ṛg-Veda, Yajur-Veda, Sāma-Veda, Atharvāṅgirasa), इति-हासः पुराणं विद्या उपनिषदः – (Veda) history (see BrhU.2.4.10), mythology, arts, Upaniṣads,
श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते
श्लोकाः सूत्राणि अनुव्याख्यानानि व्याख्यानानि – verses, aphorisms, elucidations and explanations, इष्टं हुतम् आशितं पायितम् – (the effects of) sacrifices, (of) offering oblations in the fire and (of) giving food and drink, अयं च लोकः परः च लोकः – this world and the next, सर्वाणि च भूतानि वाचा एव सम्राज् प्रज्ञायन्ते – and all beings are known through the organ of speech alone, O Emperor.
वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते।
वाच् वै सम्राज् परमं ब्रह्म – The organ of speech, O Emperor, is the Supreme Brahman. न एनं वाच् जहाति – The organ of speech never leaves him यः एवं विद्वान् एतद् उपास्ते – who, knowing thus, meditates upon it, सर्वाणि एनं भूतानि अभिक्षरन्ति – all beings eagerly come to him, देवः भूत्वा देवान् अप्येति – and being a god, he attains the gods’.
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः। स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति – that one should not accept (wealth) from a disciple without fully instructing him’.
♬
❚❚
BrhU.4.1.3
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति
यद् एव ते कश्चिद् अब्रवीत् तद् शृणवाम इति – ‘Let me hear whatever any one may have told you’.
अब्रवीत् मे उदङ्कः शौल्बायनः प्राणः वै ब्रह्म इति – ‘Udaṅka, the son of Śulba, has told me that the vital force (Vāyu) is Brahman’.
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् शौल्बायनः अब्रवीत् – so has the son of Śulba said this — प्राणः वै ब्रह्म इति – that the vital force is Brahman, अ-प्राणतः हि किं स्यात् इति – for what can a person have who does not live?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode (body) and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य
प्राणः एव आयतनम् – ‘The vital force is its abode, आकाशः प्रतिष्ठा – and the space (the Undifferentiated) its support. प्रियम् इति एनद् उपासीत – It should be meditated upon as dear’.
का प्रियता याज्ञ-वल्क्य – ‘What is dearness, Yājña-valkya’?
प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय
प्राणः एव सम्राज् इति ह उवाच – ‘The vital force itself, O Emperor,’ said Yājña-valkya; प्राणस्य वै सम्राज् कामाय अ-याज्यं याजयति – ‘for the sake of the vital force, O Emperor, a man performs sacrifices for one for whom they should not be performed, अ-प्रतिगृह्यस्य प्रतिगृह्णाति अपि – and accepts gifts from one from whom they should not be accepted, तत्र वध-आशङ्कं भवति यां दिशम् एति प्राणस्य एव सम्राज् कामाय – and it is for the sake (Kāmāya) of the vital force, O Emperor, that one runs the risk of one’s life (Vadha-āśaṅka) in any quarter one may go to.
प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
प्राणः वै सम्राज् परमं ब्रह्म – The vital force, O Emperor, is the Supreme Brahman. न एनं प्राणः जहाति – The vital force never leaves him यः एवं विद्वान् एतद् उपास्ते – who, knowing thus, meditates upon it, सर्वाणि एनं भूतानि अभिक्षरन्ति – all beings eagerly come to him, देवः भूत्वा देवान् अप्येति – and being a god, he attains the gods’.
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
सः ह उवाच याज्ञ-वल्क्यः पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति – that one should not accept (wealth) from a disciple without fully instructing him’.
♬
❚❚
BrhU.4.1.4
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति
यद् एव ते कश्चिद् अब्रवीत् तद् शृणवाम इति – ‘Let me hear whatever any one may have told you’.
अब्रवीत् मे बर्कुः वार्ष्णः चक्षुः वै ब्रह्म इति – ‘Barku, the son of Vṛṣṇa, has told me that the eye (sun)) is Brahman’.
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् शौल्बायनः अब्रवीत् – so has the son of Śulba said this — चक्षुः वै ब्रह्म इति – that the eye is Brahman. अ-पश्यतः हि किं स्यात् इति – For what can a person have who cannot see?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode (body) and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य
चक्षुः एव आयतनम् – ‘The eye is its abode, आकाशः प्रतिष्ठा – and the space (the Undifferentiated) its support. सत्यम् इति एनद् उपासीत – It should be meditated upon as truth’.
का सत्यता याज्ञ-वल्क्य – ‘What is truth, Yājña-valkya’?
चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति
चक्षुः एव सम्राज् इति ह उवाच – ‘The eye itself, O Emperor,’ said Yājña-valkya; चक्षुः व सम्राज् इति ह उवाच – ‘The eye itself, O Emperor,’ said Yājña-valkya; चक्षुषा वै सम्राज् पश्यन्तम् आहुः – ‘if a person, O Emperor, says to one who has seen with his eyes, अद्राक्षीः इति – “Have you seen”? सः आह अद्राक्षम् इति – and the latter answers. “Yes, I have”, चक्तद् सत्यं भवति – then it is true.
चक्षुर्वै सम्राट्परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
चक्षुः वै सम्राज् परमं ब्रह्म – The eye, O Emperor, is the Supreme Brahman. न एनं चक्षुः जहाति – The eye never leaves him यः एवं विद्वान् एतद् उपास्ते – who, knowing thus, meditates upon it, सर्वाणि एनं भूतानि अभिक्षरन्ति – all beings eagerly come to him, देवः भूत्वा देवान् अप्येति – and being a god, he attains the gods’.
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
सः ह उवाच याज्ञ-वल्क्यः पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति that one should not accept (wealth) from a disciple without fully instructing him’.
♬
❚❚
BrhU.4.1.5
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति
यद् एव ते कश्चिद् अब्रवीत् तद् शृणवाम इति – ‘Let me hear whatever any one may have told you’.
अब्रवीत् मे गर्दभी-विपीतः भारद्-वाजः – ‘Gardabhī-vipīta, of the line of Bhārad-vaja, has told me, that the ear (the quarters) is Brahman’ (श्रोत्रं वै ब्रह्म इति).
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् भारद्-वाजः अब्रवीत् – so has the descendant of Bhārad-vaja said this — श्रोत्रं वै ब्रह्म इति – that the ear is Brahman, अ-शृण्वतः हि किं स्यात् इति – for what can a person have who cannot hear?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode (body) and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत कानन्तता याज्ञवल्क्य
श्रोत्रम् एव आयतनम् – ‘The ear is its abode, आकाशः प्रतिष्ठा – and the space (the Undifferentiated) its support. अन्-अन्तः इति एनद् उपासीत – It should be meditated upon as infinite’.
का अन्-अन्तता याज्ञ-वल्क्य – ‘What is infinity, Yājña-valkya’?
दिश एव सम्राडिति होवाच तस्माद्वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छति
दिशः एव सम्राज् इति ह उवाच – ‘The quarters themselves, O Emperor,’ said Yājña-valkya; तस्मात् वै सम्राज् अपि – ‘therefore, O Emperor, यां कां च दिशं गच्छति – to whatever direction one may go, न एव अस्याः अन्तं गच्छति – one never reaches its end.
अनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रं श्रोत्रं वै सम्राट्परमं ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
अन्-अन्ता हि दिशः – (Hence) the quarters are infinite. दिशः वै सम्राट् श्रोत्रम् – The quarters, O Emperor, are the ear, श्रोत्रं वै सम्राज् परमं ब्रह्म – and the ear, O Emperor, is the Supreme Brahman. न एनं श्रोत्रं जहाति – The ear never leaves him यः एवं विद्वान् एतद् उपास्ते – who, knowing thus, meditates upon it, सर्वाणि एनं भूतानि अभिक्षरन्ति – all beings eagerly come to him, देवः भूत्वा देवान् अप्येति – and being a god, he attains the gods’.
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
सः ह उवाच याज्ञ-वल्क्यः पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति – that one should not accept (wealth) from a disciple without fully instructing him’.
♬
❚❚
BrhU.4.1.6
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति
यद् एव ते कश्चिद् अब्रवीत् तद् शृणवाम इति – ‘Let me hear whatever any one may have told you’.
अब्रवीत् मे सत्य-कामः जाबालः – ‘Satya-kāma, the son of Jabalā, has told me मनस् वै ब्रह्म इति – that the Manas (here, the moon) is Brahman’.
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् जाबालः अब्रवीत् – so has the son of Jabalā said this — मनस् वै ब्रह्म इति – that the Manas is Brahman, अ-मनसः हि किं स्यात् इति – for what can a person without the Manas have?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode (body) and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत कानन्दता याज्ञवल्क्य
मन एव आयतनम् – ‘The Manas is its abode, आकाशः प्रतिष्ठा – and the space (the Undifferentiated) its support. आनन्द इति एनद् उपासीत – It should be meditated upon as bliss’.
का आनन्दता याज्ञ-वल्क्य – ‘What is bliss, Yājña-valkya’?
मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दः
मनस् एव सम्राज् इति ह उवाच – ‘The Manas itself, O Emperor,’ said Yājña-valkya; मनसा वै सम्राज् स्त्रियम् अभिहार्यते – ‘with the Manas, O Emperor, a man (fancies and) woos a woman. तस्यां प्रतिरूपः पुत्रः जायते – A son resembling him is born of her, सः आनन्दः – and he is the cause of bliss.
मनो वै सम्राट्परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
मनस् वै सम्राज् परमं ब्रह्म – The Manas, O Emperor, is the Supreme Brahman. न एनं मनस् जहाति – The Manas never leaves him यः एवं विद्वान् एतद् उपास्ते – who, knowing thus, meditates upon it, सर्वाणि एनं भूतानि अभिक्षरन्ति – all beings eagerly come to him, देवः भूत्वा देवान् अप्येति – and being a god, he attains the gods’.
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
सः ह उवाच याज्ञ-वल्क्यः पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति – that one should not accept (wealth) from a disciple without fully instructing him’.
♬
❚❚
BrhU.4.1.7
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति
यद् एव ते कश्चिद् अब्रवीत् तद् शृणवाम इति – ‘Let me hear whatever any one may have told you’.
अब्रवीत् मे विदग्धः शाकल्यः – ‘Vidagdha, the son of Śakala, has told me हृदयं वै ब्रह्म इति – that the heart (mind, here, Prajā-pati) is Brahman’.
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेत्यहृदयस्य हि किं स्यादिति…
यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् – ‘As one who has a mother, a father and a teacher should say, तथा तद् शाकल्यः अब्रवीत् – so has the son of Śakala said this — हृदयं वै ब्रह्म इति – that the heart is Brahman. अ-हृदयस्य हि किं स्यात् इति – For what can a person without the heart have?
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य
अब्रवीत् तु ते तस्य आयतनं प्रतिष्ठाम् – But did he tell you about its abode and support’?
न मे अब्रवीत् इति – ‘No, he did not’.
एक-पाद् वै एतद् सम्राज् इति – ‘This Brahman is only one-footed, O Emperor’.
सः वै नः ब्रूहि याज्ञ-वल्क्य – ‘Then you tell us, Yājña-valkya’.
हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य
हृदयम् एव आयतनम् – ‘The heart is its abode, आकाशः प्रतिष्ठा – and the space (the Undifferentiated) its support. स्थितिः इति एनद् उपासीत – It should be meditated upon as stability’.
का स्थितता याज्ञ-वल्क्य – ‘What is stability, Yājña-valkya’?
हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट्सर्वेषां भूतानामायतनं हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति
हृदयम् एव सम्राज् इति ह उवाच – The heart itself, O Emperor,’ said Yājña-valkya; हृदयं वै सम्राज् सर्वेषां भूतानाम् आयतनम् – ‘the heart, O Emperor, is the abode of all beings, हृदयं वै सम्राज् सर्वेषां भूतानां प्रतिष्ठा – and the heart, O Emperor, is the support of all beings; हृदये हि एव सम्राज् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति – on the heart, O Emperor, all being rest;
हृदयं वै सम्राट्परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
सः ह उवाच याज्ञ-वल्क्यः पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति – that one should not accept (wealth) from a disciple without fully instructing him’.
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति॥
हस्ति-ऋषभं सहस्रं ददामि इति ह उवाच जनकः वैदेहः – ‘I give you a thousand cows with a bull like an elephant,’ said Emperor Janaka.
सः ह उवाच याज्ञ-वल्क्यः पिता मे अमन्यत – Yājña-valkya replied, ‘My father was of opinion न अन्-अनुशिष्य हरेत इति – that one should not accept (wealth) from a disciple without fully instructing him’.
BrhU.4.2
♬
❚❚
BrhU.4.2.1
जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति
जनकः ह वैदेहः कूर्चात् उपावसर्पन् उवाच – Janaka, Emperor of Videha, rose from his lounge and approaching Yājña-valkya said, नमस् ते अस्तु याज्ञ-वल्क्य – ‘Salutations to you, Yājña-valkya, अनु मा शाधि इति – please instruct me’.
स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि…
सः ह उवाच – Yājña-valkya replied, यथा वै सम्राज् महान्तम् अध्वानम् एष्यन् – ‘As one wishing to go a long distance, O Emperor, रथं वा नावं वा समाददीत – should secure a chariot or a boat, एवम् एव एताभिः उपनिषद्भिः समाहित-आत्मा असि – so have you fully equipped your mind with so many secret names (of Brahman).
एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति
एवं वृन्दारकः आढ्यः सन् – You are likewise respected and wealthy, अधीत-वेदः – and you have studied the Vedas उक्त-उपनिषत्कः – and heard the Upaniṣads; इतः विमुच्यमानः क्व गमिष्यसि इति – (but) where will you go when you are separated from this body’?
नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति॥
न अहं तद् भगवन् वेद यत्र गमिष्यामि इति – ‘I do not know, sir, where I shall go’.
अथ वै ते अहं तद् वक्ष्यामि यत्र गमिष्यसि इति – ‘Then I will tell you where you will go’.
ब्रवीतु भगवान् इति – ‘Tell me, sir’.
♬
❚❚
BrhU.4.2.2
इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः॥
इन्धः ह वै नाम एषः यः अयं दक्षिणे अक्षन् पुरुषः – This being who is in the right eye is named Indha (fr. √ind ‘be powerful’). तं वै एतम् इन्धं सन्तम् – Though he is Indha, इन्द्रः इति आचक्षते परोऽक्षेण एव – he is indirectly called Indra, परोक्ष-प्रियाः इव हि देवाः – for the gods have a fondness, as it were, for indirect names, प्रत्यक्ष-द्विषः – and hate to be called directly.
♬
❚❚
BrhU.4.2.3
अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट्तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदय लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव…
अथ एतद् वामे अक्षणि पुरुष-रूपम् – The human form that is in the left eye एषा अस्य पत्नी विराट् is his wife, Virāj (matter). तयोः एषः संस्तावः यः एषः अन्तर्-हृदये आकाशः – The space that is within the heart is their place of union (Saṃstāva). अथ एनयोः एतद् अन्नम् – Their food यः एषः अन्तर्-हृदये लोहित-पिण्डः – is the lump of blood (the finest essence of food) in the heart. अथ एनयोः एतद् प्रावरणम् – Their wrap यद् एतद् अन्तर्-हृदये जालकम् इव – is the net-like structure in the heart.
…अथैनयोरेषा सृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतदास्रवदास्रवति
अथ एनयोः एषा सृतिः सञ्चरणी – Their road for moving या एषा हृदयात् ऊर्ध्वा नाडी उच्चरति – is the nerve that goes upward from the heart; यथा केशः सहस्रधा भिन्नः – it is like a hair split into a thousand parts. एवम् अस्य – In this body एताः हिताः नाम नाड्यः अन्तर्-हृदये प्रतिष्ठिताः भवन्ति – there are nerves called Hitā, which are placed in the heart. एताभिः वै – Through these एतद् आस्रवत् आस्रवति – that (essence of our food) passes as it moves on.
तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः॥
तस्माद् एषः प्रविविक्त-आहारतरः इव एव भवति – Therefore this (subtle body) has finer food अस्मात् शारीरात् आत्मनः – than the gross body.
♬
❚❚
BrhU.4.2.4
तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः
तस्य – Of him (the sage who is identified with the vital force, i.e. the Prājña, of which the vital force is a limiting adjunct), प्राची दिश् प्राञ्चः प्राणाः – the east is the eastern vital force, दक्षिणा दिश् दक्षिणे प्राणाः – the south the southern vital force, प्रतीची दिश् प्रत्यञ्चः प्राणाः – the west the western vital force, उदीची दिश् उदञ्चः प्राणाः – the north the northern vital force, ऊर्ध्वा दिश् ऊर्ध्वाः प्राणाः – the direction above the upper vital force, अवाची दिश् अवाञ्चः प्राणाः – the direction below the nether vital force, सर्वाः दिशः सर्वे प्राणाः – and all the quarters the different vital forces.
स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्यभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः।
सः एषः न इति न इति आत्मा – This self (BrhU.3.9.26) is That which has been described as ‘Not this, not this’, अ-गृह्यः न हि गृह्यते – ‘It is imperceptible, for It is never perceived; अ-शीर्यः न हि शीर्यते – undecaying, for It never decays; अ-सङ्गः न हि सज्यते – unattached, for It is never attached; अ-सितः – unfettered — न व्यथते न रिष्यति – It never feels pain, and never suffers injury.
स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि॥
सः ह उवाच – Yājña-valkya said, जनकः वैदेहः अ-भयं त्वा गच्छतात् – ‘You, Emperor Janaka, have attained That which is free from fear’.
(Emperor Janaka said, ‘A-bhayam eva tvā gacchatāt, May That which is free from fear be yours too) याज्ञ-वल्क्य भगवन् – Revered Yājña-valkya’, यः नः अ-भयं वेदयसे – (since) you have made That which is free from fear known to us. नमस् ते अस्तु – Salutations to you! इमे विदेहाः – Here is this (empire of) Videha, अयम् अहम् अस्मि – as well as myself at your service’!
BrhU.4.3
♬
❚❚
BrhU.4.3.1
जनकं ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इति
जनकं ह वैदेहं याज्ञ-वल्क्यः जगाम – Yājña-valkya went to Janaka, Emperor of Videha. सः मेने न वदिष्ये इति – He thought he would not say anything.
अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ स ह कामप्रश्नमेव वव्रे तं हास्मै ददौ तं ह सम्राडेव पूर्वं पप्रच्छ॥
अथ ह यद् जनकः च वैदेहः याज्ञ-वल्क्यः च – Now Janaka and Yājña-valkya अग्नि-होत्रे समूदाते – had once talked on the Agni-hotra, तस्मै ह याज्ञ-वल्क्यः वरं ददौ – and Yājña-valkya had offered him a boon. सः ह काम-प्रश्नम् एव वव्रे – He had begged the liberty of asking any questions he liked; तं ह अस्मै ददौ – and Yājña-valkya had granted him the boon. तं ह सम्राज् एव पूर्वं पप्रच्छ – So it was the Emperor who first asked him.
♬
❚❚
BrhU.4.3.2
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति।
आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य॥
याज्ञ-वल्क्य किञ्-ज्योतिः अयं पुरुषः इति – ‘Yājña-valkya, what serves as the light for a man’?
आदित्य-ज्योतिः सम्राज् इति ह उवाच – ‘The light of the sun (‘that light is the sun’), O Emperor,’ said Yājña-valkya; आदित्येन एव अयं ज्योतिषा आस्ते – ‘it is through the light of the sun that he sits, पल्ययते कर्म कुरुते विपल्येति इति – goes out, works and returns’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.4.3.3
अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति
चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्येतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य॥
अस्तमिते आदित्ये याज्ञ-वल्क्य – ‘When the sun has set, Yājña-valkya, किञ्-ज्योतिः एव अयं पुरुषः इति – what exactly serves as the light for a man’?
चन्द्रमा एव अस्य ज्योतिः भवति इति – ‘The moon serves as his light. चन्द्रमसा एव अयं ज्येतिषा अस्ते – It is through the light of the moon that he sits, पल्ययते कर्म कुरुते विपल्येति इति – goes out, works and returns’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.4.3.4
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष इत्यग्निरेवास्य ज्योतिर्भवतीत्यग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य॥
अस्तमिते आदित्ये याज्ञ-वल्क्य चन्द्रमसि अस्तमिते – ‘When the sun and the moon have both set, किञ्-ज्योतिः एव अयं पुरुषः इति – what exactly serves as the light for a man’?
अग्निः एव अस्य ज्योतिः भवति इति – ‘The fire serves as his light. अग्निना एव अयं ज्योतिषा अस्ते – It is through the fire that he sits, पल्ययते कर्म कुरुते विपल्येति इति – goes out, works and returns’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.4.3.5
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किञ्ज्योतिरेवायं पुरुष इति
अस्तमिते आदित्ये याज्ञ-वल्क्य चन्द्रमसि अस्तमिते – ‘When the sun and the moon have both set, शान्ते अग्नौ – and the fire has gone out,Yājña-valkya, किञ्-ज्योतिः एव अयं पुरुषः इति – what exactly serves as the light for a man’?
वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवैतद्याज्ञवल्क्य॥
वाच् एव अस्य ज्योतिः भवति इति – ‘Speech (sound) serves as his light. वाचा एव अयं ज्योतिषा अस्ते – It is through the light of speech that he sits, पल्ययते कर्म कुरुते विपल्येति इति – goes out, works and return’. तस्मात् वै सम्राज् अपि यत्र स्वः पाणिः – Therefore, O Emperor, even when one’s own hand न विनिर्ज्ञायते – is not clearly visible, अथ यत्र वाच् उच्चरति – if a sound is uttered, उप एव तत्र न्येति इति – one manages to go there’.
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya’.
♬
❚❚
BrhU.4.3.6
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति॥
अस्तमिते आदित्ये याज्ञ-वल्क्य चन्द्रमसि अस्तमिते – ‘When the sun and the moon have both set, शान्ते अग्नौ – the fire has gone out, शान्तायां वाचि – and speech has stopped, Yājña-valkya, किञ्-ज्योतिः एव अयं पुरुषः इति – what exactly serves as the light for a man’?
आत्मा एव अस्य ज्योतिः भवति इति – ‘The self serves as his light. आत्मना एव अयं ज्योतिषा अस्ते – It is through the light of the self that he sits, पल्ययते कर्म कुरुते विपल्येति इति – goes out, works and returns’.
♬
❚❚
BrhU.4.3.7
कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः
कतमः आत्मा इति – ‘Which is the self’?
यः अयं विज्ञानमयः पुरुषः – ‘This infinite entity (Puruṣa) that is identified with the intellect प्राणेषु – and is in the midst of the organs, हृदि अन्तर्-ज्योतिः (or हृदि-अन्तर् ज्योतिः) – the (self-effulgent) light within the heart (intellect).
स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि॥
सः समानः सन् – Assuming the likeness (of the intellect), उभौ लोकौ अनुसञ्चरति – it moves between the two worlds (this and the other – whatever the intellect identifies with); ध्यायति इव – it thinks, as it were, लेलायति इव – and shakes, as it were. सः हि स्वप्नः भूत्वा – (Because even in this life) Being identified with (subtle) dream, इमं लोकम् अतिक्रामति – it transcends this (gross) world — मृत्योः रूपाणि – the (gross) forms of death (ignorance etc.)’.
♬
❚❚
BrhU.4.3.8
स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति॥
सः वै अयं पुरुषः जायमानः – That man (The individual self. So also in the next few paragraphs), when he is born, शरीरम् अभिसम्पद्यमानः – or attains a body, पाप्मभिः संसृज्यते – is connected with evils (the body and organs); सः म्रियमाणः – and when he dies, उत्क्रामन् – or leaves the body, पाप्मनः विजहाति – he discards those evils.
♬
❚❚
BrhU.4.3.9
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च।
तस्य वै एतस्य पुरुषस्य द्वे एव स्थाने भवतः – That man has only two abodes, इदं च पर-लोक-स्थानं च – this and the next world. सन्ध्यं तृतीयं स्वप्न-स्थानम् – The dream state, which is the third, is at the junction (Sandhya) of the two). तस्मिन् सन्ध्ये स्थाने तिष्ठन् – Staying at that junction, एते उभे स्थाने पश्यति – he surveys the two abodes, इदं च पर-लोक-स्थानं च – this and the next world.
अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति
अथ यथा-आक्रमः अयम् – Whatever outfit he may have पर-लोक-स्थाने भवति – for the next world, तम् आक्रमम् आक्रम्य – providing himself with that उभयान् पाप्मनः आनन्दान् च पश्यति – he sees both evils (sufferings) and joys.
स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति॥
सः यत्र प्रस्वपिति – When he dreams, अस्य लोकस्य सर्वावतः मात्राम् अपादाय – he takes away a little of (the impressions of) this all-embracing world (the waking state), स्वयं विहत्य – himself puts the body aside स्वयं निर्माय – and himself creates (a dream body in its place), स्वेन भासा स्वेन ज्योतिषा – revealing his own luster by his own light — प्रस्वपिति – and dreams. अत्र अयं पुरुषः – In this state the man स्वयं ज्योतिः भवति – himself becomes the light.
♬
❚❚
BrhU.4.3.10
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते
न तत्र रथाः – There are no chariots, न रथ-योगाः – nor animals to be yoked to them, न पन्थानः भवन्ति – nor roads there, अथ रथान् रथ-योगान् पथः सृजते – but he creates the chariots, the animals and the roads.
न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता॥
न तत्र आनन्दाः मुदः प्रमुदः – There are no pleasures, joys and delights there, अथ आनन्दान् मुदः प्रमुदः सृजते – but he creates the pleasures, joys and delights. न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यः भवन्ति – There are no pools, tanks, or rivers there, अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते – but he creates the pools, tanks and rivers. सः हि कर्ता – For he is the agent.
♬
❚❚
BrhU.4.3.11
तदेते श्लोका भवन्ति।
तद् एते श्लोकाः भवन्ति – Regarding this there are the following pithy verses:
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति।
शुक्रमादाय पुनरैति स्थानं हिरण्मयः पुरुष एकहंसः॥
● स्वप्नेन शारीरमभिप्रहत्य – ‘He puts the body aside in the dream state,
○ अ-सुप्तः – and remaining awake himself सुप्तान् अभिचाकशीति – watches those that are asleep,
● शुक्रम् आदाय – taking the shining functions of the organs with him. पुनर् ऐति स्थानम् – Again he comes to the waking state
○ — हिरण्मयः पुरुषः – This radiant infinite being एक-हंसः – who moves alone.
♬
❚❚
BrhU.4.3.12
प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा।
स ईयतेऽमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः॥
● प्राणेन रक्षन् अवरं कुलायम् – ‘He preserves the unclean nest (the body) with the help of the vital force,
○ कुलायात् अ-मृतः चरित्वा – and roams out of the nest. Himself immortal.
● सः ईयते अ-मृतः यत्र कामम् – He goes wherever he likes – This immortal
○ हिरण्मयः पुरुषः – radiant being एक-हंसः – who moves alone.
♬
❚❚
BrhU.4.3.13
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि।
उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्॥
● स्वप्न-अन्ते – ‘In the dream world, उच्च-अवचम् ईयमानः – attaching higher and lower states,
○ रूपाणि देवः कुरुते बहूनि – the shining one puts forth innumerable forms.
● उत इव स्त्रीभिः सह मोदमानः – He seems to be enjoying himself in the company of women,
○ जक्षत् – or laughing, उत इव अपि भयानि पश्यन् – or even seeing frightful things.
♬
❚❚
BrhU.4.3.14
आराममस्य पश्यन्ति न तं पश्यति कश्चनेति।
● आराममस्य पश्यन्त – ‘All see his sport,
○ न तं पश्यति कश्चन इति – but none sees him’.
तं नायतं बोधयेदित्याहुः।
दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते।
तं न आयतं बोधयेत् इति आहुः – They say, ‘Do not wake him up suddenly (Āyatam)’.
यम् एषः न प्रतिपद्यते – If he does not find (Yam, ‘it’ – the right organ), दुर्-भिषज्यं ह अस्मै भवति – the body (Asmai, ‘to it’) becomes difficult to doctor.
अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति
अथ उ खलु आहुः जागरित-देशः एव अस्य एषः इति – Others, however, say that the dream state of a man is nothing but the (Eṣaḥ, ‘this’ – waking state), यानि हि एव जाग्रत् पश्यति तानि सुप्तः इति – because he sees in dream (Supta) only those things that he sees in the waking state (Jāgrat). अत्र अयं पुरुषः स्वयं ज्योतिः भवति – (This is wrong: at that time he sees only current dream objects, not the past waking objects of the senses) In the dream state the man himself becomes the light.
सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति॥
सः अहं भगवते सहस्रं ददामि – ‘I give you a thousand (cows), sir. अतः ऊर्ध्वं विमोक्षाय ब्रूहि इति – Please instruct me further about liberation’.
♬
❚❚
BrhU.4.3.15
स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च। पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव
रत्वा चरित्वा – After enjoying himself and roaming, दृष्ट्वा एव पुण्यं च पापं च – and merely seeing (the results of) good and evil (in dream), सः वै एषः एतस्मिन् सम्प्रसादे – he (stays) in a state of profound sleep (Samprasāda), पुनः प्रति-न्यायं प्रति-योनि आद्रवति – and comes back in the inverse order (Prati-nyāyam) to his former condition (Prati-yoni), स्वप्नाय एव – the dream state.
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इति…
सः यद् तत्र किञ्चिद् पश्यति अन्-अन्वागतः तेन भवति – He is untouched by whatever he sees in that (dream state), अ-सङ्गः हि अयं पुरुषः इति – for this infinite being is unattached.
…एवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya. सः अहं भगवते सहस्रं ददामि – I give you a thousand (cows), sir. अतः ऊर्ध्वं विमोक्षाय एव ब्रूहि इति – Please instruct me further about liberation itself’.
♬
❚❚
BrhU.4.3.16
स वा एष एतस्मिन्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इति…
रत्वा चरित्वा – After enjoying himself and roaming, दृष्ट्वा एव पुण्यं च पापं च – and merely seeing (the results of) good and evil, सः वै एषः एतस्मिन् स्वप्ने – in the dream state (Svapna), he पुनः प्रति-न्यायं प्रति-योनि आद्रवति – comes back in the inverse order (Prati-nyāyam) to his former condition (Prati-yoni), बुद्ध-अन्ताय एव – the waking state. अ-सङ्गः हि अयं पुरुषः इति – He is untouched by whatever he sees in that (dream state), for this infinite being is unattached.
…एवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति॥
एवम् एव एतद् याज्ञ-वल्क्य – ‘It is just so, Yājña-valkya. सः अहं भगवते सहस्रं ददामि – I give you a thousand (cows), sir. अतः ऊर्ध्वं विमोक्षाय एव ब्रूहि इति – Please instruct me further about liberation itself’.
♬
❚❚
BrhU.4.3.17
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव॥
रत्वा चरित्वा – After enjoying himself and roaming, दृष्ट्वा एव पुण्यं च पापं च – and merely seeing (the results of) good and evil, सः वै एषः एतस्मिन् बुद्ध-अन्ते – in the waking state (Buddha-anta), he पुनः प्रति-न्यायं प्रति-योनि आद्रवति – comes back in the inverse order (Prati-nyāyam) to his former condition (Prati-yoni), स्वप्न-अन्ताय एव – the dream state (or that of profound sleep).
♬
❚❚
BrhU.4.3.18
तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं चापरं चैवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च॥
तद् यथा महा-मत्स्यः उभे कूले अनुसञ्चरति – As a great fish swims alternately to both the banks (or a river), पूर्वं च अपरं च – eastern and western, एवम् एव अयं पुरुषः एतौ उभौ अन्तौ अनुसञ्चरति – so does this infinite being move to both these states, स्वप्न-अन्तं च बुद्ध-अन्तं च – the dream and waking states.
♬
❚❚
BrhU.4.3.19
तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति॥
तद् यथा अस्मिन् आकाशे श्येनः वा सु-पर्णः वा विपरिपत्य – As a hawk or a falcon flying in the sky श्रान्तः – becomes tired, संहत्य पक्षौ – and stretching its wings, संलयाय एव ध्रियते – is bound for its nest, एवम् एव अयं पुरुषः – so does this infinite being एतस्मै अन्ताय धावति – run for this state, यत्र सुप्तः – where, falling asleep, न कञ्चन कामं कामयते – he craves no desire न कञ्चन स्वप्नं पश्यति – and sees no dream.
♬
❚❚
BrhU.4.3.20
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा…
ताः वै अस्य एताः हिताः नाम नाड्यः तिष्ठन्ति – In him are (Asya tiṣṭhanti) those nerves called Hitās, यथा केशः सहस्र-धा भिन्नः तावता अणिम्ना – which are as fine (Aṇiman) as a hair split into a thousand parts, शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः – are filled with white, blue, brown, green and red (subtle serums).
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते
अथ यत्र एनं घ्नन्ति इव – Now when (he feels) as if he were being killed जिनन्ति इव – or overpowered, हस्ती इव विच्छाययति – or being pursued by an elephant, गर्तम् इव पतति – or falling into a pit, यद् एव जाग्रत्-भयं पश्यति तद् अत्र अ-विद्यया मन्यते – (in short) conjures up (Manyate) at the time through ignorance whatever terrible things he has experienced in the waking state (that is the dream state),
…अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः॥
अथ यत्र देवः इव – And when he becomes (with sufficient wisdom gained in the waking state) a god, as it were, राजा इव – or a king, as it were (even in his dreams), अहम् एव इदं सर्वः अस्मि इति मन्यते – and thinks (when knowledge is complete, always that), ‘This (universe) is myself, who am all’, सः अस्य परमः लोकः – that is his highest state.
♬
❚❚
BrhU.4.3.21
तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम्। तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं
तद् वै अस्य एतद् रूपम् – That is his form — अति-च्छन्दा – beyond desires, अपहत-पाप्म – free from evils, अ-भयम् – and fearless. तद् यथा प्रियया स्त्रिया सम्परिष्वक्तः – As a man, fully embraced by his beloved wife, न बाह्यं किञ्चन वेद – does not know anything at all, either external न अन्तरम् – or internal, एवम् एव अयं पुरुषः – so does this infinite being (self), प्राज्ञेन आत्मना सम्परिष्वक्तः – fully embraced by the Supreme Self, न बाह्यं किञ्चन वेद – not know anything at all, either external न अन्तरम् – or internal.
तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम्॥
तद् वै अस्य एतद् रूपम् – That is his form — आप्त-कामम् – in which all objects of desire have been attained आत्म-कामम् – and are but the self, अ-कामम् – and which is free from desire शोक-अन्तरम् – and devoid of grief.
♬
❚❚
BrhU.4.3.22
अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः।
अत्र – In this state (of wisdom) पित-अ-पिता भवति – a father is no father, माता-अ-माता – a mother no mother, लोकाः अ-लोकाः – worlds are no worlds, देवाः अ-देवाः – the gods are no gods, वेदाः अ-वेदाः – the Vedas are no Vedas.
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसो
अत्र – In this state अत्र स्तेनः अ-स्तेनः भवति – a thief is no thief, भ्रूण-हा अ-भ्रूण-हा – the killer of a noble Brāhmaṇa (or of an embryo) is no killer, चाण्डालः अ-चाण्डालः – a Cāṇḍāla (Caṇḍāla, of a Śūdra father and a Brāhmaṇa mother) is no Cāṇḍāla, पौल्कसः अ-पौल्कसः – a Paulkasa (Pulkasa, of a Śūdra father and a Kṣatriya mother) is no Paulkasa, श्रमणः अ-श्रमणः – a monk is no monk, तापसः अ-तापसः – a hermit is no hermit.
…अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति॥
अन्-अन्वागतं पुण्येन – (This form of his) is untouched by good work अन्-अन्वागतं पापेन – and untouched by evil work, तीर्णः हि तदा – for he is then beyond (Tīrṇa) सर्वान् शोकान् हृदयस्य भवति – all the woes of his heart (intellect).
♬
❚❚
BrhU.4.3.23
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्। न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्॥
यद् वै तद् न पश्यति – That it does not see (in deep sleep) पश्यन् वै तद् न पश्यति – is (because), though seeing then, it does not see; न हि द्रष्टुः दृष्टेः विपरिलोपः विद्यते – for the vision (Dṛṣṭi) of the witness (Draṣṭṛ) can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second ततः अन्यद् विभक्तं यद् पश्येत् – separate from it (the witness) which it can see.
♬
❚❚
BrhU.4.3.24
यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत्॥
यद् वै तद् न जिघ्रति – That it does not smell in that state जिघ्रन् वै तद् न जिघ्रति – is because, though smelling then, it does not smell; न हि घ्रातुः घ्रातेः विपरिलोपः विद्यते – for the smeller’s function of smelling can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् जिघ्रेत् – separate from it (the witness) which it can smell.
BrhU.4.3.25
यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत्॥
यद् वै तद् न रसयते – That it does not taste in that state रसयन् वै तद् न रसयते – is because, though tasting then, it does not taste; न हि रसयितुः रसयतेः विपरिलोपः विद्यते – for the taster’s function of tasting can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् रसयेत् – separate from it which it can taste.
BrhU.4.3.26
यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत्॥
यद् वै तद् न वदति – That it does not speak in that state वदन् वै तद् न वदति – is because, thought speaking then, it does not speak; न हि वक्तुः वक्तेः विपरिलोपः विपरिलोपः विद्यते – for the speaker’s function of speaking can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् वदेत् – separate from it which it can speak.
BrhU.4.3.27
यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात्॥
यद् वै तद् न शृणोति – That it does not hear in that state शृण्वन् वै तद् न शृणोति – is because, though hearing then, it does not hear; न हि श्रोतुः श्रुतेः विपरिलोपः विद्यते – for the listener’s function of hearing can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् शृणुयात् – separate from it which it can hear.
BrhU.4.3.28
यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत॥
यद् वै तद् न मनुते – That it does not think in that state मन्वानः वै तद् न मनुते – is because, though thinking then, it does not think; न हि मन्तुः मतेः विपरिलोपः विद्यते – for the thinker’s function of thinking can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् मन्वीत – separate from it which it can think.
BrhU.4.3.29
यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत्॥
यद् वै तद् न स्पृशति – That it does not touch in that state स्पृशन् वै तद् न स्पृशति – is because, though touching then, it does not touch; न हि स्प्रष्टुः स्पृष्टेः विपरिलोपः विद्यते – for the toucher’s function of touching can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् स्पृशेत् – separate from it which it can touch.
BrhU.4.3.30
यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात्॥
यद् वै तद् न विजानाति – That it does not know in that state विजानन् वै तद् न विजानाति – is because, though knowing then, it does not know; न हि विज्ञातुः विज्ञातेः विपरिलोपः विद्यते – for the knower’s function of knowing can never be lost, अ-विनाशित्वात् – because it is imperishable. न तु तद् द्वितीयम् अस्ति – But there is not that second thing ततः अन्यद् विभक्तं यद् विजानीयात् – separate from it which it can know.
♬
❚❚
BrhU.4.3.31
यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात्॥
यत्र वै अन्यद् इव स्यात् – When there is something else, as it were, तत्र अन्यः अन्यद् पश्येत् – then one can see something, अन्यः अन्यद् जिघ्रेत् – one can smell something, अन्यः अन्यद् रसयेत् – one can taste something, अन्यः अन्यद् वदेत् – one can speak something, अन्यः अन्यद् शृणुयात् – one can hear something, अन्यः अन्यद् मन्वीता – one can think something, अन्यः अन्यद् स्पृशेत् – one can touch something, अन्यः अन्यद् विजानीयात् – or one can know something.
♬
❚❚
BrhU.4.3.32
सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति ह…
सलिलः भवति – It becomes (transparent like) water, एकः – one, द्रष्टा – the witness, अ-द्वैतः – and without a second. एषः ब्रह्म-लोकः सम्राज् इति ह – This is the sphere (state) of Brahman, O Emperor.
…एनमनुशशास याज्ञवल्क्य एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति॥
एनम् अनुशशास याज्ञ-वल्क्यः – Thus did Yājña-valkya instruct Janaka: एषा अस्य परमा गतिः – This is its supreme attainment, एषा अस्य परमा सम्पद् – this is its supreme glory, एषः अस्य परमः लोकः – this is its highest world, एषः अस्य परमः आनन्दः – this is its supreme bliss. एतस्य एव आनन्दस्य अन्यानि भूतानि मात्राम् उपजीवन्ति – On a particle (Mātrā) of this very bliss other beings live.
♬
❚❚
BrhU.4.3.33
स यो मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः
सः यः मनुष्याणां राद्धः समृद्धः भवति – He who is a perfect of physique (Rāddha) and prosperous among men, अन्येषाम् अधिपतिः – the ruler of others, सर्वैः मानुष्यकैः भोगैः सम्पन्न-तमः – and most lavishly supplied with all human enjoyments, सः मनुष्याणां परमः आनन्दः – represents greatest joy among men.
अथ ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दः
अथ ये शतं मनुष्याणाम् आनन्दाः – This human joy multiplied a hundred times सः एकः पितृणां जित-लोकानाम् आनन्दः – makes one unit of joy for the Manes who have won that world of theirs.
अथ ये शतं पितृणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दः
अथ ये शतं पितृणां जित-लोकानाम् आनन्दाः – The joy of these Manes who have won that world multiplied a hundred times सः एकः गन्धर्व-लोके आनन्दः – makes one unit of joy in the world of the celestial minstrels.
अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तः
अथ ये शतं गन्धर्व-लोके आनन्दाः – This joy in the world of the celestial minstrels multiplied a hundred times सः एकः कर्म-देवानाम् आनन्दः – makes one unit of joy for the gods by action — ये कर्मणा देवत्वम् अभिसम्पद्यन्तः – those who have attained their godhead by their actions.
अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः
अथ ये शतं कर्म-देवानाम् आनन्दाः – This joy of the gods by action multiplied a hundred times सः एकः आजान-देवानाम् आनन्दः – makes one unit of joy for the gods by birth, यः च श्रोत्रियः अ-वृजिनः अ-काम-हतः – as also of one who is versed in the Vedas, sinless (A-vṛjina) and free from desire.
अथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः
अथ ये शतम् आजान-देवानाम् आनन्दाः – This joy of the gods by birth multiplied a hundred times सः एकः प्रजा-पति-लोके आनन्दः – makes one unit of joy in the world of Prajā-pati (Virāj), यः च श्रोत्रियः अ-वृजिनः अ-काम-हतः – as well as of one who is versed in the Vedas, sinless and free from desire.
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः
अथ ये शतं प्रजा-पति-लोके आनन्दाः – This joy in the world of Prajā-pati multiplied a hundred times सः एकः ब्रह्म-लोके आनन्दः – makes one unit of joy in the world of Brahman (Hiraṇya-garbha), यः च श्रोत्रियः अ-वृजिनः अ-काम-हतः – as well as of one who is versed in the Vedas, sinless and free from desire.
अथैष एव परम आनन्द एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः
अथ एषः एव परमः आनन्दः – This indeed is the supreme bliss. एषः ब्रह्म-लोकः सम्राज् इति ह उवाच याज्ञ-वल्क्यः – This is the state of Brahman, O Emperor, said Yājña-valkya.
सोहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयाञ्चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति॥
सः अहं भगवते सहस्रं ददामि – ‘I give you a thousand (cows), sir. अतः ऊर्ध्वं विमोक्षाय एव ब्रूहि इति – Please instruct me further about liberation itself’.
अत्र ह याज्ञ-वल्क्यः बिभयाञ्-चकार – At this Yājña-valkya was afraid मेधावी राजा – that the intellect Emperor सर्वेभ्यः मा अन्तेभ्यः उदरौत्सीत् इति – was constraining him (Mā, ‘me’) to finish with all his conclusions.
♬
❚❚
BrhU.4.3.34
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव॥
रत्वा चरित्वा – After enjoying himself and roaming, दृष्ट्वा एव पुण्यं च पापं च – and merely seeing (the results of) good and evil, सः वै एषः एतस्मिन् स्वप्न-अन्ते – in the dream state (Svapna-anta), he पुनः प्रति-न्यायं प्रति-योनि आद्रवति – comes back in the inverse order (Prati-nyāyam) to his former condition (Prati-yoni), बुद्ध-अन्ताय एव – the waking state (cf. BrhU.4.3.17).
♬
❚❚
BrhU.4.3.35
तद्यथानः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति॥
तद् यथा अनस् – Just as a cart, सुसमाहितम् – heavily loaded, उत्सर्जत् यायात् – goes on rumbling, एवम् एव अयं शारीरः आत्मा – so does the self that is in the body, प्राज्ञेन आत्मना अन्वारूढः – being presided over by the Supreme Self, उत्सर्जन् याति – goes making noises, यत्र एतद् ऊर्ध्व-उच्छ्वासी भवति – when breathing becomes difficult (‘breathing his last’).
♬
❚❚
BrhU.4.3.36
स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत…
सः यत्र अयम् अणिमानं न्येति – When this (body) becomes thin जरया वा उपतपता वा अणिमानं निगच्छति and is emaciated through old age or disease, तद् यथा आम्रं वा then, as a mango, उदुम्बरं वा पिप्पलं वा – or a fig, or a fruit of the peepul tree बन्धनात् प्रमुच्यते – is detached from its stalk,
एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव॥
एवम् एव अयं पुरुषः – so does this infinite being, एभ्यः अङ्गेभ्यः सम्प्रमुच्य – completely detaching himself from the parts of the body, पुनः प्रति-न्यायं प्रति-योनि आद्रवति – again goes, in the same way that he came, to particular bodies (Prati-yoni), प्राणाय एव – for the unfoldment of his vital force.
♬
❚❚
BrhU.4.3.37
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीति…
तद् यथा राजानम् आयान्तम् – Just as when a king is coming, उग्राः प्रति-एनसः – the Ugras set against particular offenses, सूत-ग्रामण्यः – the Sūtas (the royal attendants) and the leaders of the village अन्नैः पानैः आवस-थैः प्रतिकल्पन्ते – wait (Parikalpante) for him with varieties of food and drink and mansions ready, अयम् आयाति अयम् आगच्छति इति – saying, ‘Here he comes, here he comes’,
एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति॥
एवं ह एवं-विदम् – so for the person who knows (about the results of his work), सर्वाणि भूतानि प्रतिकल्पन्ते – all the elements wait इदं ब्रह्म आयाति इदम् आगच्छति इति – saying, ‘Here comes Brahman, here he comes’.
♬
❚❚
BrhU.4.3.38
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति॥
तद् यथा राजानं प्रयियासन्तम् – Just as when the king wishes to depart, उग्राः प्रति-एनसः – the Ugras set against particular offenses, सूत-ग्रामण्यः अभिसमायन्ति – the Sūtas and the leaders of the village approach him, एवम् एव इमम् आत्मानम् अन्त-काले सर्वे प्राणाः अभिसमायन्ति – so do all the organs approach the departing man at the time of death, यत्र एतद् ऊर्ध्व-उच्छ्वासी भवति – when breathing becomes difficult.
BrhU.4.4
♬
❚❚
BrhU.4.4.1
स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति॥
सः यत्र अयम् आत्मा – When this self अ-बल्यं नि-एत्य – becomes weak सम्मोहम् इव नि-एति – and senseless, as it were, अथ एनम् एते प्राणाः अभिसमायन्ति – the organs come to it. सः एताः तेजो-मात्राः समभ्याददानः – Completely withdrawing these particles of light, it हृदयम् एव अन्ववक्रामति – comes to the heart. सः यत्र एषः चाक्षुषः पुरुषः – When the presiding deity of the eye पराच् पर्यावर्तते – turns back from all sides, अथ अ-रूप-ज्ञः भवति – the man fails to notice color.
♬
❚❚
BrhU.4.4.2
एकीभवति न पश्यतीत्याहुरेकी भवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरेकी भवति न वदतीत्याहुरेकी भवति न शृणोतीत्याहुर्…
एकी-भवति – (The eye) becomes united (with the subtle body); न पश्यति इति आहुः – then people say, ‘He does not see’. एकी-भवति न जिघ्रति इति आहुः – (The nose) becomes united; then they say, ‘He does not smell’. एकी-भवति न रसयते इति आहुः – (The tongue) becomes united; then they say, ‘He does not taste’. एकी-भवति न वदति इति आहुः – (The vocal organ) becomes united; then they say, ‘He does not speak’. एकी-भवति न शृणोति इति आहुः – (The ear) becomes united; then they say, ‘He does not hear’.
एकी भवति न मनुत इत्याहुरेकी भवति न स्पृशतीत्याहुरेकी भवति न विजानातीत्याहुः
एकी-भवति न मनुते इति आहुः – (The Manas) becomes united; then they say, ‘He does not think’. एकी-भवति न स्पृशति इति आहुः – (The skin) becomes united; then they say, ‘He does not touch’. एकी-भवति न विजानाति इति आहुः – (The intellect) becomes united; then they say, ‘He does not know’.
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति
तस्य ह एतस्य हृदयस्य अग्रं प्रद्योतते – The top of the heart brightness. तेन प्रद्योतेन एषः आत्मा निष्क्रामति – Through that brightened top the self departs, चक्षुष्टः वा – either through the eye, मूर्ध्नः वा – or through the head, अन्येभ्यः वा शरीर-देशेभ्यः – or through any other part of the body. तम् उत्क्रामन्तम् – When it departs, प्राणः अनूत्क्रामति – the vital force follows; प्राणम् अनूत्क्रामन्तम् – when the vital force departs, सर्वे प्राणाः अनूत्क्रामन्ति – all the organs follow.
सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति। तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च॥
स-विज्ञानः भवति – Then the self has particular consciousness (that he has dwelled upon, Sa-), स-विज्ञानम् एव अन्ववक्रामति – and goes to the body which is related to that consciousness (i.e. the matching, next body). तं विद्या-कर्मणी समन्वारभेते – It is followed by knowledge, work पूर्व-प्रज्ञा च – and past experience.
♬
❚❚
BrhU.4.4.3
तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपअसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति॥
तद् यथा तृण-जलायुका – Just as a leech supported on a straw तृणस्य अन्तं गत्वा – goes to the end of it, अन्यम् आक्रमम् आक्रम्य – takes hold of another support आत्मानम् उपसंहरति – and contracts itself, एवम् एव अयम् आत्मा – so does the self इदं शरीरं निहत्य – throw this body aside — अ-विद्यां गमयित्वा – makes it senseless — अन्यम् आक्रमम् आक्रम्य – takes hold of another support, आत्मानम् उपसंहरति – and contracts itself.
♬
❚❚
BrhU.4.4.4
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत…
तद् यथा पेशस्-कारी – Just as a goldsmith पेशसः मात्राम् अपादाय – takes apart a little quantity of gold अन्यद् नव-तरं कल्याण-तरं रूपं तनुते – and fashions another – a newer and better – form,
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम्॥
एवम् एव अयम् आत्मा इदं शरीरं निहत्य – so does the self throw this body away, अ-विद्यां गमयित्वा – or makes it senseless, अन्यद् नव-तरं कल्याण-तरं रूपं कुरुते – and makes another – a newer and better – form पित्र्यं वा – suited to the Manes गान्धर्वं वा – or the celestial minstrels, दैवं वा – or the gods, प्राजा-पत्यं वा – or Virāj, ब्राह्मं वा – or Hiraṇya-garbha, अन्येषां वा भूतानाम् – or other beings.
♬
❚❚
BrhU.4.4.5
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः
सः वै अयम् आत्मा ब्रह्म – That self is indeed Brahman, विज्ञान-मयः – as also identified with the intellect, मनस्-मयः प्राण-मयः – the Manas and the vital force, चक्षुस्-मयः श्रोत्र-मयः – with the eyes and ears, पृथिवी-मयः आपः-मयः – with earth, water, वायु-मयः आकाश-मयः – air and the space, तेजस्-मयः अ-तेजस्-मयः – with fire, and what is other than fire,
काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदम्मयोऽदोमय इति
सः वै अयम् आत्मा ब्रह्म – That self is indeed Brahman, विज्ञान-मयः – as also identified with the intellect, मनस्-मयः प्राण-मयः – the Manas and the vital force, चक्षुस्-मयः श्रोत्र-मयः – with the eyes and ears, पृथिवी-मयः आपः-मयः – with earth, water, वायु-मयः आकाश-मयः – air and the space, तेजस्-मयः अ-तेजस्-मयः – with fire, and what is other than fire,
यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन।
यथा-कारी यथा-चारी – As it does and acts, तथा भवति – so it becomes; साधु-कारी साधुः भवति – by doing good it becomes good, पाप-कारी पापः भवति – and by doing evil it becomes evil — पुण्यः पुण्येन कर्मणा भवति – it becomes virtuous through good acts पापः पापेन – and vicious through evil acts.
अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते॥
अथ उ खलु आहुः – Others, however, say, काम-मयः एव अयं पुरुषः इति – ‘The self is identified with desire alone. सः यथा-कामः भवति तद्-क्रतुः भवति – What it desires, it resolves (Kratu); यद्-क्रतुः भवति तद्-कर्म कुरुते – what it resolves, it works out; यद्-कर्म कुरुते तद् अभिसम्पद्यते – and what it works out, it attains’.
♬
❚❚
BrhU.4.4.6
तदेष श्लोको भवति।
तद् एषः श्लोकः भवति – Regarding this there, is the following pithy verse:
तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य।
प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम्।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे॥
● तद् एव सक्तः सह कर्मणा एति – ‘Being attached he, together with the work, attains,
○ लिङ्गं मनस् यत्र निषक्तम् अस्य – that result to which his subtle body (Liṅga) or mind is attached.
● प्राप्य अन्तम् – Exhausting the results कर्मणः तस्य यद् किञ्च इह करोति अयम् – of whatever work he did in this life,
○ तस्मात् लोकात् पुनः ऐति – he returns from that world अस्मै लोकाय – to this कर्मणे – for (fresh) work’.
इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति॥
इति नु कामयमानः – Thus does the man who desires (transmigrates, Saṃsarati). अथ अ-कामयमानः – But the man who does not desire (never transmigrates). यः अ-कामः – Of him who is without desires, निष्कामः – who is free from desires, आप्त-कामः – the objects of whose desire have been attained, आत्म-कामः – and to whom all objects of desire are but the Self — न तस्य प्राणाः उत्क्रामन्ति – the organs do not depart. ब्रह्म एव सन् ब्रह्म अप्येति – Being but Brahman, he is merged in Brahman.
♬
❚❚
BrhU.4.4.7
तदेष श्लोको भवति।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति॥
तद् एषः श्लोकः भवति – Regarding this there is this pithy verse:
● यदा सर्वे प्रमुच्यन्ते – ‘When gone are all
○ कामाः ये अस्य हृदि श्रिताः – desires that dwell in his heart (mind)
● अथ मर्त्यः अ-मृतः भवति – then he, having been mortal, becomes immortal,
○ अत्र ब्रह्म समश्नुते इति – and attains Brahman in this very body’.
तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव
तद् यथा अहि-निर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत – Just as the lifeless (Mṛtā) slough of a snake is cast off (Prayastā) and lies (Śayīta in the ant-hill (Valmīke, एवम् एव इदं शरीरं शेते – so does this body lie. अथ अयम् अ-शरीरः – Then the self becomes disembodied अ-मृतः – and immortal, प्राणः – (becomes) the Prāṇa (Supreme Self), ब्रह्म एव तेजस् एव – Brahman, the Light.
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः॥
सः अहं भगवते सहस्रं ददामि इति ह – ‘I give you a thousand (cows), sir’, उवाच जनकः वैदेहः – said Janaka, Emperor of Videha.
♬
❚❚
BrhU.4.4.8
तदेते श्लोका भवन्ति।
तद् एते श्लोकाः भवन्ति – Regarding this there are the following pithy verses:
अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव।
तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः॥
● अणुः पन्थाः विततः पुराणः – The subtle, extensive, ancient way (Panthan).
○ मां स्पृष्टः – has touched (been reached by) me. अनुवित्तः मया एव – (Nay) I have realized it myself.
● तेन धीराः अपियन्ति ब्रह्म-विदः – Through that sages – the knowers of Brahman – (also) go
○ स्वर्गं लोकम् – to the heavenly sphere (liberation) इतः ऊर्ध्वं – after the fall of this body, विमुक्ताः – being freed (even while living).
♬
❚❚
BrhU.4.4.9
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च॥
● तस्मिन् – Regarding this शुक्लम् उत नीलम् आहुः – some speak of it as white, others as blue,
○ पिङ्गलं हरितं लोहितं च – gray, green, or red.
● एषः पन्थाः ब्रह्मणा ह अनुवित्तः – This path is realized by a Brāhmaṇa (knower of Brahman).
○ तेन एति ब्रह्म-विद् – Any other knower of Brahman (also) treads this path पुण्य-कृत् – who has done good deeds तैजसः च – and is identified with the Supreme Light.
♬
❚❚
BrhU.4.4.10
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायां रताः॥
● अन्धं तमः प्रविशन्ति – Into blinding darkness (ignorance) enter
○ ये अ-विद्याम् उपासते – those who worship ignorance (rites).
● ततः भूयस् इव ते तमस् – Into greater darkness, as it were, than that (enter)
○ ये उ विद्यायां रताः – those who are devoted to knowledge (meditation only on the ceremonial portion of the Vedas).
♬
❚❚
BrhU.4.4.11
अनन्दा नाम ते लोका अन्धेन तमसावृताः।
तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः॥
● अ-नन्दाः नाम ते लोकाः – Miserable are those worlds
○ अन्धेन तमसा आवृताः – enveloped by (that) blinding darkness (ignorance).
● तान् ते प्रेत्य अभिगच्छन्ति – To them, after death, go those
○ अ-विद्वांसः अ-बुधः जनाः – people who are ignorant and unwise.
♬
❚❚
BrhU.4.4.12
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः।
किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत्॥
● आत्मानं चेद् विजानीयात् – If a man (Pūruṣa) knows the Self
○ अयम् अस्मि इति पूरुषः – as ‘I am this’,
● किम् इच्छन् – then desiring what कस्य कामाय – and for whose sake
○ शरीरम् अनुसञ्ज्वरेत् – will he suffer in the wake of the body?
(or, Whose sake will he suffer in the wake of the body?)
♬
❚❚
BrhU.4.4.13
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्सन्देह्ये गहने प्रविष्टः।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव॥
● यस्य अनुवित्तः – He who has realized प्रतिबुद्धः आत्मा – and intimately known the Self
○ अस्मिन् सन्देह्ये गहने प्रविष्टः – that has entered (Praviṣṭa) this perilous and inaccessible (Gahane) place (Sandeha, the body),
● सः विश्व-कृत् – is the maker of the universe, सः हि सर्वस्य कर्ता – for he is the maker of all,
○ तस्य लोकः – (all is) his Self (Loka), सः उ लोकः एव – and he again is indeed the Self (Loka, of all).
♬
❚❚
BrhU.4.4.14
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः।
ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति॥
● इह एव सन्तः – Being in this very (body) अथ विद्मः तद् वयम् – we have somehow known that (Brahman).
○ न चेद् – If not, अ-वेदिः – (I should have been) ignorant, महती विनष्टिः – (and) great destruction (would have taken place).
● ये तद् विदुः अ-मृताः ते भवन्ति – Those who know It become immortal,
○ अथ इतरे दुःखम् एव अपियन्ति – while others attain misery alone.
♬
❚❚
BrhU.4.4.15
यदैतमनुपश्यत्यात्मानं देवमञ्जसा।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते॥
● यदा एतम् अनु पश्यति – When a man after (teaching) realizes this,
○ आत्मानं देवम् अञ्जसा – directly (Añjasā), the effulgent Self,
● ईशानं भूत-भव्यस्य – the Lord of all that has been and will be,
○ न ततः विजुगुप्सते – he no longer wishes to hide himself from it.
♬
❚❚
BrhU.4.4.16
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते।
तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्॥
● यस्मात् अर्वाच् संवत्सरः – Below which the year
○ अहोभिः परिवर्तते – with its days rotates,
● तद् देवाः ज्योतिषां ज्योतिः – The gods upon that Light of all lights,
○ आयुस् ह उपासते अ-मृतम् – immortal, meditate as longevity.
♬
❚❚
BrhU.4.4.17
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः।
तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्॥
● यस्मिन् पञ्च पञ्च-जनाः – That in which the five groups of five
○ आकाशः च प्रतिष्ठितः – and the (subtle) space are placed,
● तम् एमेव मन्ये आत्मानम् – that very Ātman I regard.
○ विद्वान् ब्रह्म अ-मृतः अ-मृतम् – as the immortal (A-mṛtam) Brahman. Knowing (Brahman, I) am immortal.
♬
❚❚
BrhU.4.4.18
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः।
ते निचिक्युर्ब्रह्म पुराणमग्र्यम्॥
● प्राणस्य प्राणम् – The Vital Force of the vital force, चक्षुषः चक्षुः उत – the Eye of the eye,
○ श्रोत्रस्य श्रोत्रम् – the Ear of the ear, मनसः ये मनस् विदुः – and the Mind of the mind – those who have known,
● ते निचिक्युः ब्रह्म – they have realized Brahman,
○ पुराणम् अग्र्यम् – ancient, primordial.
♬
❚❚
BrhU.4.4.19
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥
● मनसा एव अनुद्रष्टव्यम् – Through the mind alone (It) is to be realized.
○ न इह नाना अस्ति किञ्चन – There is no difference (Nānā, separateness or diversity) whatsoever in It.
● मृत्योः सः मृत्युम् आप्नोति – He goes from death to death,
○ यः इह नाना इव पश्यति – who sees difference, as it were, in It.
♬
❚❚
BrhU.4.4.20
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्।
विरजः पर आकाशादज आत्मा महान्ध्रुवः॥
● एकधा एव अनुद्रष्टव्यम् – It should be realized in one form only,
○ एतद् अ-प्रमयं ध्रुवम् – (for) It is unknowable and eternal.
● वि-रजस् – Taintless परः आकाशात् – and beyond the (subtle) space,
○ अ-जः आत्मा महान् ध्रुवः – the Self is birthless, infinite and constant.
♬
❚❚
BrhU.4.4.21
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति॥
● तम् एव धीरः विज्ञाय – The intelligent, knowing about this alone,
○ प्रज्ञां कुर्वीत ब्राह्मणः – an aspirant after Brahman, should attain intuitive knowledge (Prajñā, i.e. assimilated, not memorized).
● न अनुध्यायात् बहून् शब्दान् – (He) should not think of too many words.
○ वाचः विग्लापनं हि तद् इति – for it is particularly fatiguing to the organ of speech.
♬
❚❚
BrhU.4.4.22
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते
सः वै एषः महान् अ-जः आत्मा – That great, birthless Self यः अयं विज्ञानमयः – which is identified with the intellect प्राणेषु – and is in the midst of the organs, यः एषः अन्तर्-हृदये आकाशः तस्मिन् शेते – lies in the space that is within the heart.
सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्…
सर्वस्य वशी – It is the controller of all, सर्वस्य ईशानः – the lord of all, सर्वस्य अधिपतिः – the ruler of all.
सः न साधुना कर्मणा भूयान् – It does not grow better (Bhūyān) through good work न उ एव अ-साधुना कनीयान् – nor worse through bad work.
एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय
एषः सर्व-ईश्वरः – It is the lord of all. एषः भूत-अधिपतिः – It is the ruler of all beings. एषः भूत-पालः – It is the protector of all beings.
एषः सेतुः विधरणः – It is the bank that serves as the boundary एषां लोकानाम् अ-सम्भेदाय – to keep the different worlds apart.
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति।
तम् एतं वेद-अनुवचनेन ब्राह्मणाः विविदिषन्ति – The Brāhmaṇas seek to know It through the study of the Vedas, यज्ञेन दानेन – sacrifices, charity, तपसा अन्-आशकेन – and austerity consisting in a dis-passionate enjoyment (of sense-objects). एतम् एव विदित्वा – Knowing It alone, मुनिः भवति – one becomes a sage.
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति। एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति
एतम् एव प्रव्राजिनः लोकम् इच्छन्तः प्रव्रजन्ति – Desiring this world (the Self) alone, monks renounce their homes (Pravrajanti) (BrhU.3.5.1).
एतद् तद् – This is (the reason for) it: ह स्म वै पूर्वे विद्वांसः – The ancient sages, it is said, प्रजां न कामयन्ते – did not desire children (thinking), किं प्रजया करिष्यामः – ‘What shall we achieve through children, येषां नः अयम् आत्मा – we who have attained this Self, अयं लोकः इति – this world (result)’.
ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः।
ते ह स्म पुत्र-एषणायाः च वित्त-एषणायाः च लोक-एषणायाःच व्युत्थाय – They, it is said, renounced (Vyutthaaya) their desire for sons, for wealth and for the worlds, अथ भिक्षा-चर्यं चरन्ति – and lived a mendicant’s life.
या हि एव पुत्र-एषणा सा वित्त-एषणा – That which is the desire for sons is the desire for wealth, या वित्त-एषणा सा लोक-एषणा – and that which is the desire for wealth is the desire for worlds, उभे हि एते एषणे एव भवतः – for both these are but desires.
स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति…
सः एषः न इति न इति आत्मा – This self is That which has been described as ‘Not this, not this’ (BrhU.3.9.26). अ-गृह्यः न हि गृह्यते – It is imperceptible, for It is never perceived; अ-शीर्यः न हि शीर्यते – undecaying, for It never decays; अ-सङ्गः न हि सज्यते – unattached, for It is never attached; अ-सितः न व्यथते न रिष्यति – unfettered – It never feels pain, and never suffers injury.
एतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः॥
एतम् उ ह एते न तरतः इति – (It is but proper) that the sage is never overtaken (Tarata) by these two thoughts, अतः पापम् अकरवम् इति – ‘I did an evil act for this’, अतः कल्याणम् अकरवम् इति – ‘I did a good act for this’. उभे उ ह एव एषः एते तरति – He conquers both of them. न एनं कृत-अ-कृते तपतः – Things done or not done do not trouble him.
♬
❚❚
BrhU.4.4.23
तदेतदृचाभ्युक्तम्।
एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्।
तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति॥
तद् एतद् ऋचा अभ्युक्तम् – This has been expressed by the following hymn:
● एषः नित्यः महिमा ब्राह्मणस्य – This is the eternal glory of a knower of Brahman:
○ न वर्धते कर्मणा न उ कनीयान् – it neither increases nor decreases through work:
● तस्य एव स्यात् पदविद् – (Therefore) one should know the nature of that alone. तं विदित्वा – Knowing it.
○ न लिप्यते कर्मणा पापकेन इति – one is not touched by evil action.
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति
तस्मात् एवं-विद् – Therefore he who knows it as such शान्तः – (firstly, bhūtvā, as preparations, sādhanas, SVSSS.94–225, and finally) becomes (sufficiently, then fully) self-controlled, दान्तः – calm, उपरतः – withdrawn into himself, तितिक्षुः – enduring समाहितः भूत्वा – and (mentally) concentrated, आत्मनि एव आत्मानं पश्यति – and (then, in keeping with the teaching as fact, śraddhā) sees the Self in his own self (body); सर्वम् आत्मानं पश्यति – he sees all as the Self.
नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति
न एनं पाप्मा तरति – Evil does not overtake him, सर्वं पाप्मानं तरति – but he transcends all evil. न एनं पाप्मा तपति – Evil does not trouble him, सर्वं पाप्मानं तपति – (but) he consumes all evil. वि-पापः – He becomes sinless, वि-रजस् – taintless, अ-विचिकित्सः – free from doubts, ब्राह्मणः भवति – and a Brāhmaṇa (knower of Brahman).
एष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति॥
एषः ब्रह्म-लोकः सम्राज् – This is the world of (i.e. that is) Brahman, O Emperor, एनं प्रापितो असि इति ह उवाच याज्ञ-वल्क्यः – and you have attained it – said Yājña-valkya.
सः अहं भगवते विदेहान् ददामि – ‘I give you sir, the empire of Videha, मां च अपि सह – and myself too with it, दास्याय इति – to wait upon you’.
♬
❚❚
BrhU.4.4.24
स वा एष महानज आत्मान्नादो वसुदानो विन्दते वसु य एवं वेद॥
सः वै एषः महान् अ-जः आत्मा – That great, birthless Self अन्न-अदः – is the eater of food वसु-दानः – and the giver of wealth (the fruits of one’s work). विन्दते वसु यः एवं वेद – He who knows It as such receives wealth (those fruits).
♬
❚❚
BrhU.4.4.25
स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद॥
सः वै एषः महान् अ-जः आत्मा – That great, birthless Self अ-जरः – is undecaying, अ-मरः – immortal, अ-मृतः – undying, अ-भयः – fearless ब्रह्म – and Brahman (infinite). अ-भयं वै ब्रह्म – Brahman is indeed fearless. अ-भयं हि वै ब्रह्म भवति यः एवं वेद – He who knows It as such certainly becomes the fearless Brahman.
BrhU.4.5
♬
❚❚
BrhU.4.5.1
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन्॥
अथ ह याज्ञ-वल्क्यस्य द्वे भार्ये बभूवतुः – Now Yājña-valkya had two wives, मैत्रेयी च कात्यायनी च – Maitreyī and Kātyāyanī (cf. BrhU.2.4.1–15). तयोः ह मैत्रेयी ब्रह्म-वादिनी बभूव – Of these Maitreyī used to discuss Brahman, स्त्री-प्रज्ञा एव तर्हि कात्यायनी – (while) Kātyāyanī had then only an essentially feminine outlook. अथ ह याज्ञ-वल्क्यः अन्यद् वृत्तम् उपाकरिष्यन् – One day Yājña-valkya, with a view to embracing another life (Vṛtta) –
♬
❚❚
BrhU.4.5.2
मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति॥
मैत्रेयि इति ह उवाच याज्ञ-वल्क्यः – ‘O Maitreyī, my dear (Are),’ said Yājña-valkya, प्रव्रजिष्यन् वै अरे अहम् अस्मात् स्थानात् अस्मि – ‘I am going to renounce this life for monasticism. हन्त ते अनया कात्यायन्या अन्तं करवाणि इति – Allow me to finish between you and Kātyāyanī’.
♬
❚❚
BrhU.4.5.3
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति
सा ह उवाच मैत्रेयी – Thereupon Maitreyī said, यद् नु मे इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् – ‘Sir, if indeed this whole earth full of wealth be mine, स्यात् नु अहं तेन अ-मृता – shall I be immortal through that, आहो न इति – or not’?
नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति॥
न इति ह उवाच याज्ञ-वल्क्यः – ‘No,’ replied Yājña-valkya, यथा एव उपकरणवतां जीवितं तथा एव ते जीवितं स्यात् – ‘your life will be just like that of people who possess plenty of things (Upakaraṇavat), अ-मृतत्वस्य तु न आशा अस्ति वित्तेन इति – but there is no hope of immortality through wealth’.
BrhU.4.5.4
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति॥
सा ह उवाच मैत्रेयी – Then Maitreyī said, येन अहं न अ-मृता स्यां किम् अहं तेन कुर्याम् – ‘What shall I do with that which will not make me immortal? यद् एव भगवान् वेद तद् एव मे ब्रूहि इति – Tell me, sir, of that alone which you know (to be the only means of immortality)’.
♬
❚❚
BrhU.4.5.5
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति॥
सः ह उवाच याज्ञवल्क्यः – Yājña-valkya said, प्रिया वै खलु नः भवती सती – ‘My dear, you have been my beloved (even before), प्रियम् अवृधत् – and you have magnified what is after my heart. हन्त तर्हि भवति एतद् व्याख्यास्यामि ते – If you wish, my dear, I will explain it to you. व्याचक्षाणस्य तु मे – As I explain it, निदिध्यासस्व इति – meditate (on its meaning).
♬
❚❚
BrhU.4.5.6
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति।
सः ह उवाच – He said: न वै अरे पत्युः कामाय पतिः प्रियः भवति – ‘It is not for the sake of the husband, my dear, that he is loved, आत्मनः तु कामाय – but for one’s own sake (for the sake of one’s own self) पतिः प्रियः भवति – that he is loved.
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति।
न वा अरे जायायै कामाय जाया प्रिया भवति – It is not for the sake of the wife, my dear, that she is loved, आत्मनः तु कामाय जाया प्रिया भवति – but for one’s own sake that she is loved.
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति।
न वै अरे पुत्राणां कामाय पुत्राः प्रियाः भवन्ति – It is not for the sake of the sons, my dear, that they are loved, आत्मनः तु कामाय पुत्राः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति।
न वै अरे वित्तस्य कामाय वित्तं प्रियं भवति – It is not for the sake of wealth, my dear, that it is loved, आत्मनः तु कामाय वित्तं प्रियं भवति – but for one’s own sake that it is loved.
न वा अरे पशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति।
न वै अरे पशूनां कामाय पशवः प्रियाः भवन्ति – It is not for the sake of the animals, my dear, that they are loved, आत्मनः तु कामाय वित्तं प्रियं भवति – but for one’s own sake that it is loved.
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति।
न वै अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति – It is not for the sake of the Brāhmaṇa, my dear, that he is loved, आत्मनः तु कामाय ब्रह्म प्रियं भवति – but for one’s own sake that he is loved.
न वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्त्रं प्रियं भवति।
न वै अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति – It is not for the sake of the Kṣatriya, my dear, that he is loved, आत्मनः तु कामाय क्षत्रं प्रियं भवति – but for one’s own sake that he is loved.
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति।
न वै अरे देवानां कामाय देवाः प्रियाः भवन्ति – It is not for the sake of the gods, my dear, that they are loved, आत्मनः तु कामाय देवाः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति।
न वै अरे देवानां कामाय देवाः प्रियाः भवन्ति – It is not for the sake of the gods, my dear, that they are loved, आत्मनः तु कामाय देवाः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति।
न वै अरे वेदानां कामाय वेदाः प्रियाः भवन्ति – It is not for the sake of the Vedas, my dear, that they are loved, आत्मनः तु कामाय देवाः प्रियाः भवन्ति – but for one’s own sake that they are loved.
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति।
न वै अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति – It is not for the sake of beings, my dear, that they are loved, आत्मनः तु कामाय भूतानि प्रियाणि भवन्ति – but for one’s own sake that they are loved.
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति।
न वै अरे सर्वस्य कामाय सर्वं प्रियं भवति – It is not for the sake of all, my dear, that all is loved, आत्मनः तु कामाय सर्वं प्रियं भवति – but for one’s own sake that it is loved.
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि…
आत्मा वै अरे द्रष्टव्यः मैत्रेयि – The Self, my dear Maitreyī, should be realized (Draṣṭavya, should be known as obvious) —
श्रोतव्यः – should (first) be heard of (Śrotavya, from a teacher), मन्तव्यः – reflected on (Mantavya, till no doubts), निदिध्यासितव्यः – and meditated upon (Nididhyāsitavya, until assimilated first-person knowledge).
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्॥
आत्मनि खलु अरे दृष्टे श्रुते मते विज्ञाते – When the Self, my dear, is realized by being heard of, reflected on and meditated upon, इदं सर्वं विदितम् – all this is known.
♬
❚❚
BrhU.4.5.7
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽन्यत्रात्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद
ब्रह्म तं परा-दात् – The Brāhmaṇa ousts (slights) यः अन्यत्र आत्मनः ब्रह्म वेद – one who knows him as different from the Self. क्षत्त्रं तं परा-दात् – The Kṣatriya ousts one यः अन्यत्र आत्मनः क्षत्त्रं वेद who knows him as different from the Self. लोकाः तं परा-दुः – Worlds oust one यः अन्यत्र आत्मनः लोकान् वेद – who knows them as different from the Self.
देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद
देवाः तं परा-दुः – The gods oust one यः अन्यत्र आत्मनः देवान् वेद – who knows them as different from the Self). वेदाः तं परा-दुः – The Vedas oust one यः अन्यत्र आत्मनः वेदान् वेद – who knows them as different from the Self. भूतानि तं परा-दुः – Beings ousts one यः अन्यत्र आत्मनः भूतानि वेद who knows them as different from the Self. सर्वं तं परा-दात् – All ousts one यः अन्यत्र आत्मनः सर्वं वेद – who knows it as different from the Self.
इदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा॥
इदं ब्रह्म इदं क्षत्त्रम् – This Brāhmaṇa, this Kṣatriya, इमे लोकाः इमे देवाः – these worlds, these gods, इमे वेदाः इमानि भूतानि इदं सर्वम् – these Vedas, these beings and these all — यद् अयम् आत्मा – are this Self.
♬
❚❚
BrhU.4.5.8
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः॥
सः यथा दुन्दुभेः हन्यमानस्य – As it is, when a drum is beaten, न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय – one cannot distinguish the external (Bāhya, i.e. its various particular) notes, दुन्दुभेः तु ग्रहणेन – but on knowing the drum (itself) दुन्दुभि-आघातस्य वा – or its (kinds of) beating, शब्दः गृहीतः – the (general) sound (of a drum) becomes known.
BrhU.4.5.9
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः॥
सः यथा शङ्खस्य ध्मायमानस्य – As it is, when a conch is blown, न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय – one cannot distinguish the external (i.e. its various particular) notes, शङ्खस्य तु ग्रहणेन – but on knowing the conch (itself) शङ्ख-ध्मस्य वा – or its (kinds of) playing शब्दः गृहीतः – the the (general) sound (of a conch) becomes known.
BrhU.4.5.10
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः॥
सः यथा वीणायै वाद्यमानायै – As it is, when a Vīṇā is played, न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय – one cannot distinguish its various particulars notes, वीणायै तु ग्रहणेन – but on knowing the Vīṇā (itself) वीणा-वादस्य वा – or its (kinds of) playing शब्दः गृहीतः the (general) sound (of a Vīṇā) becomes known.
BrhU.4.5.11
स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस…
सः यथा आर्द्र-एध-अग्नेः अभ्याहितस्य – As from a fire kindled with wet fagot पृथक्-धूमा विनिश्चरन्ति – diverse kinds of smoke (sparks, etc.) issue, एवं वै अरे अस्य महतः भूतस्य निश्वसितम् एतद् – even so, my dear, (like) the breath of this infinite Reality, यद् ऋक्-वेदः यजुर्-वेदः साम-वेदः अथर्व-अङ्गिरसः – are the Ṛg-Veda, Yajur-Veda, Sāma-Veda, Atharvāṅgirasa,
इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसितानि॥
इति-हासः पुराणं विद्या – history, mythology, arts, उपनिषदः श्लोकाः सूत्राणि – Upaniṣads, pithy verses, aphorisms, अनुव्याख्यानानि व्याख्यानानि – elucidations and explanations, इष्टं हुतम् – sacrifices, oblations in the fire, आशितं पायितम् – food, drink, अयं च लोकः परः च लोकः – this world, the next world सर्वाणि च भूतानि – and all beings. अस्य एतानि सर्वाणि निश्वसितानि – They are all (like) the breath of this infinite Reality.
BrhU.4.5.12
स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनम्
सः यथा सर्वासाम् अपां समुद्रः एक-अयनम् – As the ocean is the one goal (where they merge or are unified) of all sorts of water, एवं सर्वेषां स्पर्शानां त्वक् एक-अयनम् – as the skin is the one goal of all kinds of touch, एवं सर्वेषां गन्धानां नासिके एक-अयनम् – as the nostrils are the one goal of all odors,
एवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनम्
एवं सर्वेषां रसानां जिह्वा एक-अयनम् as the tongue is the one goal of all savors, एवं सर्वेषां रूपाणां चक्षुस् एक-अयनम् – as the eye is the one goal of all colors, एवं सर्वेषां शब्दानां श्रोत्रम् एक-अयनम् – as the ear is the one goal of all sounds,
एवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणा हस्तावेकायनम्
एवं सर्वेषां सङ्कल्पानां मनस् एक-अयनम् – As the Manas is the one goal of all deliberations, एवं सर्वासां विद्यानां हृदयम् एक-अयनम् – as the intellect (Hṛdaya) is the one goal of all kinds of knowledge, एवं सर्वेषां कर्मणां हस्तौ एक-अयनम् – as the hands are the one goal of all sort of work,
एवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम्॥
एवं सर्वेषाम् आनन्दानाम् उपस्थः एक-अयनम् – as the organ of generation is the one goal of all kinds of enjoyment, एवं सर्वेषां विसर्गाणां पायुः एक-अयनम् – as the anus is the one goal of all excretions, एवं सर्वेषाम् अध्वनां पादौ एक-अयनम् – as the feet are the one goal of all kinds of walking, एवं सर्वेषां वेदानां वाक् एक-अयनम् – as the organ of speech is the one goal of all Vedas.
♬
❚❚
BrhU.4.5.13
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव…
सः यथा सैन्धव-घनः अन्-अन्तरः अ-बाह्यः – As a lump of salt is without interior or exterior, कृत्स्नः रस-घनः एव – entire, and purely saline in taste, एवं वै अरे अयम् आत्मा अन्-अन्तरः अ-बाह्यः – even so is the Self without interior or exterior, कृत्स्नः प्रज्ञान-घनः एव – entire, and Pure Intelligence alone.
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः॥
एतेभ्यः भूतेभ्यः समुत्थाय – (The self) comes out (as a separate entity) from these elements, तानि एव अनु विनश्यति – and (this separateness) is destroyed with them. न प्रेत्य सञ्ज्ञा अस्ति इति – After attaining (this oneness) it has no more (particular) consciousness. अरे ब्रवीमि इति ह – This is what I say, my dear. उवाच याज्ञ-वल्क्यः – So said Yājña-valkya.
♬
❚❚
BrhU.4.5.14
सा होवाच मैत्रेय्यत्रैव मा भगवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा॥
सा ह उवाच मैत्रेयी – Maitreyī said, अत्र एव मा भगवान् मोह-अन्तम् आपीपिपत् – ‘Just here you have led (Āpīpipat) me into the midst of confusion, sir, न वै अहम् इमं विजानामि इति – I do not at all comprehend this’.
स ह उवाच – He said, न वै अरे अहं मोहं ब्रवीमि – ‘Certainly I am not saying anything confusing. अ-विनाशी वै अरे अयम् आत्मा अन्-उच्छित्ति-धर्मा – This self is indeed immutable and indestructible (An-ud-chitti-dharma), my dear’.
♬
❚❚
BrhU.4.5.15
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति
यत्र हि द्वैतम् इव भवति – Because when there is duality, as it were, तद् इतरः इतरं पश्यति – then one sees something, तद् इतरः इतरं जिघ्रति – one smells something, तद् इतरः इतरं रसयते – one tastes something, तद् इतरः इतरम् अभिवदति – one speaks something, तद् इतरः इतरं शृणोति – one hears something, तद् इतरः इतरं मनुते – one thinks something, तद् इतरः इतरं स्पृशति – one touches something, तद् इतरः इतरं विजानाति – one knows something.
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्
यत्र तु अस्य सर्वम् आत्मा एव अभूत् – But when to him (the knower of Brahman) everything has become the Self, तद् केन कं पश्येत् – then what should one see and through what, तद् केन कं जिघ्रेत् – what should one smell and through what, तद् केन कं रसयेत् – what should one taste and through what, तद् केन कम् अभिवदेत् – what should one speak and through what, तद् केन कं शृणुयात् – what should one hear and through what?
तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्
तद् केन कं मन्वीत – what should one think and through what, तद् केन कं स्पृशेत् – what should one touch and through what, तद् केन कं विजानीयात् – what should one know and through what?
येन इदं सर्वं विजानाति तं केन विजानीयात् – Through what should one know (Vijānīyāt) that owing to which all this is known (Vijānāti)?
स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयाद्
सः एषः न इति न इति आत्मा – This self is That which has been described as ‘Not this,’ not this’. अ-गृह्यः न गृह्यते – It is imperceptible, for It is never perceived; अ-शीर्यः न हि शीर्यते – undecaying, for It never decays; अ-सङ्गः न हि सज्यते – unattached, for It is never attached; अ-सितः न व्यथते – unfettered – it never feels pain, न रिष्यति – and never suffers injury. विज्ञातारम् अरे केन विजानीयात् – Through what, O Maitreyī, should one know the Knower?
इत्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार॥
इति उक्त-अनुशासना असि मैत्रेयि – So you have got the instruction, Maitreyī. एतावत् अरे खलु अ-मृतत्वम् इति ह – This much indeed is (the means of) immortality, my dear. उक्त्वा याज्ञ-वल्क्यः विजहार – Saying this Yājña-valkya left.
BrhU.4.6
♬
❚❚
BrhU.4.6.1
अथ वंशः पौतिमाष्यो गौपवनाद्गौपवनः पौतिमाष्यात्पौतिमाष्यो गौपवनाद्गौपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः॥
अथ वंशः – Now the line of teachers:
पौति-माष्यः गौप-वनात् – Pauti-māṣya (received it) from Gaupa-vana.
गौप-वनः पौति-माष्यात् – Gaupa-vana from another Pauti-māṣya.
पौति-माष्यः गौप-वनात् – This Pauti-māṣya from another Gaupa-vana.
गौप-वनः कौशिकात् – This Gaupa-vana from Kauśika.
कौशिकः कौण्डिन्यात् – Kauśika from Kauṇḍinya.
कौण्डिन्यः शाण्डिल्यात् – Kauṇḍinya from Śāṇḍilya.
शाण्डिल्यः कौशिकात् च गौतमात् च – Śāṇḍilya from Kauśika and Gautama.
गौतमः – Gautama…
BrhU.4.6.2
आग्निवेश्यादाग्निवेश्यो गार्ग्याद्गार्ग्यो गार्ग्याद्गार्ग्यो गौतमाद्गौतमः सैतवात्सैतवः पाराशर्यायणात्पाराशर्यायणो गार्ग्यायणाद्गार्ग्यायण उद्दालकायनादुद्दालकायनो जाबालायनाज्जाबालायनो माध्यन्दिनायनान्माध्यन्दिनायनः सौकरायणात्सौकरायणः काषायणात्काषायणः सायकायनात्सायकायनः कौशिकायनेः कौशिकायनिः॥
…आग्नि-वेश्यात् – from Āgni-veśya.
आग्नि-वेश्यः गार्ग्यात् – Āgni-veśya from Gārgya.
गार्ग्यः गार्ग्यात् – Gārgya from another Gārgya.
गार्ग्यः गौतमात् – This Gārgya from another Gautama.
गौतमः सैतवात् – This Gautama from Saitava.
सैतवः पाराशर्यायणात् – Saitava from Pārāśaryāyaṇa.
पाराशर्यायणः गार्ग्यायणात् – Pārāśaryāyaṇa from Gārgyāyaṇa.
गार्ग्यायणः उद्दालकायनात् – Gārgyāyaṇa from Uddālakāyana.
उद्दालकायनः जाबालायनात् – Uddālakāyana from Jābālāyana.
जाबालायनः माध्यन्दिनायनात् – Jābālāyana from Mādhyandināyana.
माध्यन्दिनायनः सौकरायणात् – Mādhyandināyana from Saukarāyaṇa.
सौकरायणः काषायणात् – Saukarāyaṇa from Kāṣāyaṇa.
काषायणः सायकायनात् – Kāṣāyaṇa from Sāyakāyana.
सायकायनः कौशिकायनेः – Sāyakāyana from Kauśikāyani.
कौशिकायनिः – Kauśikāyani…
BrhU.4.6.3
घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्चयास्काच्चासुरायणस्त्रैवणेस् त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यःकुमारहारितात्कुमारहारितो गालवाद्
…घृत-कौशिकात् – from Ghṛta-kauśika.
घृत-कौशिकः पाराशर्यायणात् – Ghṛta-kauśika from Pārāśaryāyaṇa.
पाराशर्यायणः पाराशर्यात् – Pārāśaryāyaṇa from Pārāśarya.
पाराशर्यः जातू-कर्ण्यात् – Pārāśarya from Jātū-karṇya.
जातू-कर्ण्यः आसुरायणात् च यास्कात् च – Jātū-karṇya from Āsurāyaṇa and Yāska.
आसुरायणः त्रैवणेः – Āsurāyaṇa from Traivaṇi.
त्रैवणिः औपजन्धनेः – Traivaṇi from Aupajandhani.
औपजन्धनिः आसुरेः – Aupajandhani from Āsuri.
आसुरिः भारद्-वाजात् – Āsuri from Bhārad-vaja.
भारद्-वाजः आत्रेयात् – Bhārad-vaja from Ātreya.
आत्रेयः माण्टेः – Ātreya from Māṇṭi.
माण्टिः गौतमात् – Māṇṭi from Gautama.
गौतमः गौतमात् – Gautama from another Gautama.
गौतमः वात्स्यात् – This Gautama from Vātsya.
वात्स्यः शाण्डिल्यात् – Vātsya from Śāṇḍilya.
शाण्डिल्यः कैशोर्यात् काप्यात् – Śāṇḍilya from Kaiśorya Kāpya.
कैशोर्यः काप्यः कुमार-हारितात् – Kaiśorya Kāpya from Kumāra-hārita.
कुमार-हारितः गालवात् – Kumāra-hārita from Gālava.
गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणोर्दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः॥
गालवः विदर्भी-कौण्डिन्यात् – Gālava from Vidarbhī-kauṇḍinya.
विदर्भी-कौण्डिन्यः वत्सनपातः बाभ्रवात् – He from Vatsanapāt Bābhrava.
बाभ्रवः पथः सौभरात् – He from Pathin Saubhara.
पन्थाः सौभरः अयास्यात् आङ्गिरसात् – He from Ayāsya Āṅgirasa.
अयास्यः आङ्गिरसः आभूतेः त्वाष्ट्रात् – He from Ābhūti Tvāṣṭra.
आभूतिः त्वाष्ट्रः विश्व-रूपात् त्वाष्ट्रात् – He from Viśva-rūpa Tvāṣṭra.
विश्व-रूपः त्वाष्ट्रः अश्विभ्याम् – He from the two Asvins.
अश्विनौ दधीचः आथर्वणात् – The Asvins from Dadhyac Ātharvaṇa.
दध्यच् आथर्वणः अथर्वणोः दैवात् – He from Atharvan Daiva.
अथर्वा दैवः मृत्योः प्राध्वंसनात् – He from Mṛtyu Prādhvaṃsana.
मृत्युः प्राध्वंसनः प्रध्वंसनात् – He from Pradhvaṃsana.
प्रध्वंसनः एक-ऋषेः – Pradhvaṃsana from Ekarṣi.
एक-ऋषिः विप्र-चित्तेः – Ekarṣi from Vipra-citti.
विप्र-चित्तिः व्यष्टेः – Vipra-citti from Vyaṣṭi.
व्यष्टिः सनारोः – Vyaṣṭi from Sanāru.
सनारुः सना-तनात् – Sanāru from Sanā-tana.
सना-तनः सनगात् – Sanā-tana from Sanaga.
सनगः परमेष्ठिनः – Sanaga from Parameṣṭhin (Virāj).
परमेष्ठी ब्रह्मणः – Parameṣṭhin from Brahman (Hiraṇya-garbha).
ब्रह्म स्वयम्-भु – Brahman is self-born.
ब्रह्मणे नमः – Salutation to Brahman!
Bṛhad-Āraṇyaka पञ्चमोऽध्यायः (५.)
BrhU.5.1
♬
❚❚
BrhU.5.1.1
ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
● ओं पूर्णम् अदः – Om. That (Adas, as-yet-unknown Brahman or Lord) (said by the scripture to be) Fullness (Pūruṇa, Unconditioned Infinity), and पूर्णम् इदम् – This (Idam, known universe) is Fullness (nothing but the same Unconditioned Infinity, thought to be relatively infinite due to ignorance).
○ इदं पूर्णात् पूर्णम् उदच्यते – (According to the scripture:) This (conditioned) Fullness proceeds from That (Unconditioned) Fullness.
● पूर्णस्य पूर्णम् आदाय – (Therefore:) Negating (through knowledge) This (conditioned) Fullness from That (Unconditioned) Fullness,
पूर्णम् एव अवशिष्यते – ○ (the one, Absolute) Fullness alone remains.
ओं खं ब्रह्म। खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम्॥
ओं खं ब्रह्म – Om is the space-Brahman — खं पुराणम् – the eternal space. वायुरं खम् इति ह स्म आह कौर-व्यायणी-पुत्रः – ‘The space containing air (Vāyuram),’ says the son of Kaura-vyāyaṇī. वेदः अयम् – It is the Veda, ब्राह्मणाः विदुः – (so) the Brāhmaṇas (knowers of Brahman) know; वेद एनेन यद् वेदितव्यम् – (for) through it one knows (Veda) what is to be known (Veditavyam).
BrhU.5.2
♬
❚❚
BrhU.5.2.1
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति
त्रयाः प्राजा-पत्याः – Three classes of Prajā-pati’s sons प्रजा-पतौ पितरि ब्रह्म-चर्यम् ऊषुः – lived (Ūṣuḥ) a life of continence with their father, Prajā-pati (Virāj) — देवाः मनुष्याः असुराः – the gods, men and asuras.
उषित्वा ब्रह्म-चर्यं देवाः ऊचुः – The gods, on the completion of their term, said, ब्रवीतु नः भवान् इति – ‘Please instruct us’.
तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति॥
तेभ्यः ह एतद् अ-क्षरम् उवाच द् इति – He told them the syllable ‘Da’ (and asked), व्यज्ञासिष्ट इति – ‘Have you understood’?
व्यज्ञासिष्म इति ह ऊचुः – (They) said, ‘We have. दाम्यत इति नः आत्थ इति – You tell (Āttha) us: Control yourselves’.
इति ओम् इति ह उवाच – (He) said, ‘Yes, व्यज्ञासिष्ट इति – you have understood’.
♬
❚❚
BrhU.5.2.2
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति॥
अथ ह एनं मनुष्याः ऊचुः – Then the men said to him, ब्रवीतु नः भवान् इति – ‘Please instruct us’.
तेभ्यः ह एतद् अ-क्षरम् उवाच द् इति – He told them the syllable ‘Da’ (and asked), व्यज्ञासिष्ट इति – ‘Have you understood’?
व्यज्ञासिष्म इति ह ऊचुः – (They) said, ‘We have. दत्त इति नः आत्थ इति – You tell (Āttha) us: Give’.
इति ओम् इति ह उवाच – (He) said, ‘Yes, व्यज्ञासिष्ट इति – you have understood’.
♬
❚❚
BrhU.5.2.3
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति
अथ ह एनं असुराः ऊचुः – Then the asuras said to him, ब्रवीतु नः भवान् इति – ‘Please instruct us’.
तेभ्यः ह एतद् अ-क्षरम् उवाच द् इति – He told them the syllable ‘Da’ (and asked), व्यज्ञासिष्ट इति – ‘Have you understood’?
व्यज्ञासिष्म इति ह ऊचुः – (They) said, ‘We have. दयध्वम् इति नः आत्थ इति – You tell (Āttha) us: Have compassion’.
इति ओम् इति ह उवाच – (He) said, ‘Yes, व्यज्ञासिष्ट इति – you have understood’.
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति॥
तद् एतद् एव एषा दैवी वाच् अनुवदति – That very thing is repeated by the heavenly voice, स्तनयित्नुः – the thunder-cloud, द द द इति – as ‘Da.’ ‘Da,’ ‘Da’: दाम्यत दत्त दयध्वम् इति – ‘Control yourselves,’ ‘Give,’ and ‘Have compassion’.
तद् एतद् त्रयं शिक्षेत् – Therefore one should learn these three — दमं दानं दयाम् इति – self-control, charity and compassion.
BrhU.5.3
♬
❚❚
BrhU.5.3.1
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति
एषः प्रजा-पतिः – This is Prajā-pati — यद् हृदयम् – this heart (intellect)). एतद् ब्रह्म – It is Brahman, एतद् सर्वम् – it is everything. तद् एतद् त्रि-अक्षरं हृदयम् इति – ‘Hṛdaya’ (heart) has three syllables.
हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद॥
हृ इति एकम् अ-क्षरम् – ‘Hṛ’ is one syllable. अभिहरन्ति अस्मै स्वाः च अन्ये च यः एवं वेद – To him (Asmai) who knows (Veda) as above, his own people and others bring (Abhiharanti, presents).
द इति एकम् अ-क्षरम् – ‘Da’ is another syllable. ददति अस्मै स्वाः च अन्ये च यः एवं वेद – To him who knows as above, his own people and others give (Dadati, their powers).
यम् इति एकम् अ-क्षरम् – ‘Ya’ (I-a) is another syllable. एति स्वर्गं लोकं यः एवं वेद – He who knows as above goes (Eti) to heaven.
BrhU.5.4
♬
❚❚
BrhU.5.4.1
तद्वै तदेतदेव तदास सत्यमेव
तद् वै तद् – That (Hṛdyam Brahman, intellect-Brahman) indeed (recall, BrhU.5.4.1) एतद् एव तद् आस – [that] was but this (Etad) — सत्यम् एव – Satya (gross and subtle) alone.
स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इन्न्वसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म॥
सः यः ह एतं महत् यक्षं प्रथम-जं वेद – He who knows this great, adorable, first-born (being) सत्यं ब्रह्म इति – as the Satya-Brahman, जयति इमान् लोकान् – conquers these worlds, जितः इनु असौ अ-सत् – and his (enemy) is thus conquered and becomes non-existent — यः एवम् एतद् महत् यक्षं प्रथम-जं वेद – he who knows this great, adorable, first-born (being) thus, सत्यं ब्रह्म इति – as the Satya-Brahman, सत्यं हि एव ब्रह्म – for Satya is indeed Brahman.
BrhU.5.5
♬
❚❚
BrhU.5.5.1
आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरं सत्यमिति
आपः एव इदम् अग्रे आसुः – This (universe) was but water in the beginning. ताः आपः सत्यम् असृजन्त – That water produced Satya. सत्यं ब्रह्म – Satya is Brahman. ब्रह्म प्रजा-पतिम् – Brahman (produced) Prajā-pati, प्रजा-पतिः देवान् – and Prajā-pati the gods. ते देवाः सत्यम् एव उपासते – Those gods meditate upon Satya alone. तद् एतद् त्रि-अक्षरं सत्यम् इति – This (name) ‘Satya’ consists of three syllables:
स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं
सः इति एकम् अ-क्षरम् – ‘Sa’ is one syllable, ती इति एकम् अ-क्षरम् – ‘Tī’ (T-ī) is another syllable, यम् इति एकम् अ-क्षरम् – and ‘Ya’ is the third syllable.
प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं विद्वांसमनृतं हिनस्ति॥
प्रथम-उत्तमे अ-क्षरे सत्यम् – The first and last syllables are truth. मध्यतः अन्-ऋतम् – In the middle (T) is untruth (because of ‘T’ in both words: ‘Mṛtyu, death’, and ‘An-ṛta’). तद् एतद् अन्-ऋतम् उभयतः सत्येन परिगृहीतम् – This untruth is enclosed on either side by truth. सत्य-भूयम् एव भवति – (Hence) there is a preponderance of truth. न एवं विद्वांसम् अन्-ऋतं हिनस्ति – One who knows as above is never hurt by untruth.
♬
❚❚
BrhU.5.5.2
तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्
तद् यद् तद् सत्यम् – That which is Satya असौ सः आदित्यः – is that sun — यः एषः एतस्मिन् मण्डले पुरुषः – the being who is in that orb यः च अयं दक्षिणे अक्षन् पुरुषः – and the being who is in the right eye.
तौ एतौ अन्योऽन्यस्मिन् प्रतिष्ठितौ – These two rest on each other. रश्मिभिः एषः अस्मिन् प्रतिष्ठितः – The former rests on the latter through the rays, प्राणैः अयम् अमुष्मिन् – and the latter (rests) on the former (Amuṣmin) through the function of the eyes.
स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति॥
सः यदा उत्क्रमिष्यन् भवति – When a man is about to leave the body, शुद्धम् एव एतद् मण्डलं पश्यति – he sees the solar orb as clear. न एनम् एते रश्मयः प्रत्यायन्ति – The rays no more come to him.
♬
❚❚
BrhU.5.5.3
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे
यः एषः एतस्मिन् मण्डले पुरुषः तस्य – Of this being who is in the solar orb, भूः इति शिरः – the syllable ‘Bhūr’ is the head, एकं शिरः – for there is one head, एकम् एतद् अ-क्षरम् – and there is this one syllable;
भुवस् इति बाहू द्वौ – the word ‘Bhuvas’ is the arms, द्वौ बाहू – for there are two arms, द्वे एते अ-क्षरे – and there are these two syllables;
स्वर् इति प्रतिष्ठा द्वे प्रतिष्ठे – the word ‘Svar’ is the feet, द्वे एते अ-क्षरे – and there are these two syllables (Su-ar).
तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद॥
तस्य उपनिषद् अहर् इति – His secret name is ‘Ahar’. हन्ति पाप्मानं जहाति च यः एवं वेद – He who knows as above destroys and shuns (Jahāti) evil.
♬
❚❚
BrhU.5.5.4
योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे
यः अयं दक्षिणे अक्षन् पुरुषः तस्य – Of this being who is in the right eye, तस्य भूः इति शिरः – the syllable ‘Bhūr’ is the head, एकं शिरः – for there is one head, एकम् एतद् अ-क्षरम् – and there is this one syllable; भुवस् इति बाहू द्वौ – the word ‘Bhuvar’ is the arms, बाहू द्वे – for there are two arms, एते अ-क्षरे – and there are these two syllables; स्वर् इति प्रतिष्ठा – the word ‘Svar’ is the feet, द्वे प्रतिष्ठे – for there are two feet, द्वे एते अ-क्षरे – and there are these two syllables.
तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद॥
तस्य उपनिषद् अहम् इति – His secret name is ‘Aham’. हन्ति पाप्मानं जहाति च यः एवं वेद – He who knows as above destroys and shuns evil.
BrhU.5.6
♬
❚❚
BrhU.5.6.1
मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च॥
मनोमयः अयं पुरुषः – This being identified with the mind भास् सत्यः – and resplendent (Bhās) as its state (nature) तस्मिन् अन्तर्-हृदये – (is realized by the Yogins) within the heart यथा व्रीहिः वा यवः वा – like a grain of rice or barley.
सः एषः सर्वस्य ईशानः – He is the lord of all, सर्वस्य अधिपतिः – the ruler of all, सर्वम् इदं प्रशास्ति यद् इदं किं च – and governs whatever there is.
BrhU.5.7
♬
❚❚
BrhU.5.7.1
विद्युद्ब्रह्मेत्याहुर्विदानाद्विद्युद्विद्यत्येनं पाप्मनो
य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म॥
विद्युत् ब्रह्म इति आहुः – They say lightning is Brahman. विद्युत् विद्यति – It is called lightning विदानात् एनं पाप्मनः – because it scatters darkness ranged against him.
यः एवं वेद – He who knows it as such — विद्युत् ब्रह्म इति – that lightning is Brahman — विद्युत् हि एव ब्रह्म – (scatters evils that are ranged against him), for lightning is indeed Brahman.
BrhU.5.8
♬
❚❚
BrhU.5.8.1
वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्…
वाचं धेनुम् उपासीत – One should meditate upon speech (the Vedas) as a cow (as it were). तस्याः चत्वारः स्तनाः – She has four teats — स्वाहा-कारः वषट्-कारः हन्त-कारः स्वधा-कारः – the sounds ‘Svāhā,’ ‘Vaṣaṭ,’ ‘Hanta’ and ‘Svadhā’.
तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः॥
तस्यै द्वौ स्तनौ देवाः उपजीवन्ति – The gods live on two of her teats — स्वाहा-कारं च वषट्-कारं च – the sounds ‘Svāhā’ and ‘Vaṣaṭ’, हन्त-कारं मनुष्याः – men on the sound ‘Hanta’, स्वधा-कारं पितरः – and the Manes on the sound ‘Svadhā’. तस्याः प्राणः ऋषभः – Her bull is the vital force, मनस् वत्सः – and her calf the mind.
BrhU.5.9
♬
❚❚
BrhU.5.9.1
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति
स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति॥
अयम् अग्निः – This fire यः अयम् अन्तर् पुरुषे – that is within a man येन इदम् अन्नं पच्यते – and digests the food यद् इदम् अद्यते – that is eaten, वैश्वा-नरः – is Vaiśvā-nara. तस्य एषः घोषः भवति – It emits this sound यम् एतद् कर्णौ अपिधाय शृणोति – that one hears by stopping the ears thus.
सः यदा उत्क्रमिष्यन् भवति – When a man is about to leave the body, न एनं घोषं शृणोति – he no more hears this sound.
BrhU.5.10
♬
❚❚
BrhU.5.10.1
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहिते यथा रथचक्रस्य खं
तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा लम्बरस्य खं
यदा वै पुरुषः अस्मात् लोकात् प्रैति – When a man departs from this world, सः वायुम् आगच्छति – he reaches the air, तस्मै सः तत्र विजिहिते – which makes an opening there for him यथा रथ-चक्रस्य खम् – like the hole of a chariot-wheel.
तेन सः ऊर्ध्व आक्रमते – He goes upwards through that सः आदित्यम् आगच्छति – and reaches the sun, तस्मै सः तत्र विजिहीते – who makes an opening there for him यथा लम्बरस्य खम् – like the hole of a tabor (drum).
तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं
तेन स ऊर्ध्व आक्रमते स लोकमागच्छत्यशोकमहिमं
तस्मिन्वसति शाश्वतीः समाः॥
तेन सः ऊर्ध्वः आक्रमते – He goes upwards through that सः चन्द्रमसम् आगच्छति – and reaches the moon, तस्मै सः तत्र विजिहीते – who makes an opening there for him यथा दुन्दुभेः खम् – like the hole of a (kettle) drum.
तेन सः ऊर्ध्वः आक्रमते – He goes upwards through that सः लोकम् आगच्छति अ-शोकम् – and reaches a world free from grief अ-हिमम् – and from cold.
तस्मिन् वसति शाश्वतीः समाः – He lives there for eternal years.
BrhU.5.11
♬
❚❚
BrhU.5.11.1
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेद…
एतद् वै परमं तपस् – This indeed is excellent austerity यद् व्याहितः तप्यते – that a man suffers when he is ill. परमं ह एव लोकं जयति यः एवं वेद – He who knows as above wins an excellent world.
एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेद…
एतद् वै परमं तपस् – This indeed is excellent austerity यं प्रेतम् अरण्यं हरन्ति – that a man after death is carried to the forest. परमं ह एव लोकं जयति यः एवं वेद – He who knows as above wins an excellent world.
एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद॥
एतद् वै परमं तपस् – This indeed is excellent austerity यं प्रेतम् अग्नौ अभ्यादधति – that a man after death is placed in the fire. परमं ह एव लोकं जयति यः एवं वेद – He who knows as above wins an excellent world.
BrhU.5.12
♬
❚❚
BrhU.5.12.1
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः
अन्नं ब्रह्म इति एके आहुः – Some say that food is Brahman. तद् न तथा – It is not so, पूयति वै अन्नम् – for food rots ऋते प्राणात् – without the vital force. प्राणः ब्रह्म इति एके आहुः – Others say that the vital force is Brahman. तद् न तथा – It is not so, शुष्यति वै प्राणः – for the vital force dries up ऋते अन्नात् – without food.
एते ह तु एव देवते एकधा-भूयं भूत्वा – But these two deities being united परमतां गच्छतः – attain their highest.
तद्ध स्माह प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति
तद् ह स्म आह प्रातृदः पितरम् – So Prātṛda said to his father, किंस्विद् एव एवं विदुषे साधु कुर्याम् – ‘What good indeed can I do to one who knows like this, किम् एव अस्मै अ-साधु कुर्याम् इति – and what evil indeed can I do to him either’?
स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति
सः ह स्म आह पाणिना – The father, with a gesture of the hand, said, मा प्रातृद – ‘Oh, no, Prātṛda, कः तु एनयोः एकधा-भूयं भूत्वा परमतां गच्छति इति – for who would attain his highest by being identified (Ekadhā-bhūya) with them’?
तस्मा उ हैतदुवाच वीत्यन्नं वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते
तस्मै उ ह एतद् उवाच – Then he said to him this: वि इति – It is “Vi”. अन्नं वै वि – Food is “Vi”, अन्ने हि इमानि सर्वाणि भूतानि विष्टानि – for all these creatures rest on food. रम् इति – It is “Ram”. प्राणः वै रम् – The vital force is “Ram”, प्राणे हि इमानि सर्वाणि भूतानि रमन्ते – for all these creatures delight if there is the vital force’.
सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद॥
सर्वाणि ह वै अस्मिन् भूतानि विशन्ति यः एवं वेद – On him (Asmin) who knows as above all creatures rest, सर्वाणि भूतानि रमन्ते – and (in him) all creatures delight.
BrhU.5.13
♬
❚❚
BrhU.5.13.1
उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद॥
उक्थम् – (One should meditate upon the vital force as) the Uktha (a hymn of praise).
प्राणः वै उक्थम् – The vital force is the Uktha, प्राणः हि इदं सर्वम् उत्थापयति – for it raises this universe (Sarva). उत् ह अस्मात् उक्थ-विद् वीरः तिष्ठति यः एवं वेद – From him (Asmāt) who knows as above rises (Ut-tiṣṭhati) a son (Vīra) who is a knower of the vital force (Uktha-vid), उक्थस्य सा-युज्यं स-लोकतां जयति – and he achieves union with (Sā-yujya) and abode in the same world (Sa-lokatā) as the Uktha.
♬
❚❚
BrhU.5.13.2
यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद॥
यजुस् – (One should meditate upon the vital force as) the Yajus.
प्राणः वै यजुस् – The vital force is the Yajus, प्राणे हि इमानि सर्वाणि भूतानि युज्यन्ते – for all these beings are joined with one another if there is the vital force. युज्यन्ते ह अस्मै सर्वाणि भूतानि श्रैष्ठ्याय यः एवं वेद – All beings are joined (Yujyante) for the eminence of him who knows as above, यजुषः सा-युज्यं स-लोकतां जयति – and he achieves union with and abode in the same world as the Yajus (vital force).
♬
❚❚
BrhU.5.13.3
साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद॥
साम – (One should meditate upon the vital force as) the Sāman.
प्राणः वै साम – The vital force is the Sāman, प्राणे हि इमानि सर्वाणि भूतानि सम्यञ्चि – for all these beings are united if there is the vital force. सम्यञ्चि ह अस्मै सर्वाणि भूतानि यः एवं वेद – For him who knows as above all beings are united, श्रैष्ठ्याय कल्पन्ते – and they succeed in bringing about his eminence, साम्नः सा-युज्यं स-लोकतां जयति – and he achieves union with and abode in the same world as the Sāman.
♬
❚❚
BrhU.5.13.4
क्षत्त्रं प्राणो वै क्षत्त्रं प्राणो हि वै क्षत्त्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्त्रमत्रमाप्नोति क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद॥
क्षत्त्रम् – (One should meditate upon the vital force as) the Kṣatra (or Kṣattra, SG.2.64).
प्राणः वै क्षत्त्रम् – The vital force is the Kṣatra, प्राणः हि वै क्षत्त्रम् – for it is indeed the Kṣatra. त्रायते ह एनं प्राणः क्षणितोः – The vital force protects the body from wounds (Kṣaṇitu, fr. √Kṣan). प्र क्षत्त्र-मत्रम् आप्नोति यः एवं वेद – He who knows as above attains (Pra-āpnoti) this Kṣatra (vital force) that has no other protector (Kṣatra-matra or Kṣatra-mātra), क्षत्त्रस्य सा-युज्यं स-लोकतां जयति – and achieves union with and abode in the same world as the Kṣatra.
BrhU.5.14
♬
❚❚
BrhU.5.14.1
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्
भूमिः अन्तर्-इक्षं द्यौस् इति – ‘Bhūmi’ (the earth), ‘Antar-ikṣa’ (sky) and ‘Dyaus’ (heaven) अष्टौ अ-क्षराणि – make eight syllables, अष्ट-अक्षरं ह वै एकं गायत्र्यै पदम् – and the first foot of the Gāyatrī (Tat savitur vareṇvam, bhargo devasya dhīmahi, dhiyo yo naḥ pracodayāt – ‘We meditate on the adorable glory of the radiant sun. May he direct our intellect!’ RgV.3.62.10, in Gāyatrī meter which has three feet, of eight syllables each) has eight syllables. एतद् उ ह एव अस्याः एतद् – So the above three worlds constitute the first foot of the Gāyatrī.
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद॥
सः यावत् एषु त्रिषु लोकेषु तावत् ह जयति यः अस्याः एतद् एवं पदं वेद – He who knows the first foot of the Gāyatrī to be such wins as much as there is in those three worlds.
♬
❚❚
BrhU.5.14.2
ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद॥
ऋचः यजूंषि सामानि इति – ‘Ṛcaḥ,’ ‘Yajūṃṣi’ and ‘Sāmāni’ अष्टौ अ-क्षराणि – make eight syllables, अष्ट-अक्षरं ह वै एकं गायत्र्यै पदम् – and the (second) foot of the Gāyatrī has eight syllables.
सः यः अस्याः एतद् एवं पदं वेद – He who knows the (second) foot of the Gāyatrī to be such एतद् उ ह एव अस्याः एतद् यावती इयं त्रयी विद्या तावत् ह जयति – wins as much as that treasury of knowledge, the three Vedas, has to confer.
♬
❚❚
BrhU.5.14.3
प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद…
प्राणः अपानः व्यानः इति – ‘Prāṇa,’ ‘Apāna’ and ‘Vyāna’ (this word must be split so as to make three syllables, ‘Vi-ā-na’) अष्टौ अ-क्षराणि – has eight syllables, अष्ट-अक्षरं ह वै एकं गायत्र्यै पदम् – and the (third) foot of the Gāyatrī has eight syllables. एतद् उ ह एव अस्याः एतद् – So the above three forms of vital force constitute the (third) foot of the Gāyatrī.
सः यः अस्याः एतद् एवं पदं वेद – He who knows the (third) foot of the Gāyatrī to be such यावत् इदं प्राणि तावत् ह जयति – wins all the living beings that are in the universe.
…अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एषतपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति…
अथ अस्याः तुरीयं दर्शतं पदं परो-रजाः – Now its Turīya, (apparently) visible, supramundane (Paras-rajas) foot एतद् एव यः एषः तपति – is indeed this – (the sun) that shines. यद् वै चतुर्थं तद् तुरीयम् – ‘Turīya’ means the fourth. दर्शतं पदम् इति ददृशे इव हि – ‘Apparently visible foot,’ because he is seen, as it were. एषः परो-रजाः इति सर्वम् उ हि एव एषः रजस् उपरि उपरि तपति – ‘Supramundane,’ because he shines (Tapati) over and above the whole universe (as its overlord, its eye).
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद॥
यः अस्याः एतद् एवं पदं वेद – He who knows the fourth foot of the Gāyatrī to be such एवं ह एव श्रिया यशसा तपति – shines in the same way with splendor and fame.
♬
❚❚
BrhU.5.14.4
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं
सा एषा गायत्री – That Gāyatrī एतस्मिन् तुरीये दर्शते पदे परो-रजसि प्रतिष्ठिता – rests on this fourth, apparently visible, supramundane foot. तद् वै तद् सत्ये प्रतिष्ठितम् – That again rests on truth. चक्षुस् वै सत्यम् – The eye is truth, चक्षुस् हि वै सत्यम् – for the eye is indeed truth.
तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं
तस्मात् यद् इदानीं द्वौ विवदमानौ एयाताम् – Therefore if even today two persons come disputing, अहम् अदर्शम् – one saying, ‘I saw it’, अहम् अश्रौषम् इति – and another, ‘I heard of it’, यः एवं ब्रूयात् अहम् अदर्शम् इति तस्मै एव श्रद्दध्याम – we believe him only who says, ‘I saw it’. तद् वै तद् सत्यं बले प्रतिष्ठितम् – That truth rests on strength (Bala). प्राणः वै बलम् – The vital force is strength. तद् प्राणे प्रतिष्ठितम् – (Hence) truth rests on the vital force.
तस्मादाहुर्बलं सत्यादोगीय इत्येवम्वेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम
तस्मात् आहुः बलं सत्यात् ओगीयः इति – Therefore they say strength is more powerful than truth. एवम् उ एषा गायत्री अध्यात्मं प्रतिष्ठिता – Thus the Gāyatrī rests (on the vital force) within the body. सा ह एषा गयान् तत्रे – That Gāyatrī saved the Gayas. प्राणाः वै गयाः – The organs are the Gayas; तद् प्राणान् तत्रे – so it saved the organs. तद् यद् गयान् तत्र – Now, because it saved the organs, तस्मात् गायत्री नाम – therefore it is called the Gāyatrī.
स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते॥
सः याम् एव अमूं सावित्रीम् अन्वाह – The Savitrī that he (the teacher) communicates (to the pupil) एषा एव सा – is no other than this. सः यस्मै अन्वाह तस्य प्राणान् त्रायते – It saves the organs of him to whom it is communicated.
♬
❚❚
BrhU.5.14.5
तां हैतामेके सावित्रीमनुष्ठुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूम इति न तथा कुर्याद्
तां ह एताम् एके सावित्रीम् अनुष्ठुभम् अन्वाहुः – Some communicate (to the pupil) the Savitrī that is Anuṣṭubh (saying), वाच् अनुष्टुभ् – ‘Speech is Anuṣṭubh; एतद् वाचम् अनुब्रूमः इति – we shall impart that to him’. न तथा कुर्यात् – One should not do like that.
गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकञ्चन पदं प्रति॥
गायत्रीम् एव सावित्रीम् अनुब्रूयात् – One should communicate that Savitrī which is the Gāyatrī. यदि ह वै अपि एवं-विद् बहु इव प्रतिगृह्णाति – Even if a man who knows as above accepts too much as gift, as it were, न ह एव तद् गायत्र्याः एकञ्चन पदं प्रति – it is not (enough) for even one foot of the Gāyatrī.
♬
❚❚
BrhU.5.14.6
स य इमांस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयाद्…
सः यः इमान् त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात् – He who accepts these three worlds replete (Pūrṇān, with wealth), सः अस्याः एतद् प्रथमं पदम् आप्नुयात् – will be receiving (the results of knowing) only the first foot of the Gāyatrī.
…अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयाद्…
अथ यावती इयं त्रयी विद्या यः तावत् प्रतिगृह्णीयात् – He who accepts as much as this treasury of knowledge, the Vedas, (has to confer), सः अस्याः एतद् द्वितीयं पदम् आप्नुयात् – will receive (the results of knowing) only its second foot.
…अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयाद्…
अथ यावत् इदं प्राणि यः तावत् प्रतिगृह्णीयात् – And he who accepts as much as (is covered by) all living beings, सः अस्याः एतद् तृतीयं पदम् आप्नुयात् – will receive (the results of knowing) only its third foot.
…अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात्॥
अथ अस्याः एतद् एव तुरीयं दर्शतं पदं परो-रजाः यः एषः तपति – While its fourth, apparently visible, supramundane foot – the (sun) that shines — न एव केनचन आप्यं – is not to be counterbalanced by any gift received. कुतः उ एतावत् प्रतिगृह्णीयात् – Indeed how could any one accept so much as gift?
♬
❚❚
BrhU.5.14.7
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे। नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति
तस्याः उपस्थानम् – Its salutation:
गायत्रि असि एक-पदी – ‘O Gāyatrī, thou art one-footed, द्वि-पदी त्रि-पदी चतुष्-पदी – two-footed, three-footed and four-footed, अ-पद् असि – and thou art without any feet, न हि पद्यसे – for thou art unattainable.
नमस् ते – Salutation to thee, तुरीयाय दर्शताय पदाय परो-रजसे – the fourth, apparently visible, supramundane foot! असौ अदः मा प्रापत् इति – May he (the enemy) never attain that (Adas, his object)’!
यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा॥
यं द्विष्यात् – (Should the knower of the Gāyatrī) bear hatred towards anybody, असौ अस्मै कामः मा समृद्धि इति वा – (he should) either (use this Mantra): ‘Such and such – may his desired object never flourish’! — न ह एव अस्मै सः कामः समृध्यते यस्यै एवम् उपतिष्ठते – in which case that object of the person against whom he thus salutes (Upatiṣṭhate) the Gāyatrī, never flourishes (Samṛdhyate) अहम् अदः प्रापम् इति वा – ‘May I attain that (cherished object) of his’!
♬
❚❚
BrhU.5.14.8
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति
मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच
एतद् ह वै तद् जनकः वैदेहः – On this Janaka, Emperor of Videha, बुडिलम् आश्वतराश्विम् उवाच – is said to have told Buḍila, the son of Aśvatarāśva, यद् नु हो तद् गायत्री-विद् अब्रूथाः – ‘Well, you gave yourself out as a knower of the Gāyatrī; अथ कथं हस्ती-भूतः वहसि इति – then why, alas, are you carrying (me) as an elephant’?
मुखं हि अस्याः सम्राज् न विदाञ्-चकार इति ह उवाच – He replied, ‘Because I did not know its mouth, O Emperor’.
तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति॥
तस्याः अग्निः एव मुखम् – (The Emperor said) ‘Fire is its mouth. यदि ह वै अपि बहु इव अग्नौ अभ्यादधति – Even if they put a large quantity of fuel into the fire, सर्वम् एव तद् सन्दहति – it is all burnt up. एवं ह एव एवं-विद् यदि अपि – Similarly, even if one who knows as above बहु इव पापं कुरुते – commits a great many sins, सर्वम् एव तद् सम्प्साय – he consumes (Sam √Psā) them all शुद्धः पूतः अ-जरः अ-मृतः सम्भवति – and becomes pure, cleansed, undecaying and immortal’.
BrhU.5.15
♬
❚❚
BrhU.5.15.1
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥
● हिरण्मयेन पात्रेण – With a golden vessel
○ सत्यस्य अपिहितं मुखम् – the face (nature) of Satya (Brahman) is hidden (as it were).
● तत्त्वं पूषन् अपावृणु – O Pūṣan (nourisher of the world – the sun), remove it, so that this truth
○ सत्य-धर्माय दृष्टये – I, whose reality is Satya, may see.
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजः।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि॥
● पूषन् एक-ऋषे – O Pūṣan, O solitary Ṛṣi (seer or traveller), यम – O Yama (controller), सूर्य प्राजा-पत्य – O Sūrya (sun), O son of Prajā-pati (God or Hiraṇya-garbha),
○ व्यूह रश्मीन् – take away thy rays, समूह तेजस् – curb thy brightness.
● यद् ते रूपं कल्याण-तमं तद् ते पश्यामि – I wish to behold that most benignant form of thine.
○ यः असौ असौ पुरुषः – Who is this very Puruṣa — सः अहम् अस्मि – that I am.
वायुरनिलममृतमथेदं भस्मान्तं शरीरम्।
ओम् क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर॥
● वायुः अन्-इलम् अ-मृतम् – I am immortal (A-mṛta). (When my body falls,) may my vital force (return) to the (relative immortal) air (An-ila),
○ इदं भस्म-अन्तं शरीरम् – and this body too, reduced to ashes, (go to the earth)!
● ओं क्रतो स्मर – (O Fire,) who art the syllable ‘Om,’ O Deity of deliberations, recollect, कृतं स्मर – recollect all that I have done.
○ क्रतो स्मर, कृतं स्मर – O Deity of deliberations, recollect, recollect all that I have done.
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम॥
● अग्ने – O Agṅi (Fire, the witness of our lives), नय सुपथा राये अस्मान् – lead us along the good way towards our riches (deserts).
○ विश्वानि देव वयुनानि विद्वान् – O Lord, thou knowest, everybody’s mental states;
● युयोधि अस्मद् जुहुराणम् एनस् – remove the wily evil from us.
○ भूयिष्ठां ते नम-उक्तिं विधेम – We utter repeated salutations to thee.
Bṛhad-Āraṇyaka षष्ठोऽध्यायः (६.)
BrhU.6.1
♬
❚❚
BrhU.6.1.1
ओं यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य एवं वेद॥
ओं यः ह वै ज्येष्ठं च श्रेष्ठं च वेद – Om. He who knows that which is the oldest and greatest, ज्येष्ठः च श्रेष्ठः च स्वानां भवति – becomes the oldest and greatest among his relatives. प्राणः वै ज्येष्ठः च श्रेष्ठः च – The vital force is indeed the oldest and greatest. यः एवं वेद – He who knows it to be such ज्येष्ठः च श्रेष्ठः च स्वानां भवति – becomes the oldest and greatest among his relatives अपि च येषां बुभूषति – as well as among those of whom he wants to be such.
♬
❚❚
BrhU.6.1.2
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद॥
यः ह वै वसिष्ठां वेद – He who knows the Vasiṣṭha (that which best helps to dwell or cover) वसिष्ठः स्वानां भवति – becomes the Vasiṣṭha among his relatives. वाच् वै वसिष्ठा – The organ of speech is indeed the Vasiṣṭha. यः एवं वेद – He who knows it as such वसिष्ठः स्वानां भवति – becomes the Vasiṣṭha among his relatives अपि च येषां बुभूषति – as well as among those of whom he wants to be such.
♬
❚❚
BrhU.6.1.3
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद॥
यः ह वै प्रतिष्ठां वेद – He who knows Pratiṣṭhā (that which has steadiness) प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे – lives steadily in difficult (Durga) as well as smooth (Sama) places and times. चक्षुस् वै प्रतिष्ठा – The eye indeed is Pratiṣṭhā, चक्षुषा हि – for through the eye समे च दुर्गे च प्रतितिष्ठति – one lives steadily in difficult as well as smooth places and times. यः एवं वेद – He who knows it as such प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे – lives steadily in difficult as well as smooth places and times.
♬
❚❚
BrhU.6.1.4
यो ह वै सम्पदं वेद स हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः सं हास्मै पद्यते यं कामं कामयते य एवं वेद॥
यः ह वै सम्पदं वेद – He who knows Sampad (prosperity) सꣳ ह अस्मै पद्यते यं कामं कामयते – attains (Sam-padyate) whatever object he desires. श्रोत्रं वै सम्पत् – The ear indeed is Sampad, श्रोत्रे हि इमे सर्वे वेदाः अभिसम्पन्नाः – for all these Vedas are acquired when one has the ear (intact). यः एवं वेद – He who knows it to be such सꣳ ह अस्मै पद्यते यं कामं कामयते – attains whatever object he desires.
♬
❚❚
BrhU.6.1.5
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानां मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद॥
यः ह वै आयतनं वेद – He who knows the abode आयतनं स्वानां भवति – becomes the abode of his relatives आयतनं जनानाम् – as well as of (other people). मनस् वै आयतनम् – The Manas indeed is the abode. यः एवं वेद – He who knows it to be such आयतनं स्वानां भवति – becomes the abode of his relatives आयतनं जनानाम् – as well as of (other) people.
♬
❚❚
BrhU.6.1.6
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद॥
यः ह वै प्रजातिं वेद – He who knows Prajāti (that which has the attribute of generation) प्रजायते ह प्रजया पशुभिः – is enriched with children and animals. रेतस् वै प्रजातिः – The seed (organ) has this attribute. प्रजायते ह प्रजया पशुभिः यः एवं वेद – He who knows it to be such is enriched with children and animals.
♬
❚❚
BrhU.6.1.7
ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति॥
ते ह इमे प्राणाः अहं-श्रेयसे विवदमानाः – These organs, disputing over their respective greatness, ब्रह्म जग्मुः तद् ह ऊचुः – went to Brahman and said to him, कः नः वसिष्ठः इति – ‘Which of us is the Vasiṣṭha’?
तद् ह उवाच – He said, सः वः वसिष्ठः – ‘That one of you will be the Vasiṣṭha यस्मिन् वः उत्क्रान्ते – who departing from among yourselves, इदं शरीरं पापीयः मन्यते इति – people consider this body far more wretched’.
♬
❚❚
BrhU.6.1.8
वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति
वाच् ह उच्चक्राम – The organ of speech went out. सा संवत्सरं प्रोष्य – After staying a whole year out आगत्य उवाच – it came back and said, कथम् अशकत मद् ऋते जीवितुम् इति – ‘How did you manage to live without me’?
ते होचुर्यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह वाक्॥
ते ह ऊचुः – They said, यथा अ-कलाः – ‘We lived (Ajīviṣma) just as dumb people do, अ-वदन्तः वाचा – without speaking through the organ of speech, प्राणन्तः प्राणेन – but living through the vital force, पश्यन्तः चक्षुषा – seeing through the eye, शृण्वन्तः श्रोत्रेण – hearing through the ear, विद्वांसः मनसा – knowing through the mind प्रजायमानाः रेतसा एवम् अजीविष्म इति – and having children through the organ of generation’.
♬
❚❚
BrhU.6.1.9
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति
चक्षुः ह उच्चक्राम – The eye went out. तद् संवत्सरं प्रोष्य – After staying a whole year out आगत्य उवाच – it came back and said, कथम् अशकत मद् ऋते जीवितुम् इति – ‘How did you manage to live without me’?
ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह चक्षुः॥
ते ह ऊचुः – They said, यथा अन्धाः – ‘We lived (Ajīviṣma) just as blind people do, अ-पश्यन्तः चक्षुषा – without seeing through the eye, प्राणन्तः प्राणेन – but living through the vital force, वदन्तः वाचा – speaking through the organ of speech, शृण्वन्तः श्रोत्रेण – hearing through the ear, विद्वांसः मनसा – knowing through the mind प्रजायमानाः रेतसा एवम् अजीविष्म इति – and having children through the organ of generation’. प्रविवेश ह चक्षुः – So the eye entered.
BrhU.6.1.10
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति
श्रोत्रं ह उच्चक्राम – The ear went out. तद् संवत्सरं प्रोष्य – After staying a whole year out आगत्य उवाच – it came back and said, कथम् अशकत मद् ऋते जीवितुम् इति – ‘How did you manage to live without me’?
ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणान्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह श्रोत्रम्॥
ते ह ऊचुः – They said, यथा बधिराः – ‘We lived (Ajīviṣma) just as deaf people do, अ-शृण्वन्तः श्रोत्रेण – without hearing through the ear, प्राणान्तः प्राणेन – but living through the vital force, वदन्तः वाचा – speaking through the organ of speech, पश्यन्तः चक्षुषा – seeing through the eye, विद्वांसः मनसा – knowing through the mind प्रजायमानाः रेतसा एवम् अजीविष्म इति – and having children through the organ of generation’. प्रविवेश ह श्रोत्रम् – So the ear entered,
BrhU.6.1.11
मनो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति
मनस् ह उच्चक्राम – The mind went out. तद् संवत्सरं प्रोष्य – After staying a whole year out आगत्य उवाच – it came back and said, कथम् अशकत मद् ऋते जीवितुम् इति – ‘How did you manage to live without me’?
ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह मनः॥
ते ह ऊचुः – They said, यथा मुग्धाः – ‘We lived just as idiots do अ-विद्वांसः मनसा – without knowing through the mind, प्राणन्तः प्राणेन – but living (Ajīviṣma) through the vital force, वदन्तः वाचा – speaking through the organ of speech, पश्यन्तः चक्षुषा – seeing through the eye, शृण्वन्तः श्रोत्रेण – hearing through the ear प्रजायमानाः रेतसा एवम् अजीविष्म इति – and having children through the organ of generation’. प्रविवेश ह मनः – So the mind entered.
BrhU.6.1.12
रेतो होच्चक्राम तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति
रेतस् ह उच्चक्राम – The organ of generation went out. तद् संवत्सरं प्रोष्य – After staying a whole year out आगत्य उवाच – it came back and said, कथम् अशकत मद् ऋते जीवितुम् इति – ‘How did you manage to live without me’?
ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति प्रविवेश ह रेतः॥
ते ह ऊचुः – They said, यथा क्लीबाः – ‘We lived just as eunuchs do, अ-प्रजायमानाः रेतसा – without having children through the organ of generation, प्राणन्तः प्राणेन – but living (Ajīviṣma) through the vital force, वदन्तः वाचा – speaking through the organ of speech, पश्यन्तः चक्षुषा – seeing through the eye, शृण्वन्तः श्रोत्रेण – hearing through the ear विद्वांसः मनसा एवम् अजीविष्म इति – and knowing through the mind’. प्रविवेश ह रेतः – So the organ of generation entered.
♬
❚❚
BrhU.6.1.13
अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेदेवं हैवेमान्प्राणान्संववर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति॥
अथ ह प्राणः उत्क्रमिष्यन् – Then as the vital force was about to go out, इमान् प्राणान् संववर्ह – it uprooted those organs यथा महा-सुहयः सैन्धवः – just as a great, fine horse from Sindh पड्वीश-शङ्कून् संवृहेत् एवं ह एव – pulls out the pegs to which his feet are tied. ते ह ऊचुः – They said, मा भगवः उत्क्रमीः – ‘Please do not go out, sir, न वै शक्ष्यामः त्वद् ऋते जीवितुम् इति – we cannot live without you’.
♬
❚❚
BrhU.6.1.14
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं
सा ह वाच् उवाच – The organ of speech said, यद् वै अहं वसिष्ठा अस्मि – ‘That attribute of the Vasiṣṭha which I have त्वं तद्-वसिष्ठः असि इति – is yours’.
यद् वै अहं प्रतिष्ठा अस्मि – The eye (Cakṣus): ‘That attribute of steadiness which I have त्वं तद्-प्रतिष्ठः असि इति चक्षुः – is yours’.
यद् वै अहं सम्पत् अस्मि त्वं तद्-सम्पत् असि इति श्रोत्रम् – The ear: ‘That attribute of prosperity which I have is yours’.
यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्
यद् वै अहम् आयतनम् अस्मि त्वं तद्-आयतनम् असि इति मनस् – The mind: ‘That attribute of abode which I have is yours’.
यद् वै अहं प्रजातिः अस्मि त्वं तद्-प्रजातिष् असि इति रेतस् – The organ of generation: ‘That attribute of generation which I have is yours’.
तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति
तस्य उ मे किम् अन्नं किं वासः इति – (The vital force said:) ‘Then what will be my food and my dress’?
यद् इदं किञ्च – (The organs said:) ‘Whatever आ श्वभ्यः आ कृमिभ्यः आ कीट-पतङ्गेभ्यः तद् ते अन्नम् – is (known as) food, including (for) dogs, worms, insects and moths, is your food, आपः वासः इति – and water your dress’.
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद
यः एवम् एतद् अनस्य अन्नं वेद – He who knows the food (Anna) of the vital force (Ana) to be such, न ह वै अस्य अन्-अन्नं जग्धं भवति – never happens to eat anything that is not food, न अन्-अन्नं प्रतिगृहीतम् – or to accepts anything that is not food.
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते॥
तद् विद्वांसः श्रोत्रियाः – Therefore wise men who are versed in the Vedas अशिष्यन्तः आचामन्ति – sip a little water just before (eating) अशित्वा आचामन्ति – and after eating. एतम् एव तद् अनम् अ-नग्नं कुर्वन्तः मन्यन्ते – They regard it as removing the nakedness of the vital force (Ana).
BrhU.6.2
♬
❚❚
BrhU.6.2.1
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं प्रवाहणं परिचारयमाणं
श्वेत-केतुः ह वै आरुणेयः – Śveta-ketu, the grandson of Aruṇa, पञ्चालानां परिषदम् आजगाम – came to the assembly of the Pañcālas. सः आजगाम जैवलिं प्रवाहणम् – He approached Pravāhaṇa, the son of Jīvala, परिचारयमाण – who was being waited on (by his servants).
तमुदीक्ष्याभ्युवाद कुमारा३ इति
स भो३ इति प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच॥
तम् उदीक्ष्य अभ्युवाद – Seeing him the King addressed him, कुमारा इति – ‘Boy’!
सः भो इति प्रतिशुश्राव – He replied, ‘Yes sir’,
अनुशिष्टः अनु असि पित्रा इति – ‘Have you been taught by your father’?
ओम् इति ह उवाच – He said, ‘Yes’.
♬
❚❚
BrhU.6.2.2
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति नेति होवाच
वेत्थ यथा इमाः प्रजाः – ‘Do you know how these people प्रयत्यः विप्रतिपद्यन्ते इति – diverge after death’?
न इति ह उवाच – ‘No,’ said he.
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति नेति हैवोवाच
वेत्थ उ यथा इमं लोकं पुनर् आपद्यन्ते इति – ‘Do you know how they return to this world’?
न इति ह एव उवाच – ‘No,’ said he.
वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच
वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच
वेत्थ उ यथा असौ लोकः – ‘Do you know how the other world एवं बहुभिः पुनः पुनः प्रयद्भिः न सम्पूर्यते इति – is never filled by so many people dying thus again and again’?
न इति ह एव उवाच – ‘No,’ said he.
वेत्थ उ यतिथ्याम् आहुत्यां हुतायाम् – ‘Do you know after how many (Yatibhyām) oblations are offered (Hutāyām) आपः पुरुष-वाचः भूत्वा समुत्थाय– water (the liquid offerings) rises up possessed of a human voice (or under the name of man) वदन्ति इति – and speaks’?
न इति ह एव उवाच – ‘No,’ said he.
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा
वेत्थ उ देव-यानस्य वा पथः – ‘Do you know the means of access to the way of the gods, प्रतिपदं पितृ-याणस्य वा – or that to the way of the Manes — यद् कृत्वा – doing which देव-यानं वा पन्थानं प्रतिपद्यन्ते – people attain either the way of the gods पितृ-याणं वा – or the way of the Manes?
अपि हि न ऋषेर्वचः श्रुतम्।
अपि हि न ऋषेः वचः श्रुतम् – We have heard the words of the Mantra:
द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानाम्।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति॥
नाहमत एकञ्चन वेदेति होवाच॥
● द्वे सृती अशृणवम् – “I have heard of two routes पितृणाम् – leading to the Manes.
○ अहं देवानाम् उत – and to the gods, मर्त्यानाम् – for men.
● ताभ्याम् इदं विश्वम् एजत् समेति – Going along them all this is united.
○ यद् अन्तरा पितरं मातरं च इति – They lie between the father and the mother (earth and heaven)”.
न अहम् अतः एकञ्चन वेद इति ह उवाच – He said, ‘I know not one of them’.
♬
❚❚
BrhU.6.2.3
अथैनं वसत्योपमन्त्रयाञ्चक्रेऽनादृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच इति
अथ एनं वसत्या उपमन्त्रयाञ्-चक्रे – Then the King invited him to stay. अन्-आदृत्य वसतिं कुमारः – The boy, disregarding the invitation to stay, प्रदुद्राव – hurried away. सः आजगाम पितरम् – He came to his father तं ह उवाच इति – and said to him, वाव किल नः भवान् पुरा अनुशिष्टान् अवोचः इति – ‘Well, did you not tell me before that you had (fully) instructed me’?
कथं सुमेध इति पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकञ्चन वेदेति कतमे त इतीम इति ह प्रतीकान्युदाजहार॥
कथं सु-मेधः इति – ‘How (did you get hurt), my sagacious child’?
पञ्च मा प्रश्नान् राजन्य-बन्धुः अप्राक्षीत् – ‘That wretch of a Kṣatriya asked (Prākṣīt) me five questions, ततः न एकञ्चन वेद इति – and I knew not one of them’.
कतमे ते इति – ‘Which are they’?
इमे इति ह – ‘These’, प्रतीकानि उदाजहार – and he quoted their first words.
♬
❚❚
BrhU.6.2.4
स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति
सः ह उवाच – The father said, तथा नः त्वं तात जानीथाः यथा यद् अहं किञ्च वेद सर्वम् अहं तद् तुभ्यम् अवोचं – ‘My child, believe (Jānīthāḥ) me, whatever I knew (Veda) I told (Avocam) you every bit of it. प्रेहि तु तत्र प्रतीत्य – But come, let us go there ब्रह्म-चर्यं वत्स्यावः इति – and live as students’.
भवानेव गच्छत्विति स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास
भवान् एव गच्छतु इति – ‘You go alone, please’.
सः आजगाम गौतमः – At this Gautama came यत्र प्रवाहणस्य जैवलेः आस – to where King Pravāhaṇa, the son of Jīvala, was giving audience.
तस्मा आसनमाहृत्योदकमाहारयाञ्चकाराथ हास्मा अर्घ्यं चकार तं होवाच वरं भगवते गौतमाय दद्म इति॥
तस्मै आसनम् आहृत्य – The King gave him a seat, उदकम् आहारयाञ्-चकार – had water brought for him, अथ ह अस्मै अर्घ्यं चकार – and made him the reverential offering. तं ह उवाच – Then he said, वरं भगवते गौतमाय दद्मः इति – ‘We will give revered Gautama, a boon’.
♬
❚❚
BrhU.6.2.5
स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति॥
सः ह उवाच – Aruni said, प्रतिज्ञातः मे एषः वरः – ‘You have promised me this boon. यां तु कुमारस्य अन्ते वाचम् अभाषथाः तां मे ब्रूहि इति – Please tell me what you spoke (Abhāṣathāḥ) to my boy about’.
♬
❚❚
BrhU.6.2.6
स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति॥
सः ह उवाच – The King said, दैवेषु वै गौतम तद् वरेषु – ‘This comes under heavenly boons, Gautama. मानुषाणां ब्रूहि इति – Please ask some human boon’.
♬
❚❚
BrhU.6.2.7
स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिदानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति
सः ह उवाच – Āruṇi said, विज्ञायते ह अस्ति हिरण्यस्य अपात्तम् – ‘You know that I already have gold, गो-अश्वानाम् – cattle and horses, दासीनां प्रवाराणां परिदानस्य – maid-servants, retinue, and dress. मा नः भवान् अभि अ-वदान्यः भूत् इति – Be not ungenerous (A-vadānya) towards me alone बहोः अन्-अन्तस्य अ-पर्यन्तस्य – regarding this plentiful, infinite and inexhaustible (wealth)’.
स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपायनकीर्त्योवास॥
सः वै गौतम तीर्थेन इच्छासै इति – ‘Then you must seek it according to form (Tīrtha), Gautama’.
उपैमि अहं भवन्तम् इति – ‘I approach you (as a student)’. वाचा ह स्म एव पूर्वे उपयन्ति – The ancients used to approach a teacher simply through declaration. सः ह उपायन-कीर्त्या उवास – Āruṇi lived as a student by merely that he was at his service.
♬
❚❚
BrhU.6.2.8
स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति॥
सः ह उवाच – The King said: तथा नः त्वं गौतम मा अपराधाः – Please do not take offence with us, Gautama, तव च पिता-महाः यथा – as your paternal grandfathers did not (with ours). इयं विद्या इतः पूर्वम् – Before this, this learning न कस्मिंश्चन ब्राह्मणे उवास – never rested with a Brāhmaṇa. तां तु अहं तुभ्यं वक्ष्यामि – But I shall teach it to you; कः हि त्वा एवं ब्रुवन्तम् अर्हति प्रत्याख्यातुम् इति – for who can refuse you when you speak like this?
♬
❚❚
BrhU.6.2.9
असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्…
असौ वै लोकः अग्निः गौतम – That world (heaven), O Gautama, is fire, तस्य आदित्य एव समिध् – the sun is its fuel, रश्मयः धूमः – the rays its smoke, अहर् अर्चिः – the day its flame, दिशः अङ्गाराः – the four quarters its cinder, अवान्तर-दिशः विस्फुल्-इङ्गाः – and the intermediate quarters its sparks.
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति॥
तस्मिन् एतस्मिन् अग्नौ देवाः श्रद्धां जुह्वति – In this fire the gods offer faith (liquid oblations in subtle form). तस्याः आहुत्यै सोमः राजा सम्भवति – Out of that offering King Moon is born (a body is made in the moon for the sacrificer).
♬
❚❚
BrhU.6.2.10
पर्जन्यो वा अग्निर्गौतम तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्…
पर्जन्यः वै अग्निः गौतम – Parjanya (the god of rain), O Gautama, is fire, तस्य संवत्सरः एव समिध् – the year is its fuel, अभ्राणि धूमः – the clouds its smoke, विद्युत् अर्चिः – lightning its flame, अशनिः अङ्गाराः – thunder its cinder, ह्रादुनयः विस्फुल्-इङ्गाः – and the rumblings its sparks.
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति॥
तस्मिन् एतस्मिन् अग्नौ देवाः सोमं राजानं जुह्वति – In this fire the gods offer King Moon. तस्याः आहुत्यै वृष्टिः सम्भवति – Out of that offering rain is produced.
♬
❚❚
BrhU.6.2.11
अयं वै लोकोऽग्निर्गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्…
अयं वै लोकः अग्निः गौतम – This world, O Gautama, is fire, तस्य पृथिवी एव समिध् – the earth is its fuel, अग्निः धूमः – fire its smoke, रात्रिः अचिः – the night its flame, चन्द्रमाः अङ्गाराः – the moon its cinder, नक्षत्राणि विस्फुल्-इङ्गाः – and stars its sparks.
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवति॥
तस्मिन् एतस्मिन् अग्नौ देवाः वृष्टिं जुह्वति – In this fire the gods offer rain. तस्याः आहुत्याः अन्नं सम्भवति – Out of that offering food is produced.
♬
❚❚
BrhU.6.2.12
पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्…
पुरुषः वै अग्निः गौतम – Man, O Gautama, is fire, तस्य व्यात्तम् एव समिध् – the open mouth is its fuel, प्राणः धूमः – the vital force its smoke, वाच् अर्चिः – speech its flame, चक्षुः अङ्गाराः – the eye its cinder, श्रोत्रं विस्फुल्-इङ्गाः – and the ear its sparks.
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति॥
तस्मिन् एतस्मिन् अग्नौ देवाः अन्नं जुह्वति – In this fire the gods offer food. तस्याः आहुत्यै रेतस् सम्भवति – Out of that offering the seed is produced.
♬
❚❚
BrhU.6.2.13
योषा वा अग्निर्गौतम तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्…
योषा वै अग्निः गौतम – Woman, O Gautama, is fire. तस्याः उपस्थः एव समिध् – Her organ of generation is its fuel. लोमानि धूमः – The tiny hairs its smoke. योनिः अचिः – The vagina its flame. यद् अन्तः करोति ते अङ्गाराः – The act done inside its embers, अभिनन्दाः विस्फुल्-इङ्गाः – and the pleasure derived from it its sparks.
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते॥
तस्मिन् एतस्मिन् अग्नौ देवाः रेतस् जुह्वति – In this fire the gods offer the seed. तस्याः आहुत्यै पुरुषः सम्भवति – Out of that offering a man is born. सः जीवति यावत् जीवति – He lives as long as he is destined to live. अथ यदा म्रियते – Then, when he dies –
♬
❚❚
BrhU.6.2.14
अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गास्…
अथ एनम् अग्नये हरन्ति – They carry him to be offered in the fire. तस्य अग्निः एव अग्निः भवति – The fire becomes his fire, समिध् समिध् – the fuel his fuel, धूमः धूमः – the smoke his smoke, अर्चिः अर्चिः – the flame his flame, अङ्गाराः अङ्गाराः – the cinder his cinder, विस्फुल्-इङ्गाः विस्फुल्-इङ्गाः – and the sparks his sparks.
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति॥
तस्मिन् एतस्मिन् अग्नौ देवाः पुरुषं जुह्वति – In this fire the gods offer the man. तस्याः आहुत्यै पुरुषः भास्वर-वर्णः सम्भवति – Out of that offering the man emerges radiant.
♬
❚❚
BrhU.6.2.15
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षम्
ते ये एवम् एतद् विदुः – Those who know this as such, ये च अमी अरण्ये श्रद्धां सत्यम् उपासते – and those others who meditate with faith upon the Satya-Brahman in the forest, ते अर्चिः अभिसम्भवन्ति – reach the deity identified with the flame, अर्चिषः अहर् – from him the deity of the day, अह्नः आपूर्यमाण-पक्षम् – from him the deity of the fortnight in which the moon waxes,
आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं
आपूर्यमाण-पक्षात् यान् षड्-मासान् उदच् आदित्यः एति – from him the deities of the six months in which the sun travels northward, मासेभ्यः देव-लोकम् – from them the deity identified with the world of the gods, देवलोकात् आदित्यम् – from him the sun, आदित्यात् वैद्युतम् – and from the sun the deity of lightning.
तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः॥
तान् वैद्युतान् पुरुषः मानसः एत्य – (Then) a being created from the mind (of Hiraṇya-garbha) comes ब्रह्म-लोकान् गमयति – and conducts them to the worlds of Hiraṇya-garbha. ते तेषु ब्रह्म-लोकेषु पराः परावतः वसन्ति – Then attain perfection (Parāḥ) and live in those worlds of Hiraṇya-garbha for a great many superfine (Parāvataḥ, years). तेषां न पुनर् आवृत्तिः – They no more return to this world.
♬
❚❚
BrhU.6.2.16
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षम्
अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति – While those who conquer the worlds through sacrifices, charity and austerity, ते धूमम् अभिसम्भवन्ति – reach the deity of smoke, धूमात् रात्रिम् – from him the deity of the night, रात्रेः अपक्षीयमाण-पक्षम् – from him the deity of the fortnight in which the moon wanes,
अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तान्
अपक्षीयमाण-पक्षात् यान् षड्-मासान् दक्षिण-आदित्यः एति – from him the deities of the six months in which the sun travels southward, मासेभ्यः पितृ-लोकम् – from them the deity of the world of the Manes, पितृ-लोकात् चन्द्रम् – and from him the moon. ते चन्द्रं प्राप्य अन्नं भवन्ति तान् – Reaching the moon they become food.
तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति
तत्र देवाः यथा सोमं राजानम् ‘आप्यायस्व अपक्षीयस्व’ इति एवम् एनान् तत्र भक्षयन्ति – There the gods enjoy (Bhaksayanti) them as (the priests drink) the shining Soma juice (gradually, saying, as it were) ‘Flourish, dwindle’.
तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति
तेषां यदा तद् पर्यवैति – And when their past work is exhausted, अथ इमम् एव आकाशम् अभिनिष्पद्यन्ते – they reach (become like) this space, आकाशात् वायुम् – from the space air, वायोः वृष्टिम् – from air rain, वृष्टेः पृथिवीम् – and from rain the earth. ते पृथिवीं प्राप्य अन्नं भवन्ति – Reaching the earth they become food.
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते लोकान्प्रत्युत्थायिनस्…
ते पुनः पुरुष-अग्नौ हूयन्ते – Then they are again offered in the fire of man, ततः योषा-अग्नौ – thence in the fire of woman, जायन्ते लोकान् प्रत्युत्थायिनः – whence they are born (and perform rites) with a view to going to other worlds.
त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्॥
ते एवम् एव अनुपरिवर्तन्ते – Thus do they rotate. अथ ये एतौ पन्थानौ न विदुः – While those others who do not know these two ways ते कीटाः पतङ्गाः – become insects and moths, यद् इदं दन्दशूकम् – and these frequently biting things (gnats and mosquitoes).
BrhU.6.3
♬
❚❚
BrhU.6.3.1
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे
सः यः कामयेत महत् प्राप्नुयाम् इति – He who wishes (that I am) to attain greatness उदच्-अयने आपूर्यमाण-पक्षस्य पुण्य-अहे – (should perform) on an auspicious day in a fortnight in which the moon waxes, during the northward march of the sun, (a sacrifice in the following manner):
द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य
द्वा-दश-अहम् उपसद्-व्रती भूत्वा – He should undertake for twelve days a vow connected with the Upasads (i.e. live on milk), औदुम्बरे कंसे चमसे वा सर्व-ओषधं फलानि इति सम्भृत्य – collect in a cup or bowl made of fig wood (Audumbara) all herbs and their grains,
परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति।
परिसमुह्य परिलिप्य – sweep and plaster (the ground), अग्निम् उपसमाधाय – build up the fire, परिस्तीर्य – spread (the Kuśa grass), आवृता आज्यं संस्कृत्य – purify in the prescribed manner the ghee पुंसा नक्षत्रेण – under a male constallation, मन्थं सन्नीय – interpose (between himself and the fire) the Mantha (paste of those herbs, etc.), जुहोति – and offer oblations with the following Mantras:
यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान्।
तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा॥
● यावन्तः देवाः त्वयि जात-वेदः – ‘O Fire (Jāta-vedas, having knowledge of beings), to all those gods under you,
○ तिर्यञ्चः घ्नन्ति – who spitefully frustrate पुरुषस्य कामान् – men’s desires,
● तेभ्यः अहं भाग-धेयं जुहोमि ते – I offer their share. (May) they,
○ मा तृप्ताः सर्वैः कामैः तर्पयन्तु – being satisfied, satisfy me with all objects of desire! स्वाहा – Svāhā (Su-āhā, ‘Blessings!’).
या तिरश्ची निपद्यतेऽहं विधरणी इति।
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा॥
● या तिरश्ची निपद्यते – She who remains spiteful.
○ अहं विधरणी इति – thinking “(She) I support (all)”.
● तां त्वा घृतस्य धारया – To Her, (dependent upon) You, with this stream of ghee.
○ यजे संराधनीम् अहम् – I offer to this all-accomplishing goddess! स्वाहा – Svāhā.
♬
❚❚
BrhU.6.3.2
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा इति अग्नौ हुत्वा – Offering oblations in the fire saying, ‘Svāhā to the oldest, Svāhā to the greatest’, मन्थे संस्रवमम् अवनयति – he drips (Avanayati) the remnant adhering to the ladle into the paste (Manthe).
प्राणाय स्वाहा वसिष्ठायै स्वाहा इति अग्नौ हुत्वा – Offering oblations in the fire saying, ‘Svāhā to the vital force, Svāhā to the Vasiṣṭha’, मन्थे संस्रवम् अवनयति – he drips the remnant, etc.
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
वाचे स्वाहा प्रतिष्ठायै स्वाहा इति अग्नौ हुत्वा – Offering oblations saying, ‘Svāhā to the organ of speech, Svāhā to that which has steadiness’, मन्थे संस्रवम् अवनयति – he drips the remnant, etc..
चक्षुषे स्वाहा सम्पदे स्वाहा इति अग्नौ हुत्वा – Offering oblations saying, ‘Svāhā to the eye, ‘Svāhā to prosperity’, मन्थे संस्रवम् अवनयति – he drips the remnant, etc.
श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति रेतसे स्वाहेत्यग्नौ हुत्वा संस्रवमवनयति॥
श्रोत्राय स्वाहा आयतनाय स्वाहा इति अग्नौ हुत्वा – Offering oblations saying, ‘Svāhā to the ear, Svāhā to the abode’, मन्थे संस्रवम् अवनयति – he drips the remnant, etc..
मनसे स्वाहा प्रजात्यै स्वाहा इति अग्नौ हुत्वा – Offering oblations saying, ‘Svāhā to the Manas, Svāhā to Prajāti,’, मन्थे संस्रवम् अवनयति – he drips the remnant, etc..
रेतसे स्वाहा इति अग्नौ हुत्वा – Offering oblations saying, ‘Svāhā to the organ of generation,’, संस्रवम् अवनयति – he drips, etc.
BrhU.6.3.3
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहा इति अहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
अग्नये स्वाहा इति अग्नौ हुत्वा – Offering an oblation in the fire saying, ‘Svāhā to fire’, मन्थे संस्रवम् अवनयति – he drips the remnant adhering to the ladle into the paste.
सोमाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the moon,’ he drips, etc.
भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
भूः स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the earth,’ he drips, etc..
भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the sky,’ he drips, etc.
स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, Svāhā to heaven,’ he drips etc.
भूर्भुवःस्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्त्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
भूर्भुवःस्वः स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the earth, sky and heaven,’ he drips, etc.
ब्रह्मणे स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the Brāhmaṇa,’ he drips, etc.
क्षत्त्राय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the Kṣatriya,’ he drips, etc.
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति
भूताय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the past,’ he drips, etc.
भविष्यते स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the future,’ he drips,’ etc.
विश्वाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to the whole,’ he drips, etc.
सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति॥
सर्वाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to all,’ he drips, etc.
प्रजापतये स्वाहा इति अयग्नौ हुत्वा मन्थे संस्रवम् अवनयति – Offering an oblation saying, ‘Svāhā to Prajā-pati,’ he drips etc.
♬
❚❚
BrhU.6.3.4
अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि
अथ एनम् अभिमृशति – Then he touches the paste (saying), भ्रमत् असि ज्वलत् असि – ‘You move (as the vital force), you burn (as fire), पूर्णम् असि प्रस्तब्धम् असि – you are infinite (as Brahman), you are still (as the sky). एक-सभम् असि – You combine everything in yourself.
हिङ्कृतमसि हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमसि…
हिङ्-कृतम् असि हिङ्-क्रियमाणम् असि – You are the sound ‘Hiṃ,’ and are uttered as ‘Hiṃ’ (in the sacrifice by the Prastotṛ). उद्गीथम् असि उद्गीयमानम् असि – You are the Udgītha and are chanted (by the Udgātṛ). श्रावितम् असि प्रत्याश्रावितम् असि – You are recited (by the Adhvaryu) and recited back (by the Agni-idhra).
आर्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति॥
आर्द्रे सन्दीप्तम् असि – You are fully ablaze in a humid (cloud). विभूः असि प्रभूः असि – You are omnipresent, and master. अन्नम् असि ज्योतिर् असि – You are food (as the moon), and light (as fire). निधनम् असि संवर्गः असि इति – You are death, and you are that in which all things merge’.
♬
❚❚
BrhU.6.3.5
अथैनमुद्यच्छत्यामंस्यामंहि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति॥
अथ एनम् उद्यच्छति – Then he takes it up (saying), आ-मंसि – ‘You know all (as the vital force); आ-मंहि ते महि – we too are aware of your greatness. सः हि राजा ईशानः अधिपतिः – The vital force is the king, the lord, the ruler. सः मां राजा ईशानः अधिपतिं करोतु इति – May it make me king, lord and ruler’!
♬
❚❚
BrhU.6.3.6
अथैनमाचामति।
तत्सवितुर्वरेण्यम्।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः॥ भूः स्वाहा।
अथ एनम् आचामति – Then he drinks it saying,
● तद् सवितुः वरेण्यम् – ‘The radiant sun is adorable;
○ मधु वाताः ऋतायते – The winds are blowing sweetly, मधु क्षरन्ति सिन्धवः – the rivers are shedding honey,
○ माध्वीः नः सन्तु ओषधीः – may the herbs be sweet unto us! भूर् स्वाहा – Svāhā to the earth.
भर्गो देवस्य धीमहि।
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः।
मधु द्यौरस्तु नः पिता॥ भुवः स्वाहा।
धियो यो नः प्रचोदयात्॥
● भर्गः देवस्य धीमहि – Glory we meditate upon;
○ मधु नक्तम् उत उषसः – May the nights and days be charming, मधुमत् पार्थिवं रजस् – and the dust of the earth be sweet,
○ मधु द्यौः अस्तु नः पिता – may heaven, our father, be gracious! भुवस् स्वाहा – Svāhā to the sky.
● धियः यः नः प्रचोदयात् – May he direct our intellect;
मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः।
माध्वीर्गावो भवन्तु नः॥ स्वः स्वाहेति।
○ मधुमान् नः वनस्-पतिः – May the Soma creeper (Vanas-pati, ‘lord of plants’) be sweet unto us, मधुमां अस्तु सूर्यः – may the sun be kind,
○ माध्वीः गावः भवन्तु नः – may the quarters (Gos, cf. BrhU.6.2.9) be helpful to us! स्वर् स्वाहा इति – Svāhā to heaven’.
सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति
सर्वां च सावित्रीम् अन्वाह – Then he repeats the whole Gāyatrī सर्वाः च मधुमतीः – and the whole Madhu-matī (Hymn to sweet things), अहम् एव इदं सर्वं भूयासम् – and says at the end (Antatas), ‘May I be all this! भूर् भुवस् स्वर् स्वाहा इति अन्ततः – Svāhā to the earth, sky and heaven’. आचम्य – Then he drinks (the whole remnant), पाणी प्रक्षाल्य – washes his hands, जघनेन अग्निं प्राच्-शिराः संविशति – and lies behind (Jaghanena) the fire with his head to the east (Prāc).
प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति॥
प्रातर् आदित्यम् उपतिष्ठते – In the morning he salutes the sun (saying), दिशाम् एक-पुण्डरीकम् असि – ‘Thou art the one lotus of the quarters; अहं मनुष्याणाम् एक-पुण्डरीकं भूयासम् इति – may I be the one lotus of men’! यथा इतम् एत्य – Then he returns the way he went, जघनेन अग्निम् आसीनः – sits behind the fire, वंशं जपति – and repeats the line of teachers.
♬
❚❚
BrhU.6.3.7
तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
तं ह एतम् उद्दालकः आरुणिः – Uddālaka, the son of Aruṇa, वाज-सनेयाय याज्ञ-वल्क्याय अन्ते-वासिने उक्त्वा – taught this to his pupil Yājña-valkya, the Vāja-saneya, उवाच अपि – and said, यः एनं शुष्के स्थाणौ निषिञ्चेत् – ‘Should one sprinkle it even on a dry stump, जायेरन् शाखाः – branches would grow प्ररोहेयुः पलाशानि इति – and leaves sprout’.
BrhU.6.3.8
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतम् उ ह एव वाज-सनेयः याज्ञ-वल्क्यः – Then Yājña-valkya, the Vājasaneya, मधुकाय पैङ्ग्याय अन्ते-वासिने उक्त्वा – taught this to his pupil Madhuka, the son of Paiṅgī, उवाच अपि – and said, यः एनं शुष्के स्थाणौ निषिञ्चेत् – ‘Should one sprinkle it even on a dry stump, जायेरन् शाखाः – branches would grow प्ररोहेयुः पलाशानि इति – and leaves sprout’.
BrhU.6.3.9
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतम् उ ह एव मधुकः पैङ्ग्यः – Madhuka, the son of Paiṅgī, चूलाय भागवित्तये अन्ते-वासिने उक्त्वा – again taught this to his pupil Cūla, the son of Bhagavitta, उवाच अपि – and said, यः एनं शुष्के स्थाणौ निषिञ्चेत् – ‘Should one sprinkle it even on a dry stump, जायेरन् शाखाः – branches would grow प्ररोहेयुः पलाशानि इति – and leaves sprout’.
BrhU.6.3.10
एतमु हैव चूलो भागवित्तिर्जानकाय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतम् उ ह एव चूलः भागवित्तिः – Then Cūla, the son of Bhagavitta, जानकाय आयस्थूणाय अन्ते-वासिने उक्त्वा – taught this to his pupil Jānaki, the son of Ayasthūṇa, उवाच अपि – and said, यः एनं शुष्के स्थाणौ निषिञ्चेत् – ‘Should one sprinkle it even on a dry stump, जायेरन् शाखाः – branches would grow प्ररोहेयुः पलाशानि इति – and leaves sprout’.
BrhU.6.3.11
एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति॥
एतम् उ ह एव जानकिः आयस्थूणः – Jānaki, the son of Ayasthūṇa, सत्य-कामाय जाबालाय अन्ते-वासिने उक्त्वा – again taught this to Satya-kāma, the son of Jabalā, उवाच अपि – and said, यः एनं शुष्के स्थाणौ निषिञ्चेत् – ‘Should one sprinkle it even on a dry stump, जायेरन् शाखाः – branches would grow प्ररोहेयुः पलाशानि इति – and leaves sprout’.
BrhU.6.3.12
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वान्तेवासिने वा ब्रूयात्॥
एतम् उ ह एव सत्य-कामः जाबालः – And Satya-kāma, the son of Jabalā, अन्ते-वासिभ्यः उक्त्वा – in his turn, taught this to his pupils उवाच अपि – and said, यः एनं शुष्के स्थाणौ निषिञ्चेत् – ‘Should one sprinkle it even on a dry stump, जायेरन् शाखाः – branches would grow प्ररोहेयुः पलाशानि इति – and leaves sprout’. तम् एतं न अ-पुत्राय वा अन्ते-वासिने वा ब्रूयात् – One must not teach this to anyone but a son or a pupil.
♬
❚❚
BrhU.6.3.13
चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ
चतुर् औदुम्बरः भवति – Four things are made of fig wood: उदुम्बरः स्रुवः – the ladle, औदुम्बरः चमसः – the bowl, औदुम्बरः इध्मः – the fuel औदुम्बर्यौ र्या उपमन्थन्यौ – and the two mixing rods.
दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति॥
दश ग्राम्याणि धान्यानि भवन्ति – The cultivated grains are ten in number: व्रीहि-यवाः – Rice, barley, तिल-माषाः – sesamum, beans, अणु-प्रियङ्गवः – Anu, Priyaṅgu, गोधूमाः च मसूराः च – wheat, lentils, खल्वाः च खलकुलाः च – pulse and vetches. तान् पिष्टान् – They should be crushed दधनि मधुनि घृते उपसिञ्चति – and soaked in curds, honey and clarified butter, आज्यस्य जुहोति – and offered as an oblation.
BrhU.6.4
♬
❚❚
BrhU.6.4.1
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः॥
एषां वै भूतानां पृथिवी रसः – The earth is the essence of all these beings, पृथिव्याः आपः – water the essence of the earth, अपाम् ओषधयः – herbs of water, ओषधीनां पुष्पाणि – flowers of herb,पुष्पाणां फलानि – fruits of flowers, फलानां पुरुषः – man of fruits, पुरुषस्य रेतस् – and the seed of man.
♬
❚❚
BrhU.6.4.2
स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाध उपास्त तस्मात्स्त्रियमध उपासीत
सः ह प्रजा-पतिः ईक्षाञ्-चक्रे – Prajā-pati thought, हन्त अस्मै प्रतिष्ठां कल्पयानि इति – ‘Well, let me create a container for it’. सः स्त्रियं ससृजे – Creating her, तां सृष्ट्वा अधस् उपास्त – he served her lower part. तस्मात् स्त्रियम् अधस् उपासीत – Therefore one should serve the lower part of woman.
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजत्॥
सः एतं प्राञ्चं ग्रावाणम् आत्मने एव समुदपारयत् – He stretched forward (Prāñcam samudapārayat) his organ of generation which in hardness resembled a grinding stone (Grāvāṇa) and urged it towards (the vaginal passage of woman) तेन एनाम् अभ्यसृजत् – and thus copulated with (poured out to) her.
♬
❚❚
BrhU.6.4.3
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ मुष्कौ
तस्याः वेदिः उपस्थः – The organ of generation of the woman is the sacrificial altar; लोमानि बर्हिः – the tiny hairs of it are the kuśa grass; चर्म अधिषवणे समिद्धः मध्यतः तौ मुष्कौ – the middle part (of the vagina) is blazing fire (Samiddhaḥ) and the two thick part of flesh (Carman) (on both sides, the two labia of the vagina) are called ‘Muṣka‘ which are the well-known ‘Adhiṣavaṇa’ (a contrivance of leather to extract and strain the Soma juice).
स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते॥
सः यावान् ह वै वाज-पेयेन यजमानस्य लोकः भवति तावान् अस्य लोकः भवति – The worlds which a sacrificer of the Vāja-peya wins are attained through this. यः एवं विद्वान् अधस्-अपहासं चरति – He who knowing thus performs the act of procreation, आसां स्त्रीणां सु-कृतं वृङ्क्ते – wins the effects of the good deeds of the woman, अथ यः इदम् अ-विद्वान् – and of that man who does not know thus, अधस्-अपहासं चरति – but does the act of procreation, आ अस्य स्त्रियः सु-कृतं वृञ्जते – (his) good deeds (effects) are won (Ā-vṛñjate) by the woman.
♬
❚❚
BrhU.6.4.4
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान्कुमारहारित आह
एतद् ह स्म वै तद् विद्वान् उद्दालकः आरुणिः – Uddālaka the son of Aruṇa, who verily knows this act of procreation (as equal to the Vāja-peya sacrifice), एतद् ह स्म वै तद् विद्वान् नाकः मौद्गल्यः – Nāka, the son of Mudgala, who verily knows it thus, एतद् ह स्म वै तद् विद्वान् कुमार-हारितः – and Kumāra-hārita, the sage who knows it in the manner aforesaid, आह – say,
बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति
बहवः मर्याः – ‘Many who are death-bound, ब्राह्मण-अयनाः – who are Brāhmaṇas for name’s sake, निर्-इन्द्रियाः – whose senses are disjoined, वि-सुकृतः – who are devoid of (the effects of) the past good deeds, अस्मात् लोकात् प्रयन्ति ये इदम् अ-विद्वांसः अधस्-अपहासं चरन्ति इति – and who, even without the knowledge of procreation, indulge (Caranti) in it with intense desire, fall (Prayanti) from the other world’.
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति॥
बहु वा इदं सुप्तस्य वा जाग्रतः वा रेतस् स्कन्दति – Even if, (while waiting for the wife to become fit for the act of procreation), the practician drops (Skandati) the seed, more or little (Bahu vā), during sleep or waking state…
♬
❚❚
BrhU.6.4.5
तदभिमृशेदनु वा मन्त्रयेत।
तद् अभिमृशेत् – He should touch the (seed with the hand) अनु वा मन्त्रयेत – and recite the prayer:
यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः।
● यद् मे अद्य रेतस् पृथिवीम् अस्कान्त्सीत् – ‘My seed which has fallen today on the earth यद् ओषधीः अपि असरत् यद् अपः – and which had fallen before even on herbs and water,
इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः।
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम्।
● इदम् इहं तद् रेतस् आददे – I take this my seed’. पुनर् माम् ऐतु – (While applying he should say) ‘May the seed come back to me; पुनर् माम् ऐतु इन्द्रियं पुनर् तेजस् पुनर् भगः – may I attain lustre and prosperity again;
○ पुनर् अग्निः धिष्ण्याः यथा-स्थानं कल्पन्ताम् – may the gods replace again the seed which is the abode (Dhiṣṇya, devotion altar) of fire, in the appropriate place in my body’.
इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्॥
इति अनामिका-अङ्गुष्ठाभ्याम् आदाय – Saying thus he should take it using the ring finger (‘the nameless’) and the thumb अन्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् – and apply it within the two breasts or the two eye-brows.
♬
❚❚
BrhU.6.4.6
अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत
मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति
अथ यदि उदके आत्मानं पश्येत् – If a man sees his seed fallen on water, तद् अभिमन्त्रयेत – he should (looking at his reflection) utter the mantra:
मयि तेजस् इन्द्रियम् – ‘(May the gods grant) me lustre, virility, यशस् द्रविणं सु-कृतम् इति – fame, wealth and (effects of) auspicious deeds.
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत॥
श्रीः ह वै एषा स्त्रीणां – (Then he should extol his wife:) This my wife is verily the most beautiful among women in the world. यद् मल-उद्वासाः – Her garment bears the sign of menstruation. तस्मात् मल-उद्वाससं यशस्विनीम् अभिक्रम्य – He should approach the virtuous wife (after three days, when she has taken the bath) उपमन्त्रयेत – and speak to her.
♬
❚❚
BrhU.6.4.7
सा चेदस्मै न दद्यात्काममेनामवक्रीणीयात्
सा चेद् अस्मै न दद्यात् – If she does not give herself up to him, कामम् एनाम् अवक्रीणीयात् – he should buy things of her liking and offer her).
सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश आदद इत्ययशा एव भवति॥
सा चेद् अस्मै न एव दद्यात् – If she does not yield still, कामम् एनां यष्ट्या वा पाणिना वा उपहत्य – he should strike her with a stick or with the hand as he wishes अतिक्रामेत् – and advance forcibly, इन्द्रियेण ते यशसा यशस् आददे इति – (uttering the mantra:) ‘I snatch off your reputation by the power of my reputation’. अ-यशा एव भवति – Then she wi1l become barren or a loser of his love.
♬
❚❚
BrhU.6.4.8
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः॥
सा चेद् अस्मै दद्यात् – If she is willing (he should proceed), इन्द्रियेण ते यशसा यशस् आदधामि इति – (uttering the following Mantra:) ‘By the power of my reputation I transmit reputation into you’, यशस्विनौ एव भवतः – and they both become reputed.
♬
❚❚
BrhU.6.4.9
स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेद्।
सः याम् इच्छेत् – He who with regard to his wife wishes, कामयेत मा इति – ‘She should love me with all passion’, तस्याम् अर्थं निष्ठाय – should, inserting his organ of generation into her vaginal passage, मुखेन मुखं सन्धाय – bringing both their faces together, उपस्थम् अस्याः अभिमृश्य – and touching her organ of generation, जपेत् – utter the mantra:
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे।
स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादयेमाममूं मयीति॥
● अङ्गात् अङ्गात् सम्भवसि – ‘(O seed!) You are (the vigour) issuing out from all the limbs.
○ हृदयात् अधिजायसे – You originate (through a vein) from the heart;
● सः त्वम् अङ्ग-कषायः असि – you are the essence (Kaṣāya, decoction or passion) of all the limbs.
○ दिग्ध-विद्धम् इव – Just as (a female deer swoons) when shot by a poison-tipped arrow, मादय इमाम् – so (may you) intoxicate my wife (with intense passion); अमूं मयि इति – (let) her (give herself up) to me’.
♬
❚❚
BrhU.6.4.10
अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्याद्
अथ याम् इच्छेन् – Now he who, with regard to his wife, wishes न गर्भं दधीत इति – ‘She should not become pregnant’, तस्याम् अर्थं निष्ठाय – should, by inserting his organ of generation into her vaginal passage, मुखेन मुखं सन्धाय – and bringing both their faces together, अभिप्राण्य अपान्यात् – should exhale and then inhale the vital (life) force
इन्द्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति॥
इन्द्रियेण ते रेतसा रेतस् आददे इति – (and say:) ‘By the power of my seed, I snatch off your (power to beget an) offspring’. अ-रेताः एव भवति – Then she does not become pregnant.
♬
❚❚
BrhU.6.4.11
अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्याद्
अथ याम् इच्छेत् – Now he who, with regard to his wife, wishes, दधीत इति – ‘She should become pregnant’, तस्याम् अर्थं निष्ठाय – should, by inserting his organ of generation into her vaginal passage, मुखेन मुखं सन्धाय – and bringing both their faces together, अपान्य अभिप्राण्यात् – should inhale and then exhale the vital (life) force
इन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति॥
इन्द्रियेण ते रेतसाः रेतस् आदधामि इति – (and say:) ‘By the power of my seed I impregnate you’. गर्भिणी एव भवति – Then she certainly becomes pregnant.
♬
❚❚
BrhU.6.4.12
अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात्।
अथ यस्य जायायै जारः स्यात् – If a man’s wife has a lover तं चेद् द्विष्यात् – whom he wishes to injure, आम-पात्रे अग्निम् उपसमाधाय – he should put the fire in an unbaked earthen vessel, प्रतिलोमं शर-बर्हिः तीर्त्वा – spread stalks of reed and Kuśa grass in an inverse way, तस्मिन् एताः शर-भृष्टीः प्रतिलोमाः सर्पिषा अक्ताः जुहुयात् – and offer (Juhuyāt) the reed tips, soaked (Ukta) in clarified butter, in (the fire) in an inverse way, (saying:)
मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति।
मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति।
● मम समिद्धे अहौषीः – ‘Thou hast sacrificed in my kindled fire, प्राण-अपानौ ते आददे असौ इति – I take away thy Prāṇa and Apāna – so and so.
● मम समिद्धे अहौषीः – ‘Thou hast sacrificed in my kindled fire, पुत्र-पशून् ते आददे असौ इति – I take away thy sons and animals – so and so.
मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति।
मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति।
● मम समिद्धे अहौषीः – ‘Thou hast sacrificed in my kindled fire, इष्टा-सुकृते ते आददे असौ इति – I take away thy Veda rites and those done according to the Smṛti – so and so.
● मम समिद्धे अहौषीः – ‘Thou hast sacrificed in my kindled fire, आशा-पराकाशौ ते आददे असौ इति – I take away thy hopes and expectations – so and so’.
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति॥
सः वै एषः यम् एवं-विद् ब्राह्मणः शपति – The man whom a Brāhmaṇa with knowledge of this ceremony curses, निर्-इन्द्रियः वि-सुकृतः अस्मात् लोकात् प्रैति – departs from this world emasculated and shorn of his merits. तस्मात् एवं-विद् श्रोत्रियस्य दारेण न उपहासम् इच्छेत् उत – Therefore one should not wish even to cut jokes (Upahāsa) with the wife of a Veda scholar who knows this ceremony, एवं-विद् हि परः भवति – for he who has such knowledge becomes an enemy.
♬
❚❚
BrhU.6.4.13
अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात्त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत्॥
अथ यस्य जायाम् आ्तवं विन्देत् – Supposing a man’s wife is having her menstrual period (Ārthava), त्रि-अहं कंसेन पिबेत् – she should drink for three days out of a cup (Kaṃsa). न एनां वृषलः न वृषली उपहन्यात् – No Śūdra male or female should touch her. त्रि-रात्र-अन्ते आप्लुत्य – Having taken the bath after three nights, अहत-वासाः – she should wear fresh clothes, व्रीहीन् अवघातयेत् – and (again) be entrusted with the threshing of rice.
♬
❚❚
BrhU.6.4.14
स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
सः यः इच्छेत् पुत्रः मे शुक्लः जायेत – He who wishes that his son should be born fair, वेदम् अनुब्रुवीत – study one Veda सर्वम् आयुः इयात् इति – and attain a full term of life, क्षीर-ओदनं पाचयित्वा – should have rice cooked in milk, सर्पिष्मन्तम् अश्नीयाताम् – and he and his wife should eat it with clarified butter. ईश्वरौ जनयितवै – Then they would be able (Īśvarau) to produce (such a son).
♬
❚❚
BrhU.6.4.15
अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायते द्वौ वेदावनुब्रुवीत् सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ यः इच्छेत् पुत्रः मे कपिलः पिङ्गलः जायते – He who wishes that his son should be born tawny or brown, द्वौ वेदौ अनुब्रुवीत् – study two Vedas सर्वम् आयुः इयात् इति – and attain a full term of life, दधि-ओदनं पाचयित्वा – should have rice cooked in curd, सर्पिष्मन्तम् अश्नीयाताम् – and he and his wife should eat it with clarified butter. ईश्वरौ जनयितवै – Then they would be able to produce such a son.
♬
❚❚
BrhU.6.4.16
अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ यः इच्छेत् पुत्रः मे श्यामः लोहित-अक्षः जायेत – He who wishes that his son should be born dark with red (copper) eyes, त्रीन् वेदान् अनुब्रुवीत – study three Vedas सर्वम् आयुः इयात् इति – and attain a full term of life, उद-ओदनं पाचयित्वा – should have (plain) rice cooked in water, सर्पिष्मन्तम् अश्नीयाताम् – and he and his wife should eat it with clarified butter. ईश्वरौ जनयितवै – Then they would be able to produce such a son.
♬
❚❚
BrhU.6.4.17
अथ य इच्छेद्दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै॥
अथ यः इच्छेत् दुहिता मे पण्डिता जायेत – He who wishes that a daughter should be born to him who would be a scholar सर्वम् आयुः इयात् इति – and attain a full term of life, तिल-ओदनं पाचयित्वा – should have rice cooked with sesamum, सर्पिष्मन्तम् अश्नीयाताम् – and he and his wife should eat it with clarified butter. ईश्वरौ जनयितवै – Then they would be able to produce such a daughter.
♬
❚❚
BrhU.6.4.18
अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति
अथ यः इच्छेत् पुत्रः मे पण्डितः विगीतः – He who wishes that a son should be born (Jāyeta) to him who would be a reputed (Vigīta, ‘variously praised’) scholar, समितिम्-गमः – frequenting the assemblies शुश्रूषितां वाचं भाषिता जायेत – and speaking delightful words, सर्वान् वेदान् अनुब्रुवीत – would study all the Vedas सर्वम् आयुः इयात् इति – and attain a full term of life,
मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवा औक्षेण वार्षभेण वा॥॥
मांस-ओदनं पाचयित्वा – should have rice cooked with the meat औक्षेण वा आर्षभेण वा – of a vigorous bull or one more advanced in years, सर्पिष्मन्तम् अश्नीयाताम् – and he and his wife should eat it with clarified butter. ईश्वरौ जनयितवौ – Then they would be able to produce such a son.
♬
❚❚
BrhU.6.4.19
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति
अथ अभिप्रातर् एव – In the very morning स्थाली-पाक-आवृता आज्यं चेष्टित्वा – he purifies the clarified butter according to the mode of Sthālī-pāka, स्थाली-पाकस्य उपघातं जुहोति – and offers Sthālī-pāka oblations again and again (Upaghātam), अग्नये स्वाहा – (saying) ‘Svāhā to fire, अनुमतये स्वाहा – Svāhā to Anumati, देवाय सवित्रे सत्य-प्रसवाय स्वाहा इति – Svāhā to the radiant sun who produces infallible results’.
हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति।
हुत्वा उद्धृत्य – After offering, he takes up (the remnant of the cooked food), प्राश्नाति – eats part of it प्राश्य इतरस्याः प्रयच्छति – and after eating gives the rest to his wife. प्रक्षाल्य पाणी – Then he washes his hands, उदपात्रं पूरयित्वा – fills the water-vessel तेन एनां त्रिः अभ्युक्षति – and sprinkles her thrice with that water, (saying:)
उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम्।
सं जायां पत्या सहेति॥
● उत्तिष्ठ अतः विश्वावसः – ‘Get up from here, O Viśvā-vasu (celestial minstrel), अन्याम् इच्छ प्रपूर्व्याम् – and find out another young woman (Prapūrvyā, or ‘the next woman’)
○ पत्या सह – who is with (her) husband. सं जायां इति – (So that) Sam- ([-Upaimi], I may join with) (my) wife’ (per Sw. Mādhavānanda).
♬
❚❚
BrhU.6.4.20
अथैनामभिपद्यते।
अमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहम्।
सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम्॥
अथ एनाम् अभिपद्यते – He embraces her saying,
● अमः अहम् अस्मि – ‘I am he (Amaḥ, the vital force), सा त्वम् – and you are she (Sā, speech);
○ सा त्वम् असि – you are speech, अमः अहम् – and I am the vital force.
● साम अहम् अस्मि – I am Sāman, ऋच् त्वम् – and you are Ṛc;
○ द्यौः अहं – I am heaven, पृथिवी त्वम् – and you are the earth.
तावेहि संरभावहै सह रेतो दधावहै।
पुंसे पुत्राय वित्तय इति॥
● तौ एहि संरभावहै – Come, let us strive together, सह रेतस् दधावहै – let us both have coition,
○ पुंसे पुत्राय वित्तये इति – for gaining (Vittaye) a masculine son’.
♬
❚❚
BrhU.6.4.21
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि।
अथ अस्याः ऊरू विहापयति – Then he should separate her thighs विजिहीथां द्यावा-पृथिवी इति – (uttering the mantra) ‘0 sky and earth (in the form of thighs), may you both give way’. तस्याम् अर्थं निष्ठाय – Then inserting his organ of generation (into her vaginal passage) मुखेन मुखं सन्धाय – and bringing both their faces together, त्रिः एनाम् अनुलोमाम् अनुमार्ष्टि – he should gently rub her thrice from head to foot successively, (reciting the mantra):
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते॥
● विष्णुः योनिं कल्पयतु – ‘(0 my dear,) may Lord Viṣṇu bless (you so that) your organ (may be capable of producing a son),
○ त्वष्टा रूपाणि पिंशतु – may Tvaṣṭṛ, the sun, make (Piṃśatu) him (strong of) limbs and worth seeing (Rūpāṇi, form and appearance);
● आसिञ्चतु प्रजा-पतिः – may Prajā-pati grace you to get the seed infused (into you);
○ धाता गर्भं दधातु ते – may Dhātṛ (Brahmā) the creator, bless you to bear (and sustain) the foetus.
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ॥
● गर्भं धेहि सिनीवालि – (0 my dear,) may you who are none other than Sinī-vālī (the goddess of fertility) be blessed to bear (and sustain) the foetus,
○ गर्भं धेहि पृथु-स्तुके – may you who are none other than Pṛthu-stukā (the goddess of easy birth) be blessed to sustain the foetus;
● गर्भं ते अश्विनौ देवौ – for you to become impregnated, may the twin Aśvins (the sun and moon).
○ आधत्तां पुष्कर-स्रजौ – bearing the garland of lotus of their rays bless’.
♬
❚❚
BrhU.6.4.22
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ।
तं ते गर्भं हवामहे दशमे मासि सूतये॥
● हिरण्मयी अरणी – The two pieces of wood of golden hue,
○ याभ्यां निर्मन्थताम् अश्विनौ – (in days of yore) the twin Aśvins rubbed together.
● तं ते गर्भं हवामहे – I infuse into you that foetus
○ दशमे मासि सूतये – so that you are delivered of it in the tenth (lunar) month.
यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति॥
● यथा अग्नि-गर्भा पृथिवी – Just as the earth is possessed of fire as foetus,
○ यथा द्यौः इन्द्रेण गर्भिणी – as the sky is impregnated by Indra,
● वायुः दिशां यथा गर्भः – and as the wind is foetus to the quarters (space),
○ एवं गर्भं दधामि ते असौ इति – so do I infuse the foetus into you, so and so’.
♬
❚❚
BrhU.6.4.23
सोष्यन्तीमद्भिरभ्युक्षति।
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः।
एवा ते गर्भ एजतु सहावैतु जरायुणा॥
सोष्यन्तीम् – (Thereafter, at the time of delivery) the wife who is about to deliver अद्भिः अभ्युक्षति – should be sprinkled with water, (with the utterance of the mantra):
● यथा वायुः पुष्करिणीम् – ‘Just as the blowing wind the lotus-pool
○ समिङ्गयति सर्वतः – shakes from all sides,
● एव आ ते गर्भः एजतु – so also may your foetus move from (its position)
○ सह अवैतु जरायुणा – and come out together with the amnion (or the caul).
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः।
तमिन्द्र निर्जहि गर्भेण सावरां सहेति॥
● इन्द्रस्य अयं व्रजः कृतः – Indra (Prāṇa) has made this passage in the form of vagina
○ स-अर्गलः स-परिश्रयः – with an obstacle (Sa-argala) and with a covering.
● तम् इन्द्र निर्जहि – 0 Indra, remove the obstacle, i.e. the amnion covering the foetus,
○ गर्भेण स-आवरां सह इति – and make the foetus come out with the covering membrane’.
♬
❚❚
BrhU.6.4.24
जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोति।
जाते – When (the son) is born, अग्निम् उपसमाधाय – he should bring in the fire, अङ्के आधाय – take him in his lap, कंसे पृषत्-आज्यं सन्नीय – put a mixture of curd and clarified butter in a cup, पृषत्-आज्यस्य उपघातं जुहोति – and offer oblations again and again with that, (saying,)
अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे।
अस्योपसन्द्यां मा च्छैत्सीत्प्रजया च पशुभिश्च॥ स्वाहा।
● अस्मिन् सहस्रं पुष्यासम् – May I maintain a thousand people in this
○ एधमानः स्वे गृहे – house of mine while (I am) growing (as this son).
● अस्य उपसन्द्यां मा छैत्सीत् – May (the goddess of fortune) never cut off his lineage
○ प्रजया च पशुभिः च स्वाहा – of children and animals! Svāhā.
मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा।
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम्।
अग्निष्टत्स्विष्टकृद्विद्वान्स्विष्टं सुहुतं करोतु नः स्वाहेति॥
● मयि प्राणान् – The vital force that is in me, त्वयि मनसा जुहोमि स्वाहा – I mentally transfer to you. Svāhā.
● यद् कर्मणा अत्यरीरिचं यद् वा न्यूनम् इह अकरम् – If I have done anything too much or to little in this ceremony,
● अग्निः तद् स्विष्ट-कृत् विद्वान् – may the all-knowing beneficent fire अग्निः तद् सु-इष्ट-कृत् विद्वान् सु-इष्टं सु-हुतं करोतु नः स्वाहा इति – make the offering (Su-huta) just right for me (– neither too much nor too little)! Svāhā’.
♬
❚❚
BrhU.6.4.25
अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिर्…
अथ अस्य दक्षिणं कर्णम् अभिनिधाय Then putting (his mouth) to the child’s right ear, वाच् वाच् इति त्रिः – he should thrice repeat, ‘Speech, speech’.
अथ दधि मधु घृतं सन्नीयानन्तर्हितेन जातरूपेण प्राशयति। भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवःस्वः सर्वं त्वयि दधामीति॥
अथ दधि मधु घृतं सन्नीय – Next mixing curd, honey and clarified butter, अन्-अन्तर्-हितेन जात-रूपेण प्राशयति – he feeds him with (a strip of) gold not obstructed (i.e. containing no alloy), भूः ते दधामि – saying, ‘I put the earth into you, भुवस् ते दधामि – I put the sky into you, स्वर् ते दधामि – I put heaven into you, भूः भुवस् स्वर् सर्वं त्वयि दधामि इति – I put the whole of the earth, sky and heaven into you’.
♬
❚❚
BrhU.6.4.26
अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति॥
अथ अस्य नाम करोति – Then he gives him a name, वेदः असि इति – ‘You are Veda (knowledge)’. तद् अस्य तद् गुह्यम् एव नाम भवति – That is his secret name.
♬
❚❚
BrhU.6.4.27
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति।
अथ एनं मात्रे प्रदाय – Then he hands him to his mother स्तनं प्रयच्छति – to be suckled, (saying,)
यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः।
● यः ते स्तनः शशयः – ‘(O Sarasvatī) That breast of thine which is stored with results (reading or interpreting as Sa-śaya, where Śaya is interpreted as ‘fruit?’, but lit. Śaśaya, ‘over-flowing or unfailing’, cp. Śaś-vat, ‘repeatedly’), मयो-भूः – is the sustainer of all (Mayas-bhū, lit. ‘pleasure-giving’),
○ यः रत्न-धाः – full of milk (lit. ‘wealth-bearer’), वसु-विद् – the obtainer of wealth (one’s deserts, Vasu-vid, lit. ‘treasure-finder’), यः सु-दत्रः – and generous.
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति॥
● येन विश्वा पुष्यसि वार्याणि – and through which thou nourish all who are worthy of it (the gods etc.)
○ सरस्वति तम् इह धातवे कर् इति – O Sarasvatī, transfer (Kar, or it is Karoti) that here (to my wife, for my babe) to suck (Dhātave, ‘to nourish)’.
♬
❚❚
BrhU.6.4.28
अथास्य मातरमभिमन्त्रयते।
अथ अस्य मातरम् अभिमन्त्रयते – Then he addresses the mother:
इलासि मैत्रावरुणी वीरे वीरमजीजनत्।
सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति॥
● इला असि – ‘You are the adorable मैत्रावरुणी – Maitrāvaruṇī (the wife of Mitrāvaruṇa, or Vasiṣṭha, i.e. Arundhatī).
○ वीरे वीरम् अजीजनत् – you have brought forth a male child (Vīra) with the help of me, who am a man (Vīre).
● सा त्वं वीरवती भव – Be the mother of many sons,
○ या अस्मान् वीरवतः अकरत् इति – for you have given us a son’.
तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति॥
यः एवं-विदः ब्राह्मणस्य पुत्रः जायते – Of him who is born as the child of a Brāhmaṇa with this particular knowledge, तं वै एतम् आहुः – they say, अति-पिता बत अभूः – ‘You have exceeded your father, अति-पिता-महः बत अभूः – and you have exceeded your grandfather. परमां बत काष्ठां प्रापत् – You have reached the extreme limit of attainment श्रिया – through your splendor, यशसा – fame ब्रह्म-वर्चसेन इति – and Brahmanical power’.
BrhU.6.5
♬
❚❚
BrhU.6.5.1
अथ वंशः। पौतिमाषीपुत्रः कात्यायनीपुत्रात्कात्यायनीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रः कात्यायनीपुत्रात्कात्यायनीपुत्रः कौशिकीपुत्रात्कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः॥
अथ वंशः – Now the line of teachers:
पौतिमाषी-पुत्रः कात्यायनी-पुत्रात् – The son of Pautimāṣī (received it) from the son of Kātyāyanī.
कात्यायनी-पुत्रः गौतमी-पुत्रात् – He from the son of Gautamī.
गौतमी-पुत्रः भारद्-वाजी-पुत्रात् – The son of Gautamī from the son of Bhārad-vājī.
भारद्-वाजी-पुत्रः पाराशरी-पुत्रात् – He from the son of Pārāśarī.
पाराशरी-पुत्रः औपस्वस्ती-पुत्रात् – The son of Pārāśarī from the son of Aupasvastī.
औस्वस्ती-पुत्रः पाराशरी-पुत्रात् – He from the son of another Pārāśarī.
पाराशरी-पुत्रः कात्यायनी-पुत्रात् – He from the son of Kātyāyanī.
कात्यायनी-पुत्रः कौशिकी-पुत्रात् – The son of Kātyāyanī from the son of Kauśikī.
कौशिकी-पुत्रः आलम्बी-पुत्रात् च वैयाघ्रपदी-पुत्रात् च – The son of Kauśikī from the son of Ālambī and the son of Vaiyāghra-padī.
वैयाघ्रपदी-पुत्रः काण्वी-पुत्रात् च कापी-पुत्रात् च – The son of Vaiyāghra-padī from the son of Kāṇvī and the son of Kāpī.
कापीपुत्र – The son of Kāpī…
BrhU.6.5.2
आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद्गौतमीपुत्रो भारद्वाजीपुत्राद्भारद्वाजीपुत्रः पाराशरीपुत्रात्पराशरीपुत्रो वात्सीपुत्राद्वात्सीपुत्रः पाराशरीपुत्रात्पाराशरीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्रो वार्कारुणीपुत्राद्वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः शौङ्गीपुत्राच्छौङ्गीपुत्रः साङ्कृतीपुत्रात्साङ्कृतीपुत्र आलम्बायनीपुत्रादालम्बायनीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्जायन्तीपुत्रो माण्डूकायनीपुत्रान्माण्डूकायनीपुत्रो माण्डूकीपुत्रान्माण्डूकी पुत्रः शाण्डलीपुत्राच्छाण्डलीपुत्रो राथीतरीपुत्राद्राथीतरीपुत्रो भालुकीपुत्राद्भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्वैदभृतीपुत्रः कार्शकेयीपुत्रात्कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः॥
…आत्रेयी-पुत्रात् – from the son of Ātreyī.
आत्रेयी-पुत्रः गौतमी-पुत्रात् – The son of Ātreyī from the son of Gautamī.
गौतमी-पुत्रः भारद्-वाजी-पुत्रात् – The son of Gautamī from the son of Bhārad-vājī.
भारद्-वाजी-पुत्रः पाराशरी-पुत्रात् – He from the son of Pārāśarī.
पराशरी-पुत्रः वात्सी-पुत्रात् – The son of Pārāśarī from the son of Vātsī.
वात्सी-पुत्रः पाराशरी-पुत्रात् – The son of Vātsī from the son of another Pārāśarī.
पाराशरी-पुत्रः वार्कारुणी-पुत्रात् – The son of Pārāśarī from the son of Vārkāruṇī.
वार्कारुणी-पुत्रः वार्कारुणी-पुत्रात् – He from the son of another Vārkāruṇī.
वार्कारुणी-पुत्रः आर्तभागी-पुत्रात् – This one from the son of Ārtabhāgī.
आर्तभागी-पुत्रः शौङ्गी-पुत्रात् – He from the son of Śauṅgī.
शौङ्गी-पुत्रः साङ्कृती-पुत्रात् – The son of Śauṅgī from the son of Sāṅkṛtī.
साङ्कृती-पुत्रः आलम्बायनी-पुत्रात् – He from the son of Ālambāyanī.
आलम्बायनी-पुत्रः आलम्बी-पुत्रात् – He again from the son of Ālambī.
आलम्बी-पुत्रः जायन्ती-पुत्रात् – The son of Ālambī from the son of Jāyantī.
जायन्ती-पुत्रः माण्डूकायनी-पुत्रात् – He from the son of Māṇḍūkāyanī.
माण्डूकायनी-पुत्रः माण्डूकी-पुत्रात् – He in his turn from the son of Māṇḍūkī.
माण्डूकी-पुत्रः शाण्डली-पुत्रात् – The son of Māṇḍūkī from the son of Śāṇḍili.
शाण्डली-पुत्रः राथीतरी-पुत्रात् – The son of Śāṇḍili from the son of Rāthītarī.
राथीतरी-पुत्रः भालुकी-पुत्रात् – He from the son of Bhālukī.
भालुकी-पुत्रः क्रौञ्चिकी-पुत्राभ्याम् – The son of Bhālukī from the two sons of Krauñcikī.
क्रौञ्चिकी-पुत्रौ वैदभृती-पुत्रात् – They from the son of Vaidabhṛtī.
वैदभृती-पुत्रः कार्शकेयी-पुत्रात् – He from the son of Kārśakeyī.
कार्शकेयी-पुत्रः प्राचीन-योगी-पुत्रात् – He again from the son of Prācīna-yogī.
प्राचीन-योगी-पुत्रः साञ्जीवी-पुत्रात् – He from the son of Sāñjīvī.
साञ्जीवी-पुत्रः प्राश्नी-पुत्रात् आसुरि-वासिनः – The son of Sāñjīvī from Āsuri-vāsin, the son of Prāśnī.
प्राश्नी-पुत्रः आसुरायणात् – The son of Prāśnī from Āsurāyaṇa.
आसुरायणः आसुरेः – He from Āsuri.
आसुरिः – Āsuri…
BrhU.6.5.3
याज्ञवल्क्याद्याज्ञवल्क्य उद्दालकादुद्दालकोऽरुणादरुण उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो बाध्योगाज्जिह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो हरितात्कश्यपाद्धरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्या अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते॥
…याज्ञ-वल्क्यात् – from Yājña-valkya.
याज्ञ-वल्क्यः उद्दालकात् – Yājña-valkya from Uddālaka.
उद्दालकः अरुणात् – Uddālaka from Aruṇa.
अरुणः उपवेशेः – Aruṇa from Upaveśi.
उपवेशिः कुश्रेः – Upaveśi from Kuśri.
कुश्रिः वाज-श्रवसः – Kuśri from Vaja-śravas.
वाज-श्रवा जिह्वावतः बाध्योगात् – He from Jihvāvat, the son of Badhyoga.
जिह्वावान् बाध्योगः असितात् वार्ष-गणात् – He from Asīta, the son of Varṣa-gaṇa.
असितः वार्ष-गणः हरितात् कश्यपात् – He from Harita Kaśyapa.
हरितः कश्यपः शिल्पात् कश्यपात् – He from Śilpa Kaśyapa.
शिल्पः कश्यपः कश्यपात् नैध्रुवेः – This one from Kaśyapa, the son of Nidhruva.
कश्यपः नैध्रुविः वाचः – He from Vāc.
वाच् अम्भिण्याः – She from Ambhiṇī.
अम्भिणी आदित्यात् – She from the sun.
आदित्यानि इमानि शुक्लानि यजूंषि – These white Yajus (Śrutis) received from the sun वाजसनेयेन याज्ञ-वल्क्येन आख्यायन्ते – are explained by Yājña-valkya Vājasaneya.
BrhU.6.5.4
समानमा साञ्जीवीपुत्रात्साञ्जीवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्माण्डव्यः कौत्सात्कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद्वामकक्षायणः शाण्डिल्याच्छण्डिल्यो वात्स्याद्वात्स्यः कुश्रेः कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्तुरः कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः॥
समानम् आ साञ्जीवी-पुत्रात् – The same up to the son of Sāñjīvī.
साञ्जीवी-पुत्रः माण्डूकायनेः – The son of Sāñjīvī from Māṇḍūkāyanī.
माण्डूकायनिः माण्डव्यात् – Māṇḍūkāyanī from Māṇḍavya.
माण्डव्यः कौत्सात् – Māṇḍavya from Kautsa.
कौत्सः माहित्थेः – Kautsa from Māhitthi.
माहित्थिः वाम-कक्षायणात् – He from Vāma-kakṣāyaṇa.
वाम-कक्षायणः शाण्डिल्यात् – He from Śāṇḍilya.
शण्डिल्यः वात्स्यात् – Śāṇḍilya from Vātsya.
वात्स्यः कुश्रेः – Vātsya from Kuśri.
कुश्रिः यज्ञ-वचसः राज-स्तम्बायनात् – Kuśri from Yajña-vacas, the son of Rāja-stamba.
यज्ञ-वचा राज-स्तम्बायनः तुरात् कावषेयात् – He from Tura, the son of Kavaṣi.
तुरः कावषेयः प्रजा-पतेः – He from Prajā-pati (Hiraṇya-garbha).
प्रजा-पतिः ब्रह्मणः – Prajā-pati through his relation to Brahman (the Vedas).
ब्रह्म स्वयम्-भु – Brahman is self-born.
ब्रह्मणे नमः – Salutation to Brahman.
Go to Top ('Home' key on many Windows browsers)